________________ 274 व्याख्यानयोपेतप्रकाशर्षोधनीयुते न्यायकुसुमाजली [ 1 कारिकाण्याख्यायो जातिरेव पदार्थो, न व्यक्तिरिति चेन्न। शब्दात्तदलाभप्रसङ्गात् / आक्षेपत इति चेत.का खल्वयमाक्षेपो नाम? न तावदनुमानम्। अनन्ता. भिः सह सङ्गतिवदविनाभावस्यापि ग्रहीतुमशक्यत्वात् / शक्यत्वे वा, बोधनी। तहि शब्दाद् व्यक्तिप्रतीतिर्न स्यादित्यांह-न इति / ननु शब्दप्रतिपन्नाया जातेराक्षेपाद् व्यक्ति लप्स्यत इत्याह-आक्षेपतः इति / कः खलु-इति / न कश्चिदिति भावः / अत एवाह-न तावत् प्रकाशः। जाति विना रूपान्तरमस्ति / गोत्वविशिष्ट कार्यान्वयन गोत्वस्य विशेषणत्वाच / न च व्यक्तिः शक्या गोत्वमवच्छेदकं कारणत्वे दण्डत्ववत् / गोपदाद् गोत्वविशिष्टबुद्धेरनुत्पादापत्तेः / प्रत एव न जातिविशिष्टे शक्तिः / विशेष्यभेदाद्विशिष्टानन्त्यात् / तस्माज्जातिरेव पदानां शक्या, न व्यक्तिरिति नोक्तदोष इत्यभिप्रेत्याह / जातिरेवेति / तर्हि जातिशक्तात् पदाद् व्यक्त्युपस्थितिर्न स्यादिस्याह / शब्दादिति / न पदात् तदुपस्थितिः, किन्त्वाक्षेपत इत्याह / भाक्षेपत इति / ननु जातिव्यक्त्योरेकवित्तिवेद्यत्वानाक्षेपः / समानानां भावः सामान्यं, समानां व्यक्ति विना न भासते इति चेन। स्वरूपेणैव जातेः शक्यत्वात् / सामान्यत्वन्तु तद्धर्मो, न तु तत्स्वरूपम् / प्रत्यक्षादौ न जातिज्ञानस्य व्यक्तिविषयतानियमो व्यक्तिज्ञानसामग्रीसमाजाधीनः / गोत्वं गवावि. षयकज्ञानविषयो जातित्वाद् गोभिन्नभावत्वाद्वेति जातिमाअधीसिद्धेश्व / अथ ययत्परतन्त्रं तत्तेनैकवित्तिवेद्यं, यथाऽर्थपरतन्त्रज्ञानमर्थेन, जातिश्च व्यक्तिपरतन्त्रेति व्यक्तौ भासमानायामेव भासते इति चेन्न / परतन्त्रत्वं हि न परसमवेतत्वं, शब्दादिना व्यभिचारात् / नापि तनिरूपणाधीननिरूपणत्वम् / असिद्धेः / नापि परस्मिन् भासमान एव भासमानत्वम् / साध्याविशेषात् / तस्माद्गोत्वं व्यक्त्याश्रितं जातित्वादित्यनुमानाद् गोत्वाश्रयव्यक्तिज्ञानमिति भावः / व्याप्तिरपि शक्तिरित व्यक्तीनामानन्त्यान्न ग्राह्या इत्याह अनन्ताभिरिति / अथैकरूपावच्छेदेन व्याप्तिप्रहस्तदा शक्तिप्रहो. ऽपि तथैवास्त्वित्याह / शक्यत्वे वेति / गोत्वस्य व्यक्तयाश्रितत्वव्याप्तः पक्षधर्मताबलाद् गोव्य . प्रकाशिका। तत्तत्साधनाधिकरणे गन्धस्तत्तत्साधने दृष्टान्तः / गोत्वमिति / न च नित्यत्वसामान्यलक्षणा. जन्यज्ञानमादायार्थान्तरमिति वाच्यम् / सामान्यप्रत्यासत्तौ बाधकावतारकाल एतदनुमानात् , तया च बाधेनोक्तार्थान्तरानवकाशात् / केचित्तु केवलजातिज्ञानसिद्धयर्थमेवायं प्रयोग इत्युक्तकमेणापि तसिद्धौ समीहितसिद्धिरिति नार्थान्तरं दोष इत्याहुः / जातित्वादिति / धर्मत्वादित्युच्यमाने गवि व्यभिचार इति जातित्बादित्युक्तम् ' तदर्यश्व सामान्यलक्षणाभ्युपगमे नित्यत्वमात्रम् अन्यथा वैयर्ध्यात्। न च तथा सति गवान्योन्याभावे व्यभिचारः। उक्तक्रमेण तत्रापि साध्यसत्त्वात्। गोभिन्नेति / गवि व्यभिचार इति गोभिन्नेति / सामान्यलक्षणानभ्युपगमपक्षे गवान्योन्याभावे व्यभिचार इति भावपदम् / तस्मादिति / यद्यप्यत्र जातित्वं व्यक्तिसमवेतत्वघटितमिति साध्या मकरन्दः। गोस्वमिति / न च नित्यत्वादिसामान्यप्रत्यासत्या तादृशप्रतीतिसम्भवात्तमांदायार्थान्तरं एकवित्तिवेयत्वनियमनिषेधार्थ सामान्यत एव तादृशधीसिद्धेरुद्देश्यत्वात् / अत एव वक्ष्यति, जातिमात्रधीसिद्धेश्चेति / नन्वेवं जातिपदार्थविवेचने नित्यत्वादित्येव हेतुरस्तु, न चैवं गवा. न्योन्याभावादी व्यभिचारः, नित्यत्वप्रकारकोक्तप्रतीतिमादाय तत्रापि साध्यसत्त्वात् , गोघटितो. पाश्चानित्यगोघटितत्वेनानित्यत्वादित्यस्वरसादाह गोभिन्नेति / एतच्च गवि व्यभिचारवारणाय / गोघटितोपाधौ व्यभिचारवारणाय भावपदमखण्डपरम् / न त्वभावे व्यभिचारवारणाय तत् , उक्तरीत्या तत्र साध्यसत्त्वात् / अन्यथा गोसाश्यादौ व्यभिचारतादवस्थ्यापत्तरिति / अस्तु वा इतरनिरूपणानधीननिरूपणपरं भावपदम् / तस्मादिति। अत्र जातिपदार्थ विवेचने व्यर्थविशेषणत्वं