________________ द्वितीयस्तर के ]. प्रलयोपपादनम् / 283 पाधिनिबन्धनत्वात्तस्य तदभाव एवं व्यावृत्ता को दोषः। न च तदनुत्पन्नमनश्वर वा अवयवित्वात् // - वृत्तिनिरोधस्यापि सुषुप्त्यवस्थावदुपपत्तेः। न ह्यनियतविपाकसमयानि कर्मा वोननी। निमित्तभता या ब्रह्माण्डस्थितिः सा स्वरूपमात्मा यस्य कालोपाधेः स एव निबन्धनमनन्तराहोरा अपूर्वकत्वस्यः तत्मात्सर्गादौ तस्योपाधेरभावे साध्यव्यावृत्तिर्नानुपपन्नेति / ननु ब्रह्माण्डस्य सर्व शवस्थानात् कथं च तदभावः तत्राह-न च इति / तत् ब्रह्माण्डमुत्पन्नं विनश्वरं च सावयवत्वादिति। अथ द्वितीयं पादं व्याचष्टे-वृत्तिनिरोधस्यापि इति / दृष्टान्तं विभजते-न हि इति / प्रकाशः। स्वमव्यवहिताहोरात्रपूर्वकत्वव्याप्यम, अहोरात्रवृत्तिधर्मत्वात्. एतदहोरात्रत्ववत् / पक्षकदेशस्यापि दृष्टान्तत्वाविरोधात्। साध्यवत्तया निश्चितत्वस्यैव तन्त्रत्वादिति वाच्यम्। अहोरात्रत्वसमानाधिकरणा त्यन्ताभावप्रतियोगित्वस्योपाधित्वात्। न च ब्रह्माण्डत्य नित्यत्वेन साधनव्यापकोऽयमुपाधिरित्याह। न चेति / वृत्तिनिरोधस्येति / यथा सुषुप्तौ विषमविपाकसमयान्यपि कर्माणि,युगपनिरुद्ध - प्रकाशिका। वर्षीदिनपूर्वकत्वे राशिविशेषावच्छिन्नदिवाकरदिनोत्तरत्वमुपाधिः, स च शरदायदिनेऽपि वृत्तेन साध्याव्यापकः, वर्षायदिने वृत्तेन साधनव्यापक इत्येव मूलतात्पर्य्यमिति भावः। अत एव राश्या. दिविशेषसंसर्ग भेद उपाधिरित्युक्तं प्रकाशकृता। अहोरात्रस्याहोरात्रपूर्वकत्वे च साध्ये वत्स. रायनन्तरितब्रह्माण्डावच्छिन्नकालोपाध्युत्तरत्वमुपाधिरित्यवसेयम् / पक्षकदेशस्यापोति / इद. वाहोरात्रमात्रवृत्तिधर्मत्वावच्छिन्नस्य पक्षत्वे, यथाश्रुतेऽहोरात्रत्वस्य सकलाहोरात्रवृत्तिधर्मविशेषस्य पक्षतायामेतदहोरात्रत्वस्य पक्षान्यत्वादसङ्गतेः पक्षतावच्छेदकावच्छिन्नसाध्यानुमितेश्व प्रकृतोपयोगितया हेतोरेव पक्षतावच्छेदकतया व्याप्तिग्रहकाल एव सिद्धसाधन मिति निरस्तम् / अहोरात्रत्वेति / पक्षैकदेशे चाहोरात्रकत्वे साधनाव्यापकत्वमुपाधिरिति ध्येयम् / न चेति / मकरन्दः / धर्म इत्यर्थः / तेन पक्षैकदेशस्यापीत्यग्रिमग्रन्थसङ्गतिः। अन्यथैतद्धर्म विशेषस्यापक्षत्वे दृष्टा न्तस्य तदेकदेशत्वाभावादसङ्गतिः स्यादिति ध्येयम् / न चैवं हेतुपक्षतावच्छेदकयोरभेदोऽशतः सिद्धसाधनश्चेति वाच्य, तद्विशेष्यकोद्देश्यप्रतीतेरसिद्धेरिति / अहोरात्रत्वेति / अहोरात्रत्वस्य धर्मे पक्षान्तभूते साधनाव्यापकत्वमस्येति ध्येयम् / न चेति / न चानित्यत्वेऽपि ब्रह्माण्डस्य तत्कालीनत्वमहोरात्रत्वरूपसाधनव्यापकमेव प्रलयकालेऽहोरात्रानभ्युपगमादिति वाच्यम् / स्थितिकालपदेन सर्गायाहोरात्रव्यावृत्तस्य स्थितिकालविशेषस्योक्त टिप्पणी। रात्रत्वेनाभिमतव्यक्तिनिष्ठतव्यक्तित्वे स्वाश्रयाव्यवहिताहोरात्रपूर्वकत्वस्य न्यायमते तदाश्रयेऽ सिद्धेः सिद्धसाधनाभावात् / द्वितीये च पक्षतावच्छेदकहेत्वोरैक्येन व्याप्तिप्रहकाले सिद्ध. साधनप्रसङ्गादिति भावः / अहोरात्रत्वसमानाधिकरणेत्यादि / अहोरात्रवृत्तिधर्मत्वकपो हेतुन साध्यप्रयोजकः, तस्य परिदृश्यमाननिर्विवादसाध्यवदिदानीन्तनाहोरात्रत्व इव साध्यवत्तया सन्दिग्धेऽहोरात्रत्वेऽपि निश्चितत्वात् किन्तूक्तप्रतियोगित्वमेव, तस्य साध्यवत्तया निश्चितेष्वेव तत्तदहोरात्रत्वेषु सत्त्वादिति इदश्चाहोरात्रत्वे साधनाव्यापक उपाधिरिति यथाश्रुताभिप्रायः। न च भ्रमान्तस्येत्यायनिमप्रन्थविरोधः स्यात् / नित्यानित्यत्वेऽप्युभयथैवाहोरात्रत्वे साधनव्यापकत्वस्यो. पाधेः सत्त्वादिति वाच्यम् / स्वपदार्थघटितोक्तसाध्यस्याहोरात्रत्वसत्वादौ निश्चयेन तत्रोपाधेर. सम्भवात् साम्याव्यापकत्वाद् ब्रह्माण्डान्तस्थितिकालीनवृत्तित्वस्योपाधितया विवक्षणीयत्वात् /