________________ द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् / 273 स्यादेतत् / यद्येवमस्थिरः शब्दः कथमर्थेम सङ्गतिरस्योपलभ्यते इति चैत्। यथैवार्थस्यास्थिरस्य तेन / बोधनी। शब्दनित्यत्ववादी प्रकारान्तरेण प्रत्यवतिष्ठते-स्यादेतत्-इति / प्रत्युच्चारणं भिन्नानां शब्दामामानन्त्यव्यभिचाराभ्यां दुर्ग्रहः संबन्ध इति / यथा-इति / यथा ह्यस्थिरस्यैवार्थस्य शब्देन संवन्धग्रहणं तथा शब्दस्याप्यस्थिरस्यानेति / येन हेतुनाऽस्थिरस्य व्यक्तिरूपस्यार्थस्य संगतिर्दुप्रहेति तेनैवास्माकं जातिरेव पदार्थ इति सिद्धान्त इत्याह-तेन-इति / यदि जातिरेव पदार्थः प्रकाशः। नाशः स्यात् , न चैवमित्यर्थः / एवं, शब्दोऽनित्यः, व्यापकप्रत्यक्षविशेषगुणत्वात्, सुखवत् / बहिरिन्द्रियव्यवस्थाहेतुगुणत्वाद् , भूतप्रत्यक्षविशेषगुणत्वाद्, इन्द्रियविशेषगुणत्वाद् , अस्म. दादिप्रत्यक्षविशेषगुणत्वाद् , गन्धवदित्यायूहनीयम् / हेत्वाभासानां निरासादिति / ___ ननु वर्णानित्यत्वे गृहीतसङ्गतिकपदनाशे कालान्तरे पदादगृहीतसङ्गतिकादर्थप्रतीतिर्न स्यादि. त्यर्थप्रतीत्यन्यथानुपपत्या शब्दनित्यत्वं स्यादित्याह-- यद्येवमिति / तथा सति गृहीतसङ्गतिघटनाशे तदन्यघटव्यक्तेः पदात् प्रतीतिर्न स्यात् / अथानित्येऽपि घटादावेकधर्मोपग्रहेण शक्तिग्रहस्त नित्ये पदेऽपि स तथैवास्त्वित्याह यथैवेति / तेन -शब्देनेत्यर्थः। .. - ननु यद्यपि आनयादिव्यवहाराद् , व्यक्तावेव शक्तिरुचिता, तथाप्यानन्त्यव्यभिचाराभ्वां शक्तिप्रहस्ता न सम्भवति / सर्वव्यक्तेः शक्यत्वे, गां दद्यादित्यादौ सर्वोपादानासामर्थ्यांदननुष्ठानापत्तिरेकशक्यत्वेऽनध्यवसायः / नापि गोत्वेनोपलक्षिता व्यक्तिः शक्येति न शक्यानन्त्यव्यभि. चारौ / रूपान्तरेण ज्ञातस्यैवान्येन रूपेण लक्ष्यत्वात् , काकेन गृहविशेषस्येव / न च व्यक्तीनां. प्रकाशिका। व्यापकेति / श्राशुविनाशित्वमत्र साध्यमिति घटादिरूपे व्यभिचारवारणाय व्यापकेति विशेषणम्। ईश्वरज्ञानादौ व्यभिचार इति प्रत्यक्षेति / आत्मैकत्वे व्यभिचार इति विशे. वेति / बहिरिति / बहिरिन्द्रियान्तराग्राह्यबहिरिन्द्रियग्राह्यगुणत्वादित्यर्थः। प्रथमबहि पदम प्रसिद्धिवारणाय / द्वितीयबहिःपदमात्मैकत्वे व्यभिचारवारणाय। गुणपदं रूपत्वे व्यभिचारवारणाय जातिभिनार्थकं तेन समवाये व्यभिचारवारणाय ग्राह्यान्तम् / भूतेति। आत्मैकत्वे व्यमिचार इति भूतेति / जलपरमाणुरूपे व्यभिचार इति प्रत्यक्षेति / द्रव्यरवे व्यभिचार इति गुणेति / ईश्वरज्ञाने व्यभिचार इतीन्द्रियेति।श्रोत्रैकन्वेव्यभिचार इति विशेषेति। अस्मदादीति। योगिप्रत्यचे परमाणुगुणे व्यभिचार इति प्रथमविषणं तस्य लौकिकेत्यर्थः। गन्धवदिति / मकरन्दः / व्यापकेति / श्राशुविनाशित्वं यदि साध्यं तदाऽयं हेतुर्बोध्यः। एवञ्च घटरूपादौ व्यभिचारवा. रणाय व्यापकेति। ईश्वरज्ञानादौ व्यभिचारादाह प्रत्यक्षेति / आत्मैकत्वस्य प्रत्यक्षत्वे तत्र व्यभिचारादाह विशेषेति / हेत्वन्तरं शब्दप्रकाशे व्याख्यातम् / टिप्पणी। एवं शब्दोऽनित्यो व्यापकप्रत्यक्षविशेषगुणत्वादिति पाशुविनाशित्वं यदि साध्यं तदा . घटरूपादौ व्यभिचारवारणाय व्यापकैति देयं नान्यथा, आत्मैकत्वस्य प्रत्यक्षत्वे प्रत्यक्षघटितहेतौ तत्र व्यभिचारवारणाय सर्वत्र विशेषपदसार्थक्यं द्रष्टव्यम् / भूतप्रत्यक्षविशेषगुणत्वादिति / आत्मैकत्वे व्यभिचारवारणाय भूतेति / अस्मदादिप्रत्यक्षविशेषेति। अत्र सामान्यतोऽनित्यत्वं साध्यमतो न घटरूपे व्यभिचारः / 35 न्या० कु०