________________ द्वितीयस्तबके ] शब्दानित्यत्वोपपादनम् / स्यादेतत् / तथाप्युत्पत्तनित्यत्वेन का विरोधी येन प्रतिबन्धसिद्धिः स्यात् / असिद्धे च तस्मिन् , भवतां व्यापकत्वासिद्धोऽस्माकमप्रयोजकः। सौगताना सन्दिग्धविपक्षवृत्तिरयमुपक्रान्ता हेतुरिति चेन्न / इदं धुत्पत्तिमत्त्वं विनाशकारण बोधनी। तदेवमनित्यत्वानुमास्य स्वरूपासिद्धिनिराकृता, संप्रति व्याप्यत्वासिद्धिं निराकर्तुमाशङ्कतेतथापि इति / भवतां नैयायिकानाम् , अस्माकं मीमांसकानामिति / न इति / उत्पत्तिमत्त्वं हि विनाशकारणसंनिधानेन व्याप्तं, तत इदं तत्सन्निधिविरुद्धेभ्यो नित्वेभ्यः स्वब्यापकस्य विनाशका रणसन्निधानस्य निवृत्त्या निवर्तमानमनित्य एवावतिष्ठत इति व्यापकानुपलब्धिर्विपक्षे वाधकमिति। मनु स्यादेवं ययुत्पत्तिमत्त्वस्य विनाशकारणसन्निधानेन व्याप्तिः स्यात् , सैव कुतो विपक्षे बाधका प्रकाशः। तिसकरापत्या रसत्वशब्दत्वव्याप्यजात्योर्भिन्नत्वेन रसशन्दसाधारण्यं साधनावच्छिन्नसाध्यव्यापकस्य मूर्त्तगुणत्वस्य स्पर्शवत्समवेतत्वस्य चोपाधित्वश्च / मैवम् / उत्कर्षापकर्षशब्दप्रवृत्तिनिमित्तजातिमत्वादिति विवक्षितत्वात् / रसत्वादिव्याप्यजातिभेदेऽपि तादृशशब्दप्रवृत्तिनिमित्तत्वस्य साधारण्या त् , सर्वत्र वर्णात्मकशब्दपक्षीकरणे चानित्यध्वनिषु व्योमगुणेषूपाधीनां साध्याव्यापकत्वातू पक्षमात्रव्यावर्तकविशेषणवत्वेन पक्षेतरत्वतुल्यत्वाच्चेति भावः। विपक्षबाधकाभावेनोत्पत्तिमत्त्वमप्रयोजकमित्याह-तथापीति / उत्पत्तिमदपि किञ्चिन्नित्यं स्यादित्यर्थः / प्रकाशिका। शब्दभिन्नविशेषगुणासमानाधिकरणत्वादित्यर्थः, तेन न स्वरूपासिद्धिर्नवा पवनस्पर्शे व्यभिचारः / सुखादौ यथाश्रुतसाध्याव्यापकत्वादाह / साधनेति। यद्यपि सुखादावप्युत्कर्षापकर्षों स्त इति विवक्षितोऽप्युपाधिः साध्याव्यापक एव / न च सजातीयसाक्षात्कारप्रतिबन्धकत्वादिना तन्निर्वचनासङ्गतिः, अज्ञातेषु सुखादिषु मानाभावेन तादृशोत्कर्षादेस्तेष्वभावादिति वाच्यम् / तथासति तस्य रसशब्दसाधारण्येन शब्दपर्यन्तानुधावनस्य हेतावसङ्गतेः / अन्यतरगर्भतयैव स्वस्थतायामुभयोपादानासमतेश्च। तथापि साधनपदेनात्र पक्षधर्म एवोक्तः,स च सजातीयेत्यायुक्तरूपो बहिरि. न्द्रि यव्यवस्थाहेतुस्वरूपो वा / उत्कर्षापकर्षति / उत्कृष्टापकृष्टत्यर्थः। पक्षे साध्याव्यापकत्वमनुद्भाव्यमैवेत्यत आह-सर्वत्रेति। उपाधोनामिति। यद्यपि पूर्वपक्षे द्वयोरेवाशङ्कितत्वाद् बहुवचनमयुक्तम् तथापि रूपवत्समवेतत्वादीनामपि तत्र तात्पर्य्यविषयत्वात्तदुपपत्तिः। पतमात्रेति / . ययप्यात्मादेः सुखादेव व्यावर्तनान पक्षमात्रव्यावर्शकत्वमत एव च न पक्षेतरतुल्यत्वं तथापि साध्यव्यापकताप्राहकमानाभावेन पक्षेतरतुल्यत्वं बहिरिन्द्रियव्यवस्थाहेतुत्वरूपावच्छेदकाश्रयमध्ये च पक्ष मकरन्दः / द्रष्टव्यम् / सुखादौ साध्याव्याप्तेराह साधनावच्छिन्नेति / ननु सुखादाबुत्कर्षापकर्षसम्भवात्तद्दोषतादवस्थ्यम् / न च सजातीयसाक्षात्कारप्रतिबन्धकतावच्छेदकत्वादिना तन्निर्वचनं, तादृशो. स्कर्षादेः सुखादावसम्भवोऽविदिते तत्र मानाभावादिति वाच्यम् / तस्य रसचरमशब्दसाधारण्येउत्कर्षापकर्षशब्देत्यादिविवक्षाविरोधात् / तथा सत्युत्कर्षापकर्षयोरन्यतरगर्भत्वेनैव सामञ्जस्ये व्यर्थविशेषणत्वापत्तेश्च / न च हेतुद्वये तात्पर्य्यम् , मूलविरोधादिति चेत् , न साधनपदेन पक्षध मस्य विवक्षितत्वात् / स च बहिरिन्द्रियव्यवस्थाहेतुत्वादिः। उत्कर्षापकर्षति / उत्कृष्टापकृष्टेत्यर्थः। पक्षे साध्याध्यापकत्वमनुद्भाव्यमित्यत आह सर्वत्रेति / यद्यपि द्वयोरेवोक्तत्वादुपाधीनामित्ययुक्तं, तथाप्यन्यस्यापि तत्समनियतस्य तात्पर्य्यविषयत्वात्तदभिप्रायेण तथोक्तम् / पक्षमात्रेति / ननु सुखादेरपि व्यावर्त्तनान्न पक्षमात्रव्यावर्तकत्वम् , न च साधनवत्पक्ष _पिप्पणी। न व्यभिचारः। उत्कर्षापकर्षशब्देति। उत्कृष्टापकृष्टेति विवक्षितम् /