________________ 270 व्याख्यात्रयोपेतप्रकाशबोधनायुते न्यायकुसुमाअलौ [ 1 कारिकाव्याख्यायो विरोधव्यभिचारावसम्भावितावेवाऽत्रेत्यसिद्धिरवशिष्यते। साऽपि नास्ति / तथा हि / शब्दस्तावत् पूर्वोक्तन्यायेन स्वाभाविकतीव्रमन्दतरतमादिभावेन प्रकर्षनिकर्षवानुपलभ्यते / इयञ्च प्रकर्षनिकर्षवत्ता कारणभेदानुविधायिनी सर्वत्रोपलब्धा / अकारणका हि नित्याः प्रकर्षवन्त एव भवन्ति, यथाऽऽकाशादयः। निकृष्टा एव वा, यथा परमाण्वादयः। न तु किञ्चिदतिशयानाः कुतश्चिदपकृष्यन्ते / तदियं नित्येभ्यो व्यावर्त्तमाना कारणवत्स च भवन्ती जायमानतामादायैव विश्राम्यतीति प्रतिबन्धसिद्धौ प्रयुज्यते, शब्दा जायते, प्रकर्षनिकर्षाभ्यामुपेतत्वान्माधुर्यादिवत् / अन्यथा, नियामकमन्तरेण भवन्ती नित्येष्वपि सा स्यात् , नियमहेतारभावात्। शब्दादन्यत्रेयं गतिरिति चेन्न / साध्यधर्मिणं विहायेति प्रत्यवस्थानस्य सर्वानुमानसुलभत्वात् / न चेद् व्यञ्जकतारतम्यायञ्जनीयतारतम्यम् , अस्वाभाविकत्वास गात् / व्यवस्थितश्च स्वाभाविकत्वम् / न च व्यञ्जकोत्पादकाभ्यामन्यस्यानुविधानमस्ति / न च स्वाभाविकत्वौपाधिकत्वाभ्यामन्यः प्रकारः सम्भवति / बोधनी। धव्यभिचारौ त्वसंभावितावेव सपक्षवृत्तिसद्भावाद्विपक्षे वृत्त्यभावाच्चेत्याह-विरोध इति / तस्मादन्यतरासिद्धिरेव संभाव्यतया विशिष्टा, सापि निराक्रियत इत्याह-अत्रेति इति / हेतुसिद्धावनुमानं विपक्षस्तस्य प्रतिबन्धसिद्धिं तावदाह-शब्दस्तावत् इति / पूर्वोक्तन्यायेन इति / तीव्रत्वादीनामन्यधर्मत्वेनानुपलम्भः शब्दगतत्वेनोपलम्भः शब्दधर्मत्वेनैवोपलम्भो बाधकाभाव इत्यादिर्यः पूर्वमुक्तस्तेनेति / ततः किमित्यत्राह-इयं च इति / सर्वत्र माधुर्यादौ कारणप्रकर्षनिकर्षानुविधायिनी दृष्टेत्यन्वयं दर्शयित्वा व्यतिरेकमपि दर्शयति-अकारणका हि इति / ततोऽपि किमित्यत्राहतदियम् इति / तस्मादियं प्रकर्षनिकर्षवत्तेति / तत्रानुमानं तदनुग्राहकं च दर्शयति-शब्दो जायते इति / नियामकं कारणप्रकर्षनिकर्षरूपमन्तरेण शब्दे भवन्ती प्रकर्षनिकर्षवत्ता गगनादिध्वपि भवेत् , शब्द एव नाकाशादिष्वस्तीति नियमहेत्वभावादिति / ननु शब्दव्यतिरितस्य प्रकर्षनिकर्षवत्त्वं जायमानतया व्याप्तं तद्दर्शनान्न तु प्रकर्षनिकर्षवत्तामात्रमित्याहशब्दात् इति / न इति / बाधकाभावेऽपि व्याप्तिसङ्कोचे सर्वानुमानोच्छेदः स्यादिति / ननु व्यञ्जकानां ध्वनीनां प्रकर्षनिकर्षाभ्यां व्यजनीयस्य शब्दस्य तद्वत्ताभिमानः, ततश्चासिद्धो हेतुरित्याशकथाह-न च इति। प्रसज्यतां काम, तदेव नः समीहितम् / अत्राह-व्यवस्थितश्च इति / ध्वनिधर्माणामारोपस्यासंभवादिति / ननु मा भूद् व्यञ्जकोपाधित्वं तारतारतरत्वादिस्तथापि कथं कारणप्रकर्षाद्यनुविधानं कथं वा स्वाभाविकत्वं सिभ्यतीत्यत्राह-न च इति / औपाधिकत्वनिषेधेन परिशेषात् सिध्यति गत्यन्तराभावादिति / प्रकाशः। परमाणुरूपवत् / अव्यासज्ज्यवृत्तित्वे सत्यनात्मविभुगुणत्वाद्, विशेषगुणान्तरासमानाधिकरणकवृत्तिगुणत्वात् , कालपरिमाणवदित्यत्राप्यकार्यत्वमुपाधिरिति भावः / पूर्वोक्तति। उपाधेरनुपलम्मेम तद्गततया चोपलम्भेन चेत्यर्थः / प्रकर्षनिकर्षाभ्यामिति / ननूत्कर्षापकर्षयोर्जात्योर्जा प्रकाशिका। परमाणुनिष्ठदैशिकपरत्वादौ व्यमिचारवारणाय / अव्यासज्येति / न च गुणपदमधिकं समवाय कालादिवृत्तौ तन्मते व्यभिचारवारकत्वात् तस्यापि व्यासज्यसमवेतत्वाभावात् / विशेषगुणेति / टिप्पणी। प्रतियोगित्वापेक्षया लघुत्वादिदमेव साध्यमुचितं तत्र व्यभिचारवारणं सम्भवति प्रयोजनमित्याशयः। विशेषगुणान्तरासमानाधिकरणेति / शब्दान्यविशेषगुणासमानाधिकणेत्यवर्थः / तेन बायुस्पर्श