________________ द्वितीयस्तवके शब्दानित्यत्वोपपादनम् / 205 सङ्गतेरपि तथैव सुग्रहत्वात् / व्यक्तिमात्ररूपेणाऽविनाभाव इति चेन्न / व्यक्तित्वस्य सामान्यस्याभावात् / भावे वा, तदाक्षेपेऽपि विशेषानाक्षेपात्। वाच्यत्वमपि वा तथैवास्तु, किमाक्षेपेण ? सङ्गतेरविरोधादिति। अर्थापत्तिराक्षेप इति चेन्न / व्यत्या विना किमनुपपन्नम् / जातिरिति चेन्न। तन्नाशानुत्पाददशायामपि सत्त्वात् / तथापि न व्यक्तिमात्रं विनेति चेन्न / मात्रार्थाभावात् / व्यक्तिशानमन्तरेण जातिशानमनुपपन्नमिति चेन्न / तदभावेऽप्युत्पादात् / व्यक्तिविषयत्वं विना जातिविषयता बोधनी। इति / आनन्त्यदोषो हि संगतिग्रह इवाविनाभावग्रहेऽपि सुलभ इति / ननु सर्वव्यक्तयनुगतेन व्यक्तिमात्ररूपेणाविनाभावः शक्यग्रह इत्याह-व्यक्तिमात्ररूपेण-इति / न-इति / न ताव. जाति व्यक्ति चान्तरा व्यक्तित्वं नाम सामान्यमस्ति, भावेऽपि तदेव जातेराक्षिप्येत न व्यक्तय इति / यदि च व्यक्तित्वसामान्यमभ्यपगम्येत ततः शब्दवाच्यमेव तदस्त, तस्यैकत्वेन संगतिप्रहस्य सुकरत्वात् / किमाक्षेपतः सिद्धयेदित्याह-वाच्यत्वमपि-इति / अपिरवधारणार्थः। ननु मा भूदाक्षेपोऽनुमानम् , अर्यापत्तिर्भविष्यतीत्याह-अर्थापत्तिः इति / तस्या हि नाविनाभावप्रहापेक्षेति भावः। व्यत्त्या विना इति / न किञ्चित् इति शेषः। जातिः। तदाश्रया हि सेति / न इति / व्यक्तीनां विनाशदशायामपि जातेरवस्थानान्न व्यक्त्या विना जातिरनुपपन्नेति / तथापि इति / यद्यपि काश्विद्वयक्तीरन्तरेणाप्यवतिष्ठत इति / न इति / उक्तं हि न व्यक्तिजातिब्यतिरिक्तमन्यत्किश्चिदस्तीति : व्यक्तिज्ञानम् इति / ततो जातिज्ञानाद् व्यक्तिज्ञानाक्षेप इति / न इरि / शब्दांत्केवलजातिज्ञानस्य भवद्भिरभ्युपगमादिति / व्यक्तिविषयताम् इति / तेन जातिज्ञाना. प्रकाशः। क्तिलाभः स्यादित्याह / व्यक्तिमात्रेति / व्यक्तयाश्रितत्वव्याप्तिरपि न व्यक्तित्वमनुगतं विना ग्राह्येति / न च तज्जातिः / जातेरपि व्यक्तित्वादित्याह / व्यक्तित्वेति / उपाधित्वे तस्य दोष. माह / भावे वेति / व्यक्तिमात्रलामेऽपि व्यक्तिविशेषानाक्षेपातत्प्रतीत्यनुपपत्तिरित्यर्थः / ____ ननु पक्षधर्मताबलाद् व्यक्तिविशेषः सिद्ध्येदित्यभिप्रेत्याह / वाच्यत्वमपीति / यदिव्यक्तिस्वेनोपस्थिते व्याप्तिस्तदा गोत्वेनोपस्थिते शक्तिग्रहोऽपि स्यादित्यर्थः / वस्तुतः पक्षधर्मताबलाद्विशेषस्य भानेऽपि विशेषत्वेनोपस्थितिर्न स्यादनुमितेर्व्यापकतावच्छेदकप्रकारकत्वनियमा, दिति भावः / व्यक्तिं विना जातिरनुपपना तामाक्षिपतीत्याह / अर्थापत्तिरिति / तन्नाशेति / व्यक्ति विनाऽपि गोत्वस्योक्तरीत्या प्रतीतेर्नानुपपत्तिरित्यर्थः / यद्यप्येकव्यक्तिनाशानुत्पाददशायामपि मातिरस्ति, तथापि व्यक्तयन्तरमस्त्येवेति न व्यक्तिमात्रं विना जातिरस्तीत्याह / तथापीति / मात्रार्थो हि नाऽशेषव्यक्तिः, एकव्यक्तिनाशेऽपि गोत्वादेर्शानात् / नापि व्यक्तित्व. तद्धि न जाति. रुक्तदोषात् / उपाधित्वे तु व्यक्तित्वेन उपस्थितसर्वव्यक्तयन्यथानुपपत्तिग्रहवच्छक्तिप्रहोऽपि स्यादित्याह / मात्रार्थेति / तदभावेऽपोति / मकरन्दः। चिन्त्यम् / जातेरपोति। गोत्वत्वायुपाधिव्यक्तीभूतगोत्ववृत्तिव्यक्तित्वस्य जातित्वे जातावपि जातिवृत्तित्वाभ्युपगमेऽपसिद्धान्त इति भावः / विशेषत्वेनेति / गोत्वादिनेत्यर्थः। उक्तरीत्येति / गोत्वं गवाविषयज्ञानविषय इत्यादि त्वदुक्तरीत्येत्यर्थः। इत्यर्थः इति तात्पर्यार्थः / अक्षरार्थानुसारेणाह यद्यपीति / ज्ञानादिति / सत्त्वाच्चेत्यपि बोव्यम् / टिप्पणी। विशेषत्वेनेति / गोत्वादिनेत्यर्थः। गोत्वादेर्शानादिति / सत्वाश्चेत्यपि बोयम् /