________________ 266 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 2 कारिकाव्याख्यायों तोयत्वमिति किमसङ्गतम् ? / गतं तर्हि गोपूर्वकोऽयं गोत्वादित्यादिना। न गतम् , योनिजेष्वेव व्यवस्थापनात् , मानसास्त्वन्यथाऽपीति / गोमयवृश्चिकादिवद् इदानीमपि किं न स्यादिति चेन्न / कालविशेषनियतत्वात् कार्यविशेषाणाम्, न हि वर्षासु गोमयाच्छालक इति हेमन्ते किं न स्यात् // / समयोऽप्येकेनैव मायाविनेव व्युत्पाद्यव्युत्पादकभावावस्थितनानाकायाधिष्ठानाद् व्यवहारत एव सुकरः। यथा हि मायावी सूत्रसञ्चाराधिष्ठितं दारुपुत्रकमिदमानयेति प्रयुक्त, स च दारुपुत्रकस्तथा करोति तदा चेतनव्यवहारादिवत् तदर्शी बालो व्युत्पद्यते, तथेहापि स्यात्। क्रियाव्युत्पत्तिरपि तत एव कुलालकुविन्दादीनाम्। सर्गादावेव किं प्रमाणमिति चेत् / विश्वसन्तानोऽयं दृश्यसन्तानशून्यैः समवा वोधनी। मुत्पायजातीनामिति नियमो निरस्तः स्यात् इत्याह-गतं तर्हि इति / न गतम् इति / न च सोऽपि नियमः सर्वथा निरस्यत इति / कथमित्याह-योनिजेषु इति / योनिजेष्वेवायं नियमो नायोनिजेष्विति केवलं व्यवस्थाप्यते, तेन मानसानामन्यथात्वमपि संभवतीति / नन्वद्यत्वेऽपि यथा गोमयाद् वृश्चिका जायन्ते तथा मनसाऽपि केचिजायन्ताम् इत्याह-गोमय इति / न इति / कालविशेषलक्षणसहकारिविरहादित्यर्थः / तत्रैव दृष्टान्तमाह-न हि इति / तथा सर्गादावेवादृष्टोपनिबद्धभूतहेतुको जातिनियमः, नेदानीमपीति सिद्ध एव / संग्रहस्य तुरीयं पादं व्याचष्टे-समयोऽपि इति / मायाविनेत्येतद्विभजते-यथा हि इति / शब्दव्युत्पत्तिवद् घटादिनिर्माणव्युत्पत्तिरपि कुलालादिभावव्यवस्थितकायानधिष्ठाय पटादिकं निर्मिमाणेनैवेश्वरेण सुकरेत्याह-क्रियाव्युत्पत्तिरपि इति / ननु सर्गप्रलययोः सिद्धौ सर्वमेतदेवं स्थात् , तयोरेव सिद्धिः कुतस्त्येत्याह-सर्गादौ इति / सर्गसिद्धौ तावदनुमानमाह-विश्वसंतानोऽयम् इति / अवयवावयवविप्रवाहः संतानः, सिद्धसा. ध्यतानिवृत्त्यर्थमुक्तं-विश्व इति / दृश्यसंतानशून्यः इति / यथा ह्ययत्वे घटादिकार्याणि तदारम्भकैः परमाणुभिः तदारम्भात् पूर्वदृश्यमानमृत्पिण्डादिकार्यसंतानवद्भिरारम्यन्ते, नैवं सर्व. दापीति / कदाचिदृश्यसंतानशून्यैरनारब्धसर्व कार्यैः स्वरूपेणावस्थितैरिति यावत् / परमाणुभिर्विश्वं कार्यमारभ्यते यथा हरणिजनितोऽग्निः संतानान्तरशून्यैरेवारणिवर्तिभिराग्नेयपरमाणुभिरारभ्यत प्रकाशः। स्थेत्यर्थः / गतमिति / सर्गायगोव्यक्तौ व्यभिचारादित्यर्थः। योनिजेष्विति / योनिजमात्रवृत्तिगोत्वव्याप्यजातेस्तत्र हेतुत्वादित्यर्थः / तन्निश्चयश्च कालविशेषवृत्त्येति भावः / समयोऽपीति / नन्वीश्वरव्यवहाराच्छक्तिग्रहे स भ्रमः स्यात् / व्यवहारहेतुतज्ज्ञानस्य नित्यतया शब्दजन्यत्वबाधात् / तथा च तन्मूलकः सर्वशाब्दव्यवहारो भ्रमः स्यात् / न / घटपदर्ज घटज्ञानमित्यस्य भ्रमत्वेऽपि घटपदं घटशक्तमित्यस्य ज्ञानस्य सत्यज्ञानत्वादु विषयबाधाभावात्। न च भ्रममूलकत्वेन भ्रमत्वम् / विशेष्यावृत्तिप्रकारकत्वस्योपाधित्वात् / अत एवानुरूप दृष्टान्तमाह / यथा होति / विश्वसन्तान इति / ननु विश्वशब्देन ब्रह्माण्डपक्षत्वे तदसिद्धथा आश्रयासिद्धि, कार्यमात्र पक्षत्वे क्रमारब्धदहनपवनादिन्यायेनारम्भेऽपि प्रलयासिद्धौ सिद्धसाधनम् / एकदेति विशेषणे टिप्पणी। मलयेऽहोरात्रत्वानभ्युपगमेऽपि ब्रह्माण्डस्यानित्यत्वे सम्यहोरात्रव्यक्तित्वे साधनाव्यापक