________________ 284 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 2 कारिकाव्याख्यायां लीति तदानों कृत्स्नान्येव भोगविमुखानि / न ह्यचेतयतः कश्चिद्भोगो नाम / विरो. धात् / कस्तर्हि तदानीं शरीरस्योपयोगः ? / तं प्रति न कश्चित् / तर्हि किमर्थमनुवर्तते / उत्तरभोगाऽयं, चक्षुरादिवत् / प्राणिति किमर्थम् / श्वासप्रश्वाससन्तानेनायुषोऽवस्थाभेदार्थम् , तेन भोगविशेषसिद्धेः। एकस्यैव तत् कथञ्चिदुपपद्यते, न तु विश्वस्येति चेत् / अनन्ततया, अनियतविपाकसमयतया, उपमोपमईकस्वभावतया च कर्मणां, विश्वस्यकस्य वा को विशेषो येन तन्न भवेत् / भवति च सर्वस्यैव सुष्वापः। क्रमेण, न तु युगपदिति चेन्न / कारणक्रमायत्तत्वात् कार्यक्रमस्य / न च स्वहेतुबलायातैः कारणैः क्रमेणैव भवितव्यम् , अनियतत्वादेव / सर्वग्रासवत् / ग्रहाणां ह्यन्यदा समागमानियमेऽपि तथा कदाचित् स्यात् / यथा कलाद्यनि धनी अनियतविपाकसमयानीत्येतावता सुषुप्तिदशायां कृत्स्नान्यपि भोगाविमुखानि न हि भवन्ति, किंतु भोगविमुखान्येव / सुषुप्तस्य भोगोत्पादः किमिति न स्यात् अत्राह-न हि इति / अचैतन्य सुषुप्तिमुर्छादिः, भोगश्च सुखायनुभवः / तत्र यदि सुषुप्तस्य भोगः स्यात् तदाऽस्त्यनुभवो नास्ति चेति विरोधः स्यादिति / यदि तदा न भोगः कश्चित्तर्हि भोगसाधनस्य शरीरस्य कोपयोग इत्याह-कस्तर्हि इति / गूढाभिसन्धिराह-तंप्रति इति / तं = सुषुप्तमिति / अज्ञातपराभिसन्धिः पृच्छति-किमर्थम् इति / स्वाभिसन्धिमुद्घाटयन्नुत्तरमाह-उत्तर इति / यथा हि ज्ञानजननानि चक्षुरादीनि तदानीं ज्ञानमनुत्पादयन्त्यपि जाग्रद्दशायां तदुत्पादनायानुवर्तन्ते तथा शरीरमप्यत्तरभोगायेति / कस्तर्हि उत्तरकालं यावत्तावदवस्थितस्य प्राणनस्य तदानीमुपयोग इत्याह-प्राणिति इति / प्राणनं नाम = शरीरान्तर्वत्तिनो वायोर्गतिविशेष इति / श्वास इति / प्राणाख्यस्य वायोः कालावच्छेदेन संबन्ध श्रायुरिति / अवस्थाभेदो वा किमर्थ इत्याह-तेन इति / अस्मिन्नवस्था भेदे असौ भोगोऽस्मिस्त्वयमित्यवस्थाभेदेषु भोगविशेषाः प्राणिनां नियताः, ततस्तत्सिद्वयर्थोऽवस्थामेद इति / नन्वस्त्वेकस्यात्मनः कर्मणां युगपत्तिनिरोधा, न तु विश्वस्यात्मवर्गस्य, न ह्यनन्तानां भोक्तृणामनन्तानि कर्माणि युगपनिरोत्स्यन्त इति संभवतीत्याह-एकस्यैवेति / अनन्त इति / अनन्तत्वादीनि हि कर्मणां युगपन्निरोधविरोधीनिः तानि च कर्मणामेकत्वानेकस्वयोरविशिष्टानि / तत्र यद्यकस्य सुषुप्तिदशायां तथाभूतानामेव कर्मणां युगपनिरोधः संभवति / किमिति विश्वस्यायं न संभवेदिति / किंच, सुषुप्तिरपि सर्वस्य भवति ने त्वेकस्यैवेत्याह-भवति च इति / तेन कर्मिणामेकानेकत्वकृतो विशेषो नास्तीति / ननु सत्यमस्ति सर्वस्यापि सुल्वापः, स तु क्रमेण न युगपदित्याह-क्रमेण इति / ततश्च न तन्निदर्शनेन युगपत्प्रलयः सिध्यतीति भावः / न इति / सुषुप्तेः कारणक्रमवशात् क्रमः, न युगपनिरोधविरोधादिति / ननु सुषुप्तेरिव प्रलयस्यापि कारणानि क्रमेण भवन्ति दृश्यन्ते, तद्वत्सर्वदापि किमिति न भवन्तीत्यत्राह-न च इति / न हि क्वचित्कदाचिद्वा क्रमभावीनि कारणानीति सर्वत्र सर्वदा वा तैस्तथा भवितव्यं स्वहेतूनां क्रमयोगपद्यवशेन संभवत्क्रमयोगपद्यानां कारणानामनियतत्वात् क्रमस्येति / एकदा क्रमभाविनामेवान्यदा यौगपद्यं दृष्टमित्याह-सर्वग्रासवत् इति / तदेव विभजते-ग्रहाणामिति / अत्रैव दृष्टा प्रकाशः। तीनि प्रतिबद्धभोगजननानि, तद्वत्तदाऽपीत्यर्थः / आयुष इति / जीवनस्य कालावच्छेद आयुस्त. दर्थमित्यर्थः / उपमयेति / प्रतिबद्धयप्रतिबन्धकस्वभावतयेत्यर्थः। सुस्वाप इति युक्तः पाठः / प्रकाशिका। न चानित्यत्वेऽपि ब्रह्माण्डस्य तत्कालीनत्वं साधनाव्यापकर्मेव, प्रलयेऽहोराशानभ्युपगमादिति वाच्यम् / विवक्षितोपाधेराद्याहोरात्रे साधनाव्यापकत्वात् / स्वापसन्तानजनककर्मणामनिरुद्ध