________________ द्वितीयस्तव शब्दानित्यत्वापपादनम् / 279 न च नित्या अपि वर्णाः स्वरानुपूर्व्यादिहीनाः पदार्थः सङ्गम्यन्ते, न च तदिशि बोधनी। ___ सन्तु वर्णाः स्वरूपेण नित्यास्तथाप्यनित्यानाभेव संगतिग्रहोऽभ्युपगन्तव्यः स्वराभुपूादिविशिष्टानां तेषां वाचकत्वाद्वयनकवनिधर्मायत्तत्वाच्च स्वरादीनामित्याह-न च इति / कयं तनि. त्यामामेव पदार्थानां पदानां चानन्त्यव्यभिचारादिपरिहारेण संगतिप्रह इत्याशक्य सुहन्द्रावेन प्रकाशः। पाच्यम् / जातेः स्वत एव व्यावृत्तत्वात् / अन्यथाऽन्योन्याश्रयात् / स्वतो व्यावृत्तस्वं च परेषामन्स्यविशेषस्येव स्वाश्रयवत् स्वस्मिन् व्यावृत्तधीजनकत्वम् / व्यक्तिधीस्तु जातिशक्तादेव पदात् , गोपदं हि नियमतो जातिव्यक्ती बोधयति, तत्रास्य जातिशक्तिज्ञानमेव सहकारि कल्प्यते, लाघ. वादावश्यकत्वाच्च, न तु व्यक्तिशक्तिशानं, गौरवात् , जातिशक्तिज्ञाने सति तज्ज्ञानं विना व्यक्ति. शाने विलम्बाभावाच्च, यथा परेषां पदार्थशक्तादेव पदादन्वयधीः / यद्वा, जातिशक्तिज्ञानाज्जाति. ज्ञानं जायमानं व्यक्तिमपि विषयीकरोति / यद्येन विना न भासते, तज्ज्ञानहेतोस्तद्बोधकत्वनियः मात / अन्यथा जातिमपिन वोधयेत / तस्मादेवित्तिवेशत्वनियमाज्जातिज्ञानार्थ क्लप्ता शक्ति व्यक्तिमपि ज्ञापयति / न च जाति विनाऽपि प्रत्यक्षादिनाऽपि व्यक्तिज्ञानादन्यैव व्यक्तिज्ञानसा. मप्री, जातिविशिष्टज्ञानं चोभयज्ञापकसामग्रीसमाजादिति वाच्यम् / जातिव्यक्त्योः प्रत्यक्षादिना बोघे सामग्रीभेदेऽपि शाब्दव्यक्तिबोधे जातिशक्तिज्ञानम्यैव हेतुत्वात् / लाघवात् / तत्सत्वे तत्र विलम्बाभावेन सामग्यन्तरीकल्पनाच्च / न चैवं व्यक्तिज्ञानस्य शक्यत्वात्तद्विषयत्वाज्जातिवद् व्यक्तिरपि शक्या स्यात् / यद्विषयतया ज्ञाने ज्ञाता शक्तिरुपयोगिनी तस्यैव विषयतया शक्य तावच्छेदकस्य शक्यत्वात् / एवञ्च जातिव्यक्तिज्ञानजनकत्वादुभयत्रापि पदशक्तिः। जात्यंशे तु सा ज्ञाता हेतुः / परेणाऽप्यन्वये कुब्जशक्तिस्वीकारात् / __ उच्यते / शक्यज्ञाने विषयतया जातेरवच्छेदकत्वं व्यक्तिमादायैव ज्ञायते, न तु केवलायाः / व्यक्ति विना जातेरज्ञानादिति जातेरवच्छेदकत्वे नागृहीतविशेषणान्यायाद्वयक्तेरवच्छेदकत्वमाव श्यकमिति शक्यशाने विषयतयाऽवच्छेदकत्वाज्जातिवद्वयक्तिरपि शक्या / यद्वा, प्रथमं व्यवहारानुमितव्यक्तिज्ञाने पदानुविधानात् पदं शक्तमित्यवधारयति न तु जातिज्ञाने, व्यवहाराहेतुस्वेन तदा तस्यानुपस्थितेः / पञ्चाद्वयक्तेावृत्यर्थमनुगमार्थश्च जातिरपि तद्विषय इति मानान्तरेण शास्त्रा जातिज्ञानेऽपि तत्पदस्य कारणतां प्रत्येति / तथा च व्यक्तिशक्तिज्ञानमपि कारणम् / न च जातिशक्तिज्ञानेनान्यथासिद्धिः / व्यक्तिज्ञानकारणतामुपजीव्य जातिज्ञानकारणताग्रह इति उपजीव्यविरोधात् / अपि च, पदस्य व्यक्तिज्ञानार्थ शक्यज्ञाने विषयतया व्यक्तरवच्छेदकत्वमात्रं कल्पयति / लाघवात् / जातिविषयत्वाद्वयक्तिविषयस्वस्य ज्ञानवित्तिवेद्यत्वेनावश्यं शीघ्रोपस्थितत्वात् / न तु जातौ शक्तिं तज्ज्ञानं कारणान्तरं वा तदवच्छेदकं कल्पयति गौरवात् / शक्तिप्रहकाले तेषां कल्पनीयोपस्थितिकत्वाच्चेत्यस्मत्पितृचरणाः / इदानीं वर्णनित्यतापक्षेऽपि पदानित्यतया सङ्गतिरविशिष्टेत्याह न चेति / स्वरो= ध्वनिः / तन्मतेऽप्यनित्यः। न हि तावद्वर्णमात्रे शक्तिः, व्युत्क्रमेण ततोऽर्थप्रत्ययाभावादित्यानुपूर्वी विशेषविशिष्टे तत्र शक्तिः, सा चैकवर्णज्ञानानन्तरज्ञानविषयत्वमपर. मकरन्दः। यत्र शक्तिरस्ति, परन्तु शाब्दबोधे तस्याः कारणता नास्ति, तत्रैव कुन्जशक्तिरित्येके / यत्र स्वरूपसत्येव शक्तिः कारणं न तु ज्ञाता, तत्र कुन्जशक्तिरित्यपरे // 1 // टिप्पणी। नित्यत्वेऽपि शब्दत्वसामान्यस्यैव शक्तिः / क्वचिद् शानानन्तुरक्षानविषयत्वमिति पाठः। इदश्च शन्दनित्यतामते, स्वमते एकवर्णान्तरापरवर्णत्वस्यैव तथात्वात् // 1 //