________________ द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् / व्यवस्थाहेतुत्वात् , रूपादिवदिति परिशेषाद् गुणत्वेन समवायिसिद्धौ, लिङ्गग्राहकप्रमाणबाधितत्वाद् नाव्यवहितसंबन्धग्राह्यत्वेन द्रव्यत्वसिद्धिः / न चासिद्धेन सत्प्रतिपत्तत्वम् / असिद्धस्य हीनबलत्वात् / ___ ननु शब्दस्तावदश्रोत्रगुणो नैवेति त्वयैव साधितं प्रबन्धेन / न च श्रोत्रगुणः, तेन गृह्यमाणत्वात् , यद् येनेन्द्रियेण गृह्यते नासौ तस्य गुणः, यथा गृह्यमाणो गन्धादिः / श्रोत्रं वा न रवगुणग्राहकम् , इन्द्रियत्वाद् घ्राणवदिति न गुणत्वसिद्धिरिति चेत् / ततः किम् ? / न चैतदपि / घ्राणादिसमवेतगन्धाद्यग्रहे विगुणत्वस्या बोधनी। सत्प्रतिपक्षमनित्यत्वानुमानस्येत्याह-नचासिद्धन इति / यद्वा, नास्मत्प्रतिपक्षस्य स्वरूपसिद्धिरिति। ___ ननु श्रोत्रव्यतिरिक्तानां पृथिव्यादीनां गुणः शब्दो नेति भवद्भिरेव परिशेषानुमानेन साधितम् / वयं तु श्रोत्रगुणो नेति अनुमानद्वयेन साधयामः / ततश्च गुणत्वस्यैवासिद्धौ द्रव्यत्वमेव परिशिष्यत इति / केचित्तु शब्दः श्रोत्रगुणो नेति पठन्ति / तत्रायमर्थः / महता प्रबन्धेन शब्दस्य श्रोत्रग्राह्यत्वं प्रतिपादयता त्वयैव श्रोत्रगुणो नेति साधितं भवति कथमेतेनैतत्प्रतिपादितं भवेदित्यत्रोक्तं-न श्रोत्रगुणः इति। न हि श्रोत्रग्राह्यः शब्दः तद्गुणो भवतीति / मा भूद् गुणत्वसिद्धिव्यत्वं तु कुतस्त्यमित्याह-ततः किम् इति / यद्वा, अनुप्राहकतर्काभावेऽनुमानमात्रान्न किश्चित्सिध्यतीति सोपाधित्वादप्रयोजकत्वं वानुमानद्वयमित्याह-न चैतदपि इति / स्वगुणत्वस्यैव ग्रहणप्रयोजकत्वेऽ प्रकाशः। द्रसादिवदित्यर्थः। अथ परिशेषो नोपजीव्यस्तत्राह-न चेति / अनेन द्रव्यत्वसाधनस्य प्रतिरुद्धत्वादद्रव्यद्रव्यत्वासिद्धौ न तेनाऽनित्यत्वसाधने सत्प्रतिपक्षत्वमित्यर्थः / ननु गुणत्वेऽपि बाधकाद् न तत्सिद्धिस्ततो न श्रादिलिङ्गग्राहकमानबाध इत्याह नन्विति / गुणत्वासिद्धावपि द्रव्यत्वासिद्धौ न साक्षात्सम्बन्धेन गृह्यमाणत्वे प्रमाणमुक्त स्यादिस्याह-तत इति / ननु गुणत्वे निषिद्वे परिशेषाद् द्रव्यत्वं सेत्स्यतीत्यत आह--न चेति / प्रथमानुमाने श्रोत्रयोग्यगुणत्वव्याप्यजातिशून्यत्वमुपाधिरन्त्यानुमाने त्वयोग्यगणत्वमुपा. प्रकाशिका। हिरिति / उक्तभागासिद्धिनिरासाय जातिगर्भता / धर्ममात्रगर्भतायां गन्धादिकमादाय द्रव्ये व्यभिचार इति जातित्वपर्यन्तानुधावनम् / एवं च सति यथाश्रुतमूलदृष्टान्तासतिरत आह-रसा. दिवदिति / मूलस्याप्यतद्गुणसं विज्ञानबहुव्रीहिणात्रैव तात्पर्य्यमिति भावः। प्रतिरुद्धत्वात् / बाधितत्वादित्यर्थः, / प्रथमानुमान इति / श्रोत्रगुणत्वाभावसाधक इत्यर्थः। रूपादौ साध्याव्या. पकत्वनिरासाय श्रोत्रयोग्येति / सत्तामादाय स एव दोष इति गुणत्वव्याष्येति / ककारभिन्नगुणत्वमादाय स एव दोष इति जातीति / न च पक्षेतरत्वमुपाधिरिति वाच्यम् / ध्वनयो वायवीया एवेति मते ध्वनौ सिद्धसाधनभयेन वर्णमात्रस्यैव पक्षत्वमिति पक्षभिन्नध्वनिव्यावर्त्तकत्वाद् / केचित्तु बाधोनीततया न पक्षेतरत्वे दोषः, बाधकञ्च परिशेष एवेत्याहुः / अयोग्यगुणपत्त्वमिति / योग्यगुणाभाववत्वमित्यर्थः। अात्मनि परमाणौ च यथाश्रुतसाध्याव्यापकत्वादाह मकरन्दः / जातित्वपर्य्यन्तञ्च गन्धादिकमादाय द्रव्ये व्यभिचारवारणार्थम् / एवं सति मूलदृष्टान्तस्य साधनवैकल्यादाह रसादिवदिति / प्रतिरुद्धत्वादिति / बाधितत्वादित्यर्थः / श्रोत्रयोग्येति / एतच्च रूपादौ साध्याव्याप्तिवारणार्थम् / सत्तामादाय दोषतादवस्थ्यादाह गुणत्वव्याप्येति / गुणान्यान्यत्वमादाय दोषतादवस्थ्यादाह जातीति / टिप्पणी। उपस्वे प्रभायां व्यभिचारोऽतीन्द्रियशब्दे भागासिद्धिश्च स्यादत आह-चक्षुरप्राधेति /