________________ द्वितीयस्तवके ] प्रलयोपपादनम् / उच्यते-- - वर्षाविवद्भवोपाधिवृत्तिरोधः सुषुप्तिवत् // उद्भिवृश्चिकवद्वाँ मायावत् समयादयः॥२॥ तत्पूर्वकत्वमात्रे सिद्धसाधनाद् , अनन्तरतत्पूर्वकत्वे अप्रयोजकत्वाद् , वर्षादि बोधनी। तानि कर्माणि न युगपन्निरुद्धवृत्तीनि विषमविपाकसमयत्वात् इदानीं भुक्तभुज्यमानभोक्ष्यमाणकर्मवदिति / किञ्च, सर्गादिभुवां जातिविशेषव्यवस्थापकस्योत्पादकजातिविशेषस्याभावाद् ब्राह्मणत्बादिवर्णव्यवस्था न स्यात् / विप्रतिपन्ना ब्राह्मणा ब्राह्मणसंतानजन्मानः ब्राह्मणत्वादयतनवत् / किश्च, सर्गादौ सर्वेषामव्युत्पन्नत्वेन समयग्रहणानुपपत्तौ शब्दव्यवहारोऽपि लुप्येत / विप्रतिपन्नः शाब्द. व्यवहारः वृद्धव्यवहारपूर्वकः शाब्दव्यवहारत्वात् अद्यतनवत् / किश्च, तदानीं कस्यचिदादर्शकस्याभावाद् घटादिनिर्माणसंप्रदायो न स्यात् / विप्रतिपन्नं घटादिनिर्माणं तथाभूतादर्शकज्ञानपूर्वक षयदिनिर्माणत्वादद्यतनबत् इत्येतैहेतुभिर्युगपत्सर्गप्रलययोर भवे सति कर्थ वेदसंप्रदायविच्छेदः स्यादिति // पञ्चापि साधनानि दूषयति-उच्यते बर्षादिवत् इति / न तावदहोरात्रपूर्वकत्वे अहोरात्रत्वं प्रयोजकं, भबस्य ब्रह्माण्डस्थितेस्तत्रोपाधित्वात् / अथा वर्षादिदिनस्य तद्दिनपूर्वकत्वे तद्दिनत्वमप्र योजक राश्यादिसंसर्गोपाधित्वात् / तस्य च कर्मणां युगपवृत्तिनिरोधोऽपि सुषुप्तिदशायामिव संभवति। ब्राह्मणत्वादिनियमोऽपि गोमयादिजातानामिव वृश्चिकादीनामुपपद्यते / समयग्रहोऽपि सर्गादौ स्वयमेव परिगृहीतप्रयोज्यप्रयोजकवृद्धशरीरव्यवहारस्य परमेश्वरस्य व्यवहारत एव सुकरः, यथेन्द्रजालिकस्य सूत्रप्रोता दारूमयपुत्रिका इदमानयति नियुज्य तथा कुर्वन्तीभिस्ताभिर्मायाव्यवहारे तद्दर्शिनां बालानां, तया घटादिक्रियासंप्रदायोऽपि - गृहीतकुलालादिविग्रहेण भगवतैव सिध्यतीति / प्रथमं पादं व्याचष्टे-तत्पूर्वकत्वमात्रे इति / सर्गादिवत्तिनोऽहोरात्रस्याहोरात्रपूर्वकत्वे साध्ये सिद्धसाधनं, तस्यापि पूर्वसर्गान्तिमाहोरात्रपूर्वकत्वात् / किञ्च, संप्रतिपन्नाहोरात्रपक्षीकर. णे.सिद्धसाधनं सर्गादिवत्तिनस्त्वाश्रयासिद्धिरिति भावः। नन्वव्यवहिताहोरात्रपूर्वकत्वं साध्यत इत्यत्राह-अनन्तर इति / तत्राहोरात्रत्वमप्रयोजकं संप्रतिपनाहोरात्राणामनन्तरतत्पूर्वकत्वस्योपाध्यन्तरप्रयुक्तत्वादिति / अप्रयोजकत्वमेव दृष्टान्तेन दर्शयति-वर्षादि इति / यथा हि वर्षाःशरदि प्रकाशः। - वर्षादिवदिति / वर्षादौ, वर्षादिनपूर्वकत्वे साध्ये यथा राश्यादिमेदसंसर्गमेद उपाधिा,तपास होरात्रपूर्वकत्वेऽहोरात्रस्य साध्ये भवो ब्रह्माण्डस्य स्थितिकालः, स एवोपाधिरित्यर्थः। सुषुप्तौ यथा कर्मणां युगपन्निरोधस्तथा अन्यत्रापि स्यादित्याह / वृत्तिरोध इति / यथा तण्डलीयवृधिकयोस्तत्पूर्वकत्वेऽपि आद्यौ ते तण्डुलकणगोमयाभ्यां भवतः, तथा ब्राह्मणादीनां तत्पूर्वकत्वेऽपि सर्गादौ तज्जनककर्मोपगृहीतभूतभेदात् स्यादित्याह / उद्भिदिति / प्रयोज्यप्रयोजकायधिष्ठातुरी श्वरस्यैव व्यवहारान्मायादिव्यवहारादिव तद्दी व्युत्पन्नः स्यादित्याह / मायावदिति।। विवादाध्यासिताहोरात्रस्याहोरात्रपूर्वकत्वं साध्यम् अव्यवहिताऽहोरात्रपूर्वकत्वं बा। नाथ इत्याह। तत्पूर्वकत्वेति। पूर्वसर्गाहोरात्रपूर्वकत्वेन प्रलयेऽपि साध्यसिद्धरित्यर्थः। नान्त्योऽप्रयोजकस्वादित्याह। अनन्तरेति। वर्षादीति / तद्दिनं-वर्षादिनम् / ननु शरदायदिनस्य वर्षादिनपूर्वकत्वं प्रकाशिका। वर्षादाविति / वर्षायदिन इत्यर्थः / प्रलये = प्रलयाभ्युपगम इत्यर्थः / 36 न्या० कुछ