________________ 27- ग्वाल्यानयोपेतप्रकाशवोधनायुते न्यायकुसुमाखलो [ 1 कारिकाव्यारवाया प्रमाणान्तरापातप्रसङ्गाच्च। स्मरणं तदित्ययमदोष इति चेन्न / अननुभूतानन्वयप्र. सङ्गात् / अस्त्वेकैव प्रतीतिरिति चेत् , कृतं तर्हि शक्तिमेदकल्पनया / एवञ्च यथा सामान्यविषया शक्तिरेकैव तद्वति पर्यवस्यति, तथा सामान्याश्रया सङ्गतिस्तद्वति पर्यवस्येदिति / बोधनी। मेव सामान्यविशेषविषयं ज्ञानं जनयतीति भावः / यदि च शब्दव्यापारो जातिज्ञान एवं पर्यवस्यन् न व्यक्तिज्ञावं यावद् गच्छेत् तर्हि व्यक्तिज्ञानजनकं जातिज्ञानं सप्तमं प्रमाणमापयेत,अनुमानार्थापत्योनिरस्तस्वादसंभबाचान्येषामित्यभिप्रायवानाह-प्रमाणान्तर इति। ननु शब्दप्रतीता जातिः साहचयोद्वयक्तिं स्मारयति न तु प्रमापयति, ततो न प्रमाणान्तरापात इत्याह-स्मरणम् इति / न इति / तर्धननुभूतानां गवादिव्यक्तीनां समभिव्याहृतपदार्थान्वयप्रतीतिर्न स्यादिति / तदेवं क्रमेण प्रतीतिनिराकृता,संप्रति यौगपचं निराकर्तु शङ्कते-अस्तु इति / शब्दादेव जातिव्यक्तिगोचरा प्रतीतिरेकव जायते न च प्रमाणान्तरापत्तिर्दोष इति / कृतं तर्हि इति / न हि कार्याभेदे कारणमेदशक्तिकल्पनायां प्रमाणमस्तीति / एवमुपपादितं दृष्टान्तप्रकारं दार्टान्तिके निगमयति-एवं च इति / शक्तिमेदाभावे सति यथा गोत्वादिसामान्यविषया शब्दशक्तिस्तद्वति विशेषे पर्यवस्यति तमपि विषयीकरोतीति यावत् , तथा गोशब्दत्वादिसामान्याश्रया या वाचकत्वशक्तिस्तद्वति गोशब्दे पर्यवस्यति, सैव तस्यापि शक्तिर्भवति, नान्या कल्प्यत इत्यर्थः / प्रकाशः। प्रमाणेति / जातिज्ञानकरणकमपि व्यक्तिज्ञानं स्मरणं नानुभव इति, न तन्मानान्तरमित्याह / स्मरणमिति / एवं गामानयेति वाक्यादननुभूतगोव्यक्त्यननुभवप्रसङ्ग इत्याह / अननुभूतेति / अस्तु तर्हि जातिव्यक्तिविषयकैव धीरुभयशक्तिसाध्येत्याशङ्कते। अस्त्विति। उभयविषयक शक्त्यैवैकज्ञानोपपत्तौ शक्तिद्वयकल्पनं व्यर्थमिति परिहरति / कृमिति / ननु मा भूच्छक्तिमेदकल्पनं, भवतु सङ्गतिरप्येका, तथापि कथं प्रकृतसिद्धिरित्यत आह / एवञ्चेति / यथा परशब्दत्वसामान्यविषया पटपदस्य शक्तिर्व्यक्तौ पर्यवस्यति, न तु तत्र पृथक्शक्तिस्तथा शब्दानि. त्यत्वेऽपि शब्दत्वसामान्यस्यैव शक्तिः पटशन्दै वाचकत्वव्यवहारं करोति, न तु पटशब्दस्य जातिवाचकत्वं पृथगित्यर्थः। प्राभाकरास्तु-व्यक्तौ जातिरनुगमिका विशेषिकाऽवश्यवाच्या चेति नागृहीतविशेषणान्यायेन सैव वाच्या। न च जातावपि व्यक्तिरेव विशेष इति नागृहीतविशेषणान्यायो व्यक्तावपीति प्रकाशिका। भावः, तथापि जातिव्यक्तयोः पदादेकैकप्रतीतिरनुभूयते न तु क्रमेणे'त जातिशक्तावेव व्यक्तेरवच्छेदकत्वमिति तात्पर्यात् / अननुभूतेति / तन्मते सामान्यलक्षणाया अस्वीकारादिति भावः // 5 // मकरन्दः। यष्टीः प्रवेशयेतिवलक्षणा सम्भवत्येव,तथापि गोपदाद्वयक्तिमादायैव जातिस्मृतेरनुभूयमानत्वाद्विशिष्टे शक्तिरेव न लक्षणेति भावः / तदिदमाह तस्मादिति / अननुभूतेति / तन्मते इति शेषः / अपरं शब्दप्रकाशे व्याख्यातम् / ___वैशेषिकमते ब्यावृत्तिबुद्धिसिद्धो विशेषनामा कश्चन पदार्थोऽस्ति / स च द्विविधः सामान्य विशेषः, अन्त्यविशेषश्च / सामान्यविशेषो द्रव्यत्वादिः, स खल्वनुवृत्तिबुद्धिहेतुः सन्नेव व्यावृक्ति बुद्धरपि हेतुर्भबति / अन्त्यविशेषस्तु नित्यद्रव्यमात्रवृत्तिरेकमात्रगतश्च, स तु स्वत एव व्यावृत्तइति सिद्धान्तः। टिप्पणी। व्यक्तौ पर्यवस्यति / व्यक्तिमपि बोधयतीत्यर्थः / तथा पटशब्दस्वसामान्यांभयेति / शन्दा.