________________ 280 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलो [ 2 कारिकावतरणिकाया स्वमपि तेषां नित्यम् , तस्मात्तत्तज्जातीयक्रोडनिविष्टा एवं पदार्थाः पदानि च संबद्ध्यन्ते नातोऽन्यथेति, नैतदनुरोधेनापि शब्दस्य नित्यखमाशङ्कनीयमिति / यदा च वर्णा एव न नित्यास्तदा कैव कथा पुरुषविवक्षाधीनानुपूर्व्यादिविशिष्टवर्णसगूहरूपाणां पदानां, कुतस्तराञ्च तत्समूहरचनाविशेषस्वभावस्य वाक्यस्य, कुतस्तमां तत्समूहस्य वेदस्य // 1 // परतन्त्रपुरुषपरम्पराधीनतया प्रवाहाविच्छेदमेव नित्यतां घूम इति चेत् / एतदपि नास्ति / सर्गप्रलयसम्भवात् / / अहोरात्रस्याहोरात्रपूर्वकत्वनियमात् , कर्मणां विषमविपाकसमयतया युगपद वृत्तिनिरोधानुपपत्तेर्वर्णादिव्यवस्थाऽनुपपत्तेः, समयानुपलब्धौ शाब्दव्यवहारविलो. पप्रसङ्गाद् , घटादिसम्प्रदायभङ्गप्रसङ्गाच्च कथमेव मिति चेत् / बोधनी। दर्शयन्नपसंहरति-तस्मात् इसि / एतदनुरोधेन-संगतिग्रहानुरोधेनेति / तदेवं वर्णानामनित्यत्वं प्रसाध्य वेदानित्यत्वमाह-यदा वर्णाः इति / एवं तावत्प्रमायाः परतन्त्रस्वादिति व्याख्यातम् // 1 // अथ द्वितीयं पादं व्याचिख्यासुः शङ्कते-परतन्त्र इति / पूर्वपूर्वोच्चारयितृपुरुषपरतन्त्रोत्तरोचारयितृपरम्पराप्रवाहस्याविच्छेदो नित्यता सा च प्रत्युच्चारणविनाशिनोऽपि संभवतीति / पतदपि इति / एवत्प्रवाहाविच्छेदलक्षणमपि नित्यत्वमिति / सर्गप्रलययोरसंभवे पराभिमतसाधना. न्याशङ्कते-अहोरात्रस्य इति / विप्रतिपन्नमहोरात्रमव्यवहिताहोरात्रपूर्वकम् अहोरात्रत्वात् अद्यतनाहोरात्रवत् , अन्यथाऽयतनमपि तथा न स्यात् नियामकाभावात् / किञ्च, कर्मणां धर्माधर्माणाम् विषमोऽनेकः फलकालः तेनैकस्मिन् भुक्तफले कर्मणि क्षीयमाणे कर्मान्तरमुपतिष्ठते फलान्तरोत्पादनेनेत्येककर्मिणः कियन्त्यपि कर्माणि युगपन्निरुद्धवृत्तीनि न संभवन्तीति किमुतानन्तानां कमिणामनन्तानि कर्माणि, तदापि कस्यचित्कणो विकावश्यम्भावात् / प्रयोगश्च -विवादाध्यासि प्रकाशः। वर्णस्य, ज्ञानं चानित्यमिति तद्घटितं पदमपि तथेत्यर्थः। अभिमतमुपसंहरति / तस्मादिति // 1 // ननु कूटस्थनित्यतां वेदस्य न ब्रूमः, किन्तु प्रवाहाविच्छेदरूपामित्याह / परतन्त्रेति / तज्जातीयानुपूर्वीज्ञानजन्यत्वव्याप्यज्ञानविषयत्वं परतन्त्रपुरुषपरम्पराधीनत्वम् / तथा च काल. स्वस्य वेदाधिकरणत्वव्याप्यत्वमेव वेदस्य नित्यतेत्यर्थः / प्रलये बाधकमाह / अहोरात्रस्येति / साम्प्रतिकाहोरात्रे तथा दर्शनादित्यर्थः / विपाकः = सहकारिलाभः / वर्णादीति / वर्णा = ब्राह्मणादयः, तेषां व्यवस्था ब्राह्मणादिमातापितृजत्वेन, सर्गादौ तदभावात् सा न स्यादित्यर्थः। प्रा. दिपदागवादिह्यते। समयेति / सर्गादौ प्रयोज्यप्रयोजकवृद्धव्यवहाराभावाच्छब्दसङ्केतग्रहो न स्यादित्यर्थः / सर्वशब्दानामगृहीतसङ्केततयेश्वरेण शब्दतोऽपि व्युत्पादनस्याशक्यत्वादिति भावः / घटादीति / सम्प्रदाया = प्रवाहस्तस्य भङ्गो विच्छेदः / यथा घटादिः क्रियते, तद्रूपस्यादर्शना. दित्यर्थः॥ प्रकाशिका। प्रलयसंभवेऽपि सर्गादित एवारभ्य परतन्त्रपुरुषपरम्पराधीनत्वं स्यान्न चैतावता प्रवाहाविच्छेदसि. द्विरत आह / तज्जातीयेति / ज्ञानविषयत्वमानुपीरूपं, प्रलयसम्भवे च सर्गादावेव व्यभिचारान् , नैतदस्तीति भावः / कालत्वस्येति / कालोपाधित्वस्येत्यर्थः / मकरन्दः। ननु पूर्वविच्छेदेऽपि तदुत्तरं परतन्त्रपुरुषपरम्पराधीनत्वसम्भवान तावन्मात्रेण प्रवाहावि. च्छेदसिद्धिरित्यन्यथा व्याचष्टे तज्जातीयेति / विच्छेदे सर्गाघवेदस्य तजातीयातुपूर्वीज्ञालजन्यस्वाभावादव्याप्त्यसिद्धिरिति भावः / ज्ञानविषयत्वं तद्वत्त्वमित्यर्थः।