SearchBrowseAboutContactDonate
Page Preview
Page 294
Loading...
Download File
Download File
Page Text
________________ द्वितीयस्तबके } शन्दानित्यत्वोपपादनम् / .. स्यादेतत् / प्रतिवन्ध विनाऽपि पक्षधर्मताबलाद् यथा लिङ्गं विशेषे पर्यवस्थति, स्था सङ्गति विनाऽपि शब्दः शक्तिविशेषाद्विशेषे पर्यवस्यति, स एवाऽऽक्षेप इत्युच्यते इति चेद्, न तावत् प्रतीतिः क्रमेण। अपेक्षणोयाभावेन विरम्य व्यापारायोगात्। जातिप्रत्यायनमपेक्षते इति चेत् , कृतं तर्हि शब्दशक्तिकल्पनया / नाक्तैव तसिद्धः / श्रोमिति चेन्न / व्यक्तयनालम्बनाया जातिप्रतीतेरसम्भवादित्युक्तत्वात् / बोधनी। स्कारेण जातिप्रतीतरुक्तत्वात् / पश्चिमे तु व्याख्याने शब्दात्प्रतीतासु व्यक्तिषु जातेस्तदन्वयप्रतीति स्तदन्वयप्रतीत्या च व्यक्ति प्रतीतिरितीतरेतराश्रयत्वं व्याख्येयमिति / ___ तर्हि विशेष पर्यवसानमेवाक्षेप इत्याह-स्यादेतत् इति / यथा हि लिङ्गं साध्यसामान्येनैव गृहीतव्याप्तिकमपि पक्षधर्मतासहायं साध्यविशेषे पर्यवस्यति, तथा शन्दो जात्या गृहीतसंगतिरपि शक्तिविशेषाद्वयक्तौ पर्यवसास्यतीति / न तावत् इति / किमयं शब्दो जातिव्यक्तयो प्रतीति क्रमेण जनयेयुगपद्वा ? न तावत् क्रमेण, शक्तिविशेषादेव प्रतीति जनयतःशब्दस्यापेक्षणीयान्तराभा. वेन विरम्य ज्ञानोत्पादनव्यापारायोगादिति / ननु जातौ गृहीतसंगतिः शब्दः तद्विषयं ज्ञानं जनयि. स्वा तदपेक्ष एव व्यक्तिं प्रत्याययतीत्याह-जातिप्रत्यायनम् इति / यदि व्यक्तिज्ञानोत्पादने जाति ज्ञानापेक्षा तर्हि किं तत्रापि शब्दव्यक्तिकल्पनयेत्याह-कृतं तर्हि इति। कुत इत्यत आह-ताक्वेच इति / जातिज्ञानेन व्यक्तिज्ञानसिद्धेरिति / ननु जातिज्ञानेनैव तसिद्धिमनुज्ञायत एवेश्याह-श्रोम इति। न इति। उक्तत्वात् / न च व्यक्तया विना जातिस्फुरणमित्यत्र लिङ्गमपि पक्षधर्मतासहकृतमेक प्रकाशः। वस्तुतः स्वार्थादन्येन रूपेण ज्ञाते लक्षणा, तीरत्वेन ज्ञाते गङ्गापदस्येव / न च गोत्वादन्येन रूपेण व्यक्तरुपस्थितिः, किन्तु गोत्वेनैव / न च व्यक्तित्वेन तदुपस्थितिः। गोपदाद् व्यक्तित्वप्रकारका बुद्धथापत्तेः। गां पश्य, गौस्तिष्ठतीत्यादौ जातेरप्यन्वययोग्यत्वे व्यक्तेरलाभप्रसाश्च / तस्मादेकवित्तिवेद्यस्वान्न व्यक्तेराक्षेपः किन्तु विशिष्ट शक्तिरेवेति भावः। ननु जातिशक्ततया ज्ञातं पदं प्रथमं जाति बोधयति, अनन्तरं स्वरूपसद्वयक्तिशक्तथा व्यक्तिम्, एवञ्च जातौ शाता शक्तिबोंधिका, व्यक्तौ तु स्वरूपसती, यथा लिङ्गं वह्निसामान्यज्याप्ततया ज्ञात तद्विशेषव्याप्ततयाऽनवगतमपि वस्तुगत्या व्यापकं गमयतीत्याशयवानाह स्यादेतदिति / प्रतिबन्धं विना = प्रतिबन्धग्रहं विना / शक्तिविशेषात् = स्वरूपसद्यक्ति. शतः। एवं पदाद् युगपदेव जातिव्यक्तिज्ञानं स्यादुभयज्ञानसामग्या बृत्तत्वादित्याह / न ताव. दिति / व्यक्तिशाने कर्तव्ये जातिशक्ततया ज्ञातं पदं जातिज्ञानमपेक्षते इति क्रम इत्याह / जातीति / यदि जातिज्ञानं व्यक्तिज्ञानहेतुस्तदा किं व्यक्तिशक्त्या ? / जातिज्ञानादेव व्यक्तिशक्ति विनाऽपि तज्झनोपपत्तेरित्याह / कृतमिति / नास्त्येव व्यक्तौ शक्तिः, जातिज्ञानमेव व्यक्तिज्ञानहेतुरस्त्वित्योह / श्रोमिति / स्यादेवं, यदि व्यक्तयविषयं जातिज्ञानं स्यान त्वेवमित्याह / व्यक्तीति / किश्चैवं व्यक्तिज्ञाने पदानामकरणत्वे जातिज्ञानं मानान्तर स्यादित्याह / प्रकाशिका। न्वयापत्तश्चेत्यपि द्रष्टव्यम् / मन्मते केवलजातेरपि प्रतीतिस्वीकारानान्योन्याश्रय इत्यरुचेराह / वस्तुत इति / ननु नीलोऽत्र घट इत्यत्र नीलरूपप्रकारकलक्षणावद् गोत्वप्रकारकलक्षणा प्रकृते स्यादित्यरुचेराह / गां पश्येति / यद्यपि तात्पर्यानुपपत्या यष्टीः प्रवेशयेतिवलू लक्षणांयां बाधका मकरन्दः। ननु परेण व्यक्तिज्ञानं विनाऽपि जातिज्ञानाभ्युपगमानान्योन्याश्रय इत्यरुचेराह क्स्तुत इति / नन्विदमप्रयोजकम् , अत एव नीलो घट इत्यादौ तथैव लक्षणेत्यस्वरसादाह गां पश्येति / यद्यपि टिप्पणी। मत्वानभ्युपगमे नान्योन्याश्रय इत्यत पाह-वस्तुत पति।
SR No.004382
Book TitleNyayakusumanjali
Original Sutra AuthorN/A
AuthorPadmaprasad Upadhyay, Dhundiraj Shastri
PublisherChaukhamba Sanskrit Series Office
Publication Year1957
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy