________________ 272 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलौ [ 1 कारिकाम्याख्यायो सनिधिविरुद्धेभ्यो नित्येभ्यः स्वव्यापकनिवृत्तौ निवर्तमानं, विनाशकसन्निधिमति विनाशिमि विश्राम्यतीति / विनाशकारणसन्निधानेनावश्यं जायमानस्य भवितव्य. मिति कुतो निर्णीतमिति चेन्न / तदसन्निधानं हि न तावदाकाशादेरिव, स्वभावविरोधात् / उत्पत्तिविनाशयोः संसर्गदर्शनात् / अविरुद्धयारसन्निधिस्तु देशविप्रकर्षाद् हिमवद्विन्ध्ययोरिव स्यात् / देशयोरपि विप्रकर्षों विरोधाद्वा हेत्वभावाद्वा ? पूर्वोक्तादेव न प्रथमः। द्वितीयस्तु पटकुखमयोरिव स्यात् / यदि हि कुकुमसमागमादगिव प्रध्वंसकसंसर्गादागेव पटो विनश्येत् / यथा हि विनाशकारणं विना न विनाशः, तथा यदि कुङ्कुमसमागमं विना न विनाशः पटस्येति स्यात् करतयाः संसर्ग वारयेत् / तस्यादविरुद्धयोरसंसर्गः कालविप्रकर्षनियमेन व्याप्तः, स चातो निवर्तमानः स्वव्याप्यमुपादाय निवर्त्तत इति प्रतिबन्धसिद्धिः। बोधनी। सिध्यतीत्याह-विनाशकारणसंनिधानेन इति / विनाशकारणासन्निधानं ह्युत्पत्तिमतो न तावद्भावाभावयोरिव स्वधावविरोधाद्भवति घटादिषु तयोः संसर्गदर्शनादित्याह-तदसंनिधानम् इति / तविरुद्धयोरेव हिमवद्विन्ध्ययोरिवासंसर्गोऽस्त्वित्यत्राह-अविरुद्धयोः इति / अस्तु तर्हि देशविप्रकर्षादेवेत्यत्राह-देशयोरपि इति / सोऽपि देशयोः स्वभावविरोधात् संसर्ग हेत्वाभावाद्वा भवतीति ततः किमित्यत आह-पूर्वोक्तात् इति / यदि हि तद्देशयोः स्वभावविरोध: स्यात् तत'स्तदाश्रययोरुत्पत्तिविनाशयोरपि संसर्गों न स्याद् , दृश्यते चासावित्युक्तमेवेति / द्वितीयस्स्तु इति / विनाशकारणजायमानत्वयोहे त्वभावादसंसर्गस्तु यथा पटकुङ्कुमयोरविरुद्धदेशस्वभावतया क्वचित्संसृष्टयोरपि संसर्ग हेत्वभावात् कचिदसंसर्गः तथा कदाचिरस्यादिति / कथं च तथा स्यादित्याह-यदि हि इति / यथा हि कुङ्कुमसंसर्गात्प्रागेव क्वचित्पटविनाशाद्धत्वभावेन तयोरसंसर्गः, तथा यदि विनाशकारणसमागमात् प्रागेव जायमानस्य विनाशः कदाचित्स्यात् तदा जायमानविनाशकारणयोरसंसर्गः स्यात् , न त्वेतत्संभवतीति / यदि वा यथा विनाशकारणसमागमें सत्येव विनाशः पटस्य नासतीति दृश्यते, तथा यदि कुङ्कुमसमागमे विनाशो नासतीति स्यात् तदा पटकुखमयोरपि संसर्गोऽवश्यंभावो भवेत् , न त्वेतदस्तीत्याशयवानाह-यथा इति / यत एवं देशविप्रकर्षों नास्ति तस्मादविरुद्धस्वभावयोरसंसर्गः कालविप्रकर्षेणेत्यवशिष्यते, स च कालविप्रकर्ष अत उत्पत्तिमद्वि नाशकारणाभ्यां व्यावतमानः स्वव्याप्यं तयोरसंसर्गमप्युपादायैव निवर्तत इति उत्पत्तिमत्त्वस्य विनाशकारणसंसर्गेण सिद्धः प्रतिबन्धः इत्याह-तस्मात् इति / प्रकाशः। . स्वव्यापकेति / उत्पत्तिमत्त्वव्यापकं विनाशकारणं, तस्य निवृत्तावित्यर्थः / पूर्वोक्तादे. वेति / उत्पत्तिविनाशयोः संसर्गदर्शनादेवेत्यर्थः। द्वितीयस्त्विति / पटकुखमयोः संसर्गस्ता. वदविरुद्धोऽपि कस्यचित्पटस्यान्तरा ध्वंसान भवति / तद् यदि विनाशकसंसर्ग विनैव नाशः स्यात्तदा नाशकाऽसन्निधिः स्यात्, न त्वेवमित्यर्थः / तस्मादिति / यद्यपि अत्रापि व्याप्तावप्रयोजकत्वशका तदवस्यैव, तथापि भावानां नाशं प्रति स्वरूपयोग्यत्वमुत्पत्तिमत्वेनैवावच्छिद्यत इति न शङ्केति भावः। स चेति / स कालविप्रकर्षस्तदा स्याद्यदि नाशकसम्बन्धमनपेक्ष्यैव कार्यस्य प्रकाशिका। मात्रव्यापकत्वमिति द्रष्टव्यम्। उत्पत्तिमत्त्वेति।भावत्वसमानाधिकरणोत्पत्तिमत्वव्यापकमित्यर्थः। मात्रमेव व्यावर्त्तयतीति तथोक्तमिति वाच्यम् / यथाश्रुतस्य तत्रापि सत्त्वादिति चिन्त्यम् / उत्पत्तिमत्त्वेति / भावत्वसमानाधिकरणोत्पत्तिमत्त्वव्यापकत्वमित्यर्थः / . अप्रयोजकत्व. शङ्कोत्युपल क्षणं, ध्वंसे व्यभिचारश्चेत्यपि बोध्यम् / अत एवाह भावानामिति / मकरन्दः /