________________ विसीयस्तवके ] प्रलयोपपादनम् / 285 यमेऽपि सर्वमण्डलोपरागः स्यात्। त्रिदोषसन्निपातवद्धा / यथा हि वातपित्तश्लेष्मणां ययप्रकोपप्रशमक्रमानियमेऽपि एकदा सन्निपातः स्यात्तदा देहसंहारः, तथा कालानलसंहारपवनमहार्णवानां सन्निपाते ब्रह्माण्डदेहप्रलयावस्थायां युगपदेव भोगरहिताश्चेतनाः स्युरिति को विरोधः ? / तथापि, विदेहाः कर्मिण इति दुर्घटमिति चेत् / किमत्र दुर्घटम् ? / भोगनिरोधवच्छरीरेन्द्रियविषयनिमित्तनिरोधादेव तदुपपत्तेः। ___ वृश्चिकतण्डुलीयकादिवद् वर्णादिव्यवस्थाप्युपपद्यते। यथा हि, वृश्चिकपूर्वकत्वेऽपि वृश्चिकस्य गोमयादाद्यः, तण्डुलीयकपूर्वकत्वेऽपि तण्डुलीयकस्य तण्डुलकणादायो, वह्निपूर्वकत्वेऽपि वढेररणराद्यः, एवं क्षीरदधिघृततैलकदलीकाण्डादयः / तथा मानुषपशुगोब्राह्मणपूर्वकत्वेऽपि तेषां प्राथमिकास्तत्तत्कर्मोपनिबद्धभूतभेदहेतुका एव, स एव हेतुः सर्वत्रानुगत इति सर्वषां तत्सान्तानिकानां समानजा बोधनी। न्तान्तरमाह-त्रिदोष इति / तदेव विभजते-यथा हि इति / वातादिदोषाणां चयप्रकोपप्रशमा न निबताः कदाचिद्धि कश्चिच्चीयते कुप्यति शाम्यति वेति, न तु युगपत्सर्वेऽपि / यथाह-वाहटः / चयप्रकोपप्रशमा वायोग्रीष्मादिषु त्रिषु / वर्षादिषु च पित्तस्य श्लेष्मणः शरदादिषु / इति तत्रैकैकमात्रकोपे रोगः स्यात् / कदाचित् त्रयाणां सन्निपातो युगपत्कोपः स्यात् / तदा देह एव प्रलीयते / तदप्याह / "रोगस्तु दोषवैषम्याद्दोषसाम्यमरोगता / वातः पित्तं कफश्चेति त्रयो दोषाः समासतः। विकृता विकृता देहं घन्ति ते वर्तयन्ति च" / इति पक्षेऽप्याह-तथा इति / ब्रह्माण्डात्मनो देहस्य, कालानलः पित्तं, संहारपवनों वातः, महार्णवः श्लेष्मेति, तेषां कोपे तदपि प्रलीयते / तदा च भोग्यभोगसाधनयोरसंभवे भोगरहिताः कर्मिणस्तिटन्तीयविरुद्धमिति / तथापि इति / न सन्ति देहाः, सन्ति च तेषां निमित्तानि कर्माणीति व्याहतमिति / किमत्र इति / यथा हि तदानों सत्स्वेव कर्मसु तन्निरोधात् भोगो निरुध्यते, तथाऽत एव भोगसाधनदेहादिनिरोधोऽपि घटिष्यत इति / ___ तृतीय पादं व्याचो-वृश्चिक इति / दग्धादेवबीनात् कदलीकाण्डोत्पत्तिरित्यादयः / पक्षेऽप्याह-तथा इति / तेषां मानुषादीनाम् / तत्तत्कर्म इति / तत्तन्मानुषत्वादिजातिभेदनि. मित्तादृष्टवदात्मसंयुक्तारम्भकपरमाणुभेदहेतुका इति। तर्हि वैजात्यात्कारणस्य कार्यसाजात्यं न स्यादित्यत्राह-स एव इति / अयतनानामप्यदृष्टोपनिबद्धभूतभेदहेतुकैव जातिव्यवस्था, ततश्च न कारणवैजात्यमिति / यदि सर्वत्र कर्मोपनिबद्धभूतभेदहेतुर्जातिनियमः, तीत्पादकजातिपूर्वकत्व "सुविनिदुर्व्यः सुपिसूतिसमा” इत्यनेन कृतसंप्रसारणस्यैव सुपेः षत्वविधानात् / तथाऽपोति / कर्ममिोगजनने देहस्यावश्योत्पायत्वादित्यर्थ / भोगेति / तदानीं कर्मभिर्भोगजननात् तदर्थ देहोत्पादनमित्यर्थः / तण्डुलीयकमुद्भिद् दृष्टान्तः। एवमिति / क्षीरादक्षीराच परमाणोः क्षीरम् , एवं दध्यायपीत्यर्थः। नन्विदानों ब्राह्मणत्वादिव्यवस्थापकं बिशुद्धमातापितृजत्वादिक, सर्गादौ तु कर्मत्यननुगम इत्यत आह / स एवेति / इदानीमप्यदृष्टविशेषोपगृहीतभूतजनितत्वेनैव तव्यव. प्रकाशिका। वृत्तित्वकरवाद् व्याचष्टे / प्रतिबद्धयति / तण्डुलीयकमिति / "उद्भिवृश्चिकव मकरन्दः / स्वात् / श्वासमनककर्मणां कृत्तिलाभादसिद्धिरिति विवृणोति प्रतिबबेति। तण्डुलोयकेति। प्रकाशः।