________________ द्वितीयस्तवके ] . शब्दानित्यत्वोपपादनम् / दिति प्रत्यनुमानमिति चेन्न / अकार्यत्वस्योपाधेर्विद्यमानत्वात् / अन्यथा, आत्मविशेषगुणा नित्याः, तदेकगुणत्वात् , तद्गतपरममहत्त्ववदित्यपि स्यात् / अस्य प्रत्यक्षबाधितत्वादहेतुत्वमिति चेन्न / निरुपाधेर्वाधानवकाशात्। स्वभावप्रतिबद्धस्य च तत्परित्यागे स्वभावपरित्यागप्रसङ्गात् / तस्माद् बाधेन वोपाधिरुन्नीयते, अन्यथा वेति न कश्चिद्विशेषः। ___एतेन श्रावणत्याच्छब्दत्ववदित्यपि परास्तम् / अत्रापि तस्यैवोपाधित्वात् / श्रन्यथा गन्धरूपरसस्पर्शा अपि नित्याः प्रसज्येरन् / प्राणाद्यकैकेन्द्रियग्राह्यत्वाद् गन्धत्वादिवदित्यपि प्रयोगसौकर्यात् / बोधनी। प्राभाकराः प्रत्यवतिष्ठन्ते-तर्हि इति / न इति / अत्राकार्यत्वौपाधिकत्वात्तदेकगुणत्वमप्रयोजकमिति तस्थैव प्रयोजकत्वेऽनिष्टमाह-अन्यथा इति / अत्र ह्यकार्यत्वस्योपाधित्वं त्वयाप्यङ्गीकार्यमिति भावः / नन्वात्मगुणानां नित्यत्वानुमानस्य तदनित्यत्वप्राहिमानसप्रत्यक्षबाघादप्रामाण्यं, न त्वकार्यत्वोपाधिकत्वादित्याह-अस्य इति / न इति / यययं निरुपाधिस्तदा बाघ एव न स्यादिति / कुत इत्यत आह-स्वभाव इति / यदि हि केनचित्स्वभावस्तं प्रतिबद्धस्तस्यैव नित्यत्वप्रयोजक त्वेऽनिष्टमाह-अन्यथा इति / तदेवमनित्यत्वानुमानस्य बाधः सत्प्रतिपक्षत्वं च निराकृतं, विरो प्रकाशः। साध्यम् / तत्र विशेषपदार्थेऽनैकान्तिकवारणार्थ गुणग्रहणमित्याहुः / अकार्यत्वस्येति / पूर्वसाधनव्यतिरेकोऽपि साध्यप्रयोजकतया यथोपाधिस्तथोक्तमधस्तात् / अपि चोपाधेनित्यदोषत्वात् साध. नपौर्वापर्यस्य चानियतत्वायदा तदेव साधनं स्थापनायां प्रयुज्यते तदा सोपाधिः, यदा तु दूषणतया तदेवीच्यते तदा पूर्वसाधनव्यतिरेकादकार्यत्वमनुपाधिरिति तदेव नित्यत्वेन व्याप्तमव्याप्तञ्चेति महद्वैशसमिति भावः / उपाधेः साध्यव्यापकताग्राहकं तर्कमाह अन्यथेति / निरुपाधेरिति / बाघे हि पक्षाभिमते व्यभिचारस्तत्र चावश्यमुपाधिरित्यर्थः / एतञ्च जलह्रदो वह्निमान् धूमवत्वादित्यादावपक्षवृत्तिनि साधने नास्तीति पक्षधर्मे तत्र बोद्धव्यम् / अन्यथा वेति / बाधमनुपजीव्येत्यर्थः। श्रावणत्वादिति / गुणवृत्तिजात्यनभ्युपगन्तृमते शब्दत्वं श्रोत्रग्राह्यत्वम् / तत्र न श्रावणस्वमिति कालस्य षडिन्द्रियवेयत्वात् स एव दृष्टान्त इति भावः। तस्यैवेति / अकार्यत्वस्यैवे. त्यर्थः / शब्दो नित्यः पृथिवीतरनित्यभूतविशेषगुणत्वाद् , अपाकजनित्यभूतैकसमवेतत्वात् , जल प्रकाशिका। इदमपि तारत्वस्य स्वरूपेण सावधित्वे सत्ताजातेर्विशेषपदार्थस्य च तैरनङ्गीकारादरुचिमाविष्करोति / आहुरिति / एवञ्चाकाशमात्रवृत्तित्वमाकाशेतरावृत्तित्वमेवाभिमतमित्यवृत्तौ समवायेऽनित्ये च तन्मते व्यभिचार इति गुणपदं मूले परिभावनीयम् / केचित गुणपदमप्रधानार्थकमित्याकाशमात्रपरतन्त्रत्वादिति मूलार्थ इत्याहुः। अपाकजेति / म च परमाणुकर्मणि व्यभिचारः, अत्रापि विशेषगुणत्वादित्यस्यैकसमवेतत्वादिति प्रतीकार्थत्वात् विशेषपदं च . मकरन्दः / शेषपदार्थस्य चानभ्युपगमादस्वरसमाविष्करोति इत्याहुरिति। आकाशमात्रवृत्तित्वस्य तदितरावृत्तित्वे तात्पर्य्यम् / एवञ्च तन्मते समवाये व्यभिचारवारणाय गुणपदमित्यन्ये / गुणपदमप्रधानार्थकं , तथा चाकाशैकपरतन्त्रस्वात्त्वेिव विवक्षितमित्यप्याहुः / हेस्वन्तरव्याख्यानं शब्दप्रकाशे