________________ 276 व्याख्यानयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [1 कारिकाव्याख्यायो तस्यानुपपन्नेति चेन्न / एवं तहकिज्ञानगोचरतायां किमनुपपन्नं किं प्रतिपादयेदिति / जातीनामन्वयानुपपत्त्या व्यक्तिरवसीयते इति चेन्न, परस्पराश्रयप्रसङ्गात् / बोधनी। दात्मनो व्यक्तिविषयतामाक्षिपतो व्यक्तिज्ञानसिद्धिरिति / न इति / एवं हि जातिव्यक्तयोरेकज्ञानविषयत्वमेवोक्तं स्यात् , तत्रोभयोरपि ज्ञातत्वाविशेषात् किमनुपपन्नं प्रति गदकं भवेत् किंवा प्रतिपाद्यं भवेत् / अत्रानुपपन्नमात्रनिराकरणप्रकरणे किं प्रतिपादयेदिति प्रक्रियाया असंगतत्वात् प्रमादकृतः पाठ इति संप्रदाय इति / जातोनाम इति / गोत्वशुक्लत्वादीनां परस्परमन्वयानुपपत्त्या सदन्वयसिद्धयर्थ व्यक्तिः प्रतीयत इति / यद्वा, जातीनामनेकव्यक्तयन्वयः प्रतीयमानो नान्तरेण व्यक्तिमुपपद्यत इति व्यक्तिरवसीयत इति / न इति / प्रतीते ह्यन्वये तदन्वयानुपपत्या ब्यक्तिः प्रतीयते, प्रतीतायां च व्यक्तौ तदन्वयप्रतीतिरितीतरेतराश्रयत्वम् / किंच, जातिप्रतीतो सत्यां तदन्वयानुपपत्त्या व्यक्तिप्रतीतिर, व्यक्तिप्रतीतौ च सत्यां जातिरित्यात्माश्रयत्वं, व्यक्तिप्रतीतिपुर प्रकाशः। गोभिन्नभावत्वेन गां विनाऽपि त्वया गोत्वज्ञानाभ्युपगमादित्यर्थः / एवं तहीति / व्यक्तिं विनापि आतेरज्ञानात् केवला जातिनोंपस्थितेति जातित्वविशिष्ट एव पदानां शक्तिः। विशिष्टानामानन्त्येऽ. प्येकत्र विशिष्टे तत्वं विहाय गोत्वमादाय गोत्वविशिष्टं शक्यमिति शक्तिमहात् सर्वत्रोदासीनस्य गोः शक्यत्वायत्किञ्चिदेकोपादानेऽपि गोरुपादानानोपादानाशक्यत्वमेकोपादानेऽनध्यवसायो वा, व्यक्तिवाचकपश्वादिपदवदुपपत्तेः। वस्तुतो नानुमानार्थापत्तिभ्यां व्यक्तिलाभः / न हि यत्र यदा वा गोत्वं तत्र सदा वा, यद् गोत्वं सा व्यक्तिरिति वा व्याप्तिर्व्यभिचारात् / नापि जातित्वं व्यक्त्याश्रितत्वे लिङ्गम् / जातित्वस्य पदादनुपस्थितेः / तथात्वे वा, जातिरिति वेथैव व्यक्तिः, नित्यानेकसमवेतत्वस्य जातित्वात् / व्यक्तेश्चापदार्थत्वे विभक्त्यर्थसंख्याकर्मत्वादेर्व्यक्तावनन्वयः स्यात् / सुब्विभक्तीनां प्रकृत्यर्थान्वितस्वाथबोधकत्वस्य व्युत्पत्तिसिद्धत्वात् / न च प्रकृतितात्पर्यविषये तदन्वयव्युत्पत्तिः। लक्षणोच्छेदापत्तेः / एवं तर्हि गामानयेत्यादौ जातेरानयनायन्वयानुपपत्या जातिशक्तपदेन व्यक्तिर्लक्ष्यते, अत एव व्यक्तेः प्रकृतिप्रतिपायत्वे विभक्त्यर्थाऽन्वयस्तत्र सङ्गच्छत इत्याह / जातीनामिति / जातिज्ञाने सति लक्षणया. व्यक्तिज्ञान, व्यक्तिमादाय जातिज्ञानमित्यन्योन्याश्रय इत्याह / परस्परेति / प्रकाशिका। . विशेषः, तथापि समवेतत्वमात्रमेब हेतुः कर्त्तव्यमिति भावः। गामिति / गोज्ञानं विनापीत्यर्थः। जातित्वस्येति / प्रकारान्तरेण च तदुपस्थितिः कादाचित्की व्यक्तिधीश्च सर्वदैव पदादिति तमि हिाय व्यक्तौ पदशक्तिस्वीकार इति भावः / व्युत्पत्तिसिदत्वादिति / पश्वादिपदे तथा कल्पनादिति भावः / लक्षणेति / वह्नितात्पर्यके धूमोऽस्तीति वाक्ये धूमपदोत्तरविभक्त्यर्थस्य वहाव मकरन्दः। मोभिन्नेति / यद्यपि तेनैकवित्तिवेयत्वमपाकृतं तच्चानुपदमेव शङ्कितं, तथापि व्यक्तानान्तरमपि तदा नास्तीत्यस्यापि तन्निरम्यत्वमुक्तम् / वस्तुतो व्यक्तिज्ञानकारणत्वशङ्केयं, तत्र च तुख्यप्रहसामप्रीकस्वात् तदभावेऽप्युत्पादादित्यर्थो युक्तः / गामिति / गोज्ञानं विनाऽपीत्यर्थः / जातित्वस्येति / न च प्रकारान्तरात्तदुपस्थितिः, तस्यासार्वत्रिकत्वात् , ब्यक्तिबुद्धेश्च सार्वत्रिकतया शक्तिरेवेति भावः / टिप्पणी। गोत्वज्ञानाभ्युपगमादिति / गोभिन्नभावत्वेन लिङ्गेन गोत्वमात्रज्ञानस्य साधितत्वात् तथा व व्यक्तिज्ञानकारणत्वस्य समानकालत्वस्य च निरासः। व्यक्ति विनापोति “एवं तीत्यादे"रियं व्याख्या।नियमेन जातिव्यक्त्योरेकज्ञानविषयत्वे सतीत्येवं ह्येकज्ञानगोचरतायामित्येतस्यार्थोऽत्रादिः। / सुबविभक्तीनाम्ग्रकृत्यर्थत्यादिव्यवस्थितौ। जातिव्यत्योनियमेन कमाने भासमा.