________________ 26 व्याख्यानयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलो [1 कारिकाव्याख्यायो प्रयोजकत्वात् / अयोग्यत्वं हि तत्रोपाधिः / अन्यथा, सुखादिनात्मगुणः, तेन गृह्यमाणत्वाद् रूपादिवत् / न वा तेन गृह्यते, तत्समवेतत्वाददृष्टवत् / आत्मा वा न तग्राहकः, तदाश्रयत्वाद् गन्धाद्याश्रयघटादिवदित्याद्यपि शङ्केत / तस्मात् स्वगुणः परगणो वाऽयोग्यो न गृह्यते, गृह्यते तु योग्यो योग्येन, तत् किमत्राऽनुपपन्नम् / अवश्यञ्च श्रोत्रेण विशेषगुणग्राहिणा भवितव्यम् / इन्द्रियत्वात् / अन्यथा तन्निर्माणवैयर्थ्यात् तदन्यस्येन्द्रियान्तरेणैव ग्रहणात् / न च द्रव्यविशेषग्रहणे तदुपयोगः / विशेषणयोग्यतामाश्रित्यैवेन्द्रियस्य द्रव्यग्राहकत्वात् , न द्रव्यम्बरूपयोग्यतामात्रेण / अन्यथा चान्द्रमसं तेजः स्वरूपेण योग्यमिति तदप्युपलभ्येत / आत्मा वा मनोग्राह्य इति सुषुप्त्यवस्थायामध्युपलभ्येत / अनुभूतरूपेऽपि वा चक्षुः प्रवत्तत, तस्माद् गुणयोग्यतामेव पुरस्कृत्येन्द्रियाणि द्रव्यमुपाददते, नातोऽन्यथेति स्थितिः। अत एवं नाकाशादयश्चाक्षुषाः। ... अस्तु तर्हि शब्दो नित्यः, नित्याकाशैकगुणत्वात् , तद्गतपरममहत्परिमाणव बोधनी। निष्टमाह-अन्यथा इति / उपसंहरति-तस्मात् इति / इन्द्रियत्वहेतोरप्रयोजकत्वायोक्त-योग्येन इति / एवं शब्दस्य गुणत्वे बाधकमाशय निरस्तम् / साधकमप्याह-अवश्यं च इति / तदर्थस्य श्रोत्रविषयस्य शब्दस्येति / ननु द्रव्यविशेषस्यैव सतः शब्दस्य प्रहणार्थ श्रोत्रनिर्माणमस्त इन्द्रि. यान्तराणां तत्रासामर्थ्यादित्यत्राह-न च इति / इन्द्रियं द्रव्यगतविशेषगुणग्रहणयोग्यतां सहकारित्वेनाश्रित्यैव द्रव्यं गृह्णाति नान्यथेति / द्रव्यस्य स्वरूपयोग्यतामात्रेणेन्द्रियग्राह्यत्वेऽनिष्टमाहअन्यथा इति / उपसंहरति-तस्मात् इति / अत एव इति / यत एव विशेषगुणग्रहणपुरस्कारे0वेन्द्रिग्राह्यत्वं द्रव्याणामिति शब्दस्य श्रोत्रगुणत्वेनाद्रव्यद्रव्यत्वमसिद्धं तहीदमेव प्रतिसाधनमस्त्विति प्रकाशः। धिरित्यप्रयोजकत्वमुभयत्रेत्यर्थः / अत एवाप्रयोजकान्तरतुल्यत्वमाह--अन्यथेति। साक्षात्संबन्धेन गृह्यमाणत्वादित्यत्र बाह्येन्द्रियत्वावच्छिन्नसाध्यव्यापकं सावयवकत्वमुपाधिः / ननु बहिरिन्द्रियव्यवस्थापकत्वमप्यप्रयोजकमित्याशङ्कय तत्र विपक्षबाधकमाह--अवश्यञ्चेति / अत्रापि विपक्षबाधकमाह अन्यथेति / ननु स्वरूपयोग्यतैव द्रव्यप्रत्यक्षत्वे तन्त्रम् , अत एव विशेषगुणशून्यानां कालादीनां न प्रत्यक्षत्वमित्यत आह तस्मादिति / न च नाद एव तस्य विशेषगुणः स्यात् / ध्वन्यात्मकस्य नादस्याग्रहेऽपि वर्णसाक्षात्कारात् / नाऽपि तारत्वादिकं तेषामुत्कर्षादिरूपतया जातित्वात् / अत एव तस्य जातिरूपत्वेऽप्यवधिनिरूप्यत्वमिति भावः। अत एवेति / तद्विशेषगुणस्य चक्षुरप्राह्यत्वादित्यर्थः। . आकाशैकेति / अनेकगुणेन संयोगादिना व्यभिचारवारणार्थभेकप्रहणम् / अत्र यद्यपि आकाशैकगुणत्वमाकाशमात्रवृत्तिगुणत्वं, तत्र गुणत्वं व्यर्थम् / तथापि ध्वंसानवच्छिन्नसत्तायोगिस्वं प्रकाशिका। बाह्येन्द्रियेति।कालादीनामिति। कालः षढ़िन्द्रियवेद्य इति मतेनेदम्, तुल्यन्यायतया दिशोऽपि प्रत्यक्षत्वं शब्दस्य प्रत्यक्षत्वं तैरुपेतमेवेति बहुवचनोपपत्तिः। अत एवेति / उत्कर्षवत्वादेवेत्यर्थः। मकरन्दः / अत एवेति / उत्कर्षरूपत्वादेवेत्यर्थः / एतदपि मतान्तरेणेति ध्येयम् / तन्मते सत्ताजातेर्वि टिप्पणी। तथापि ध्वंसानवच्छिन्नसत्तायोगित्वं साध्यमिति। ध्वंसाप्रतियोगिस्वे सति प्रागभावा