________________ . 266 व्याख्यात्रयोपेतप्रकाशोधनीयुते न्यायकुसुमाञ्जली [1 कारिकाव्याख्यायो शब्दस्य प्रमाणमस्ति / परिशेषोऽस्ति / तथा हि / सदाद्यभेदेन सामान्यादित्रय व्यावृत्तौ, मूर्तद्रव्यसमवायनिषेधेन कर्मत्वनिषेधाद् द्रव्यगणत्वपरिशेषे संयोगसमवाययोरन्यतरः संबन्ध इति चेन्न / बाधकबलेन परिशेषे द्रव्यत्वस्यापि निषेधालिङ्गग्राहकप्रमाणवाधापत्तेः। बाधके सत्यपि वा द्रव्यत्वाप्रतिषेधे, कर्मवादीनामप्यप्रतिषेधप्रसक्तौ परिशेषासिद्धेः, तस्मादेकदेशपरिशेषो न प्रमाणं, सन्देहसङ्कोच. मात्रहेतुत्वात् / श्रथ द्रव्यत्वे किं बाधकम् ? उच्यते, शब्दो न द्रव्यं, बहिरिन्द्रिय बोधनी। साक्षात्संबन्धो नाम संयोगः समवायो वा तदन्यतरसिद्धव्यत्वगुणत्वयोरन्यतरसिद्ध्यधीनत्वान्न ततः प्राक साक्षात्सम्बन्धः सिध्यतीति परिशेषानुमानेन तत्सिद्धिमाह-परिशेषः इति / 'सदनित्यं द्रव्यवत्कार्य कारणं सामान्यविशेषवदिति द्रव्यगुणकर्मणामविशेषः' इति (वै० सू० 1. 1. 8.) / सत्तादिमत्त्वेन सामान्यविशेषसमवायेभ्यो व्यावृत्तस्य मूर्तद्रव्यासमवायेन कर्मणोऽपि व्यावृत्तौ द्रव्यत्वगुणत्वयोरन्यतरपरिशेषे साक्षात्संबन्धसिद्धिरिति / तर्हि कर्मत्वादिवद् द्रव्यत्वेऽपि वाधकसद्भावेन गुणत्वस्यैव परिशेषात् साक्षात्संबन्धग्राहिणा परिशेषानुमानेनैव . द्रव्यत्वानुमानस्य बाधप्रसङ्ग इत्याह-न इति / अन्यथा द्रव्थत्वगणत्वयोरपि परिशेषो न स्यादित्याह-बाधकः इति / न चायं परिशेषः प्रमाणं पदार्थषटकविषयस्य संदेहस्य द्रव्यगुणविषयत्वे संकोचमानहेतुत्वे. न संशयादनिस्तारादित्युपसंहरनाह-तस्मात इति / अथेति / येन ततोऽपि परिशेषाल्लिङ्गग्राहकप्रमाणबाधः स्यादिति / तदाह-उच्यते इति / द्रव्यत्वासिद्धौ न चासिद्धविशेषेणाद्रव्यद्रव्यत्वादित्यनेन प्रकाशः। त्युपजीव्यविरोध इत्याशयवानाह-न हीति / सदादीति / सत्तावत्त्वजातिमत्वादिनेत्यर्थः / इतरनिषेधकवद् द्रब्यत्वेऽपि निषेधकसत्त्वात्तन्निषेधे गुणत्वसिद्धौ द्रव्यस्वसाधकं बाधितमित्याह-बाधकेति / परिशेषसिद्धिमभ्युपेत्याह-तस्मादिति / द्रव्यादिकोटिसंशयप्रवृत्तरेकदेशे कर्मादिकोटौ संशयोच्छेदेऽपि द्रव्यगुणकोटिमादाय संशयस्य तादवस्थ्याद् द्रव्यत्वे बाधिते व तत्साधनत्वमित्यर्थः / बहिरिन्द्रियेति / चतुरग्राह्यबहिरिन्द्रयग्राह्यजातिमत्वा. प्रकाशिका। तात्पर्य्यम् / बाधकञ्च मूल एवोक्तमिति। न चानेनैव तस्यापि सत्प्रतिपक्षितत्वात् कथं तेनास्य बाध इति वाच्यम् / एवमपि द्रव्यत्वासिद्धौ समीहितसिद्धः, वस्तुतः संयोगसमवायान्यतरगर्भहेतौ व्यर्थविशेषणता प्रत्येकगर्भहेतौ च स्वरूपासिद्धिदृष्टन्तासिद्धी इति हीनस्य तस्याद्रव्यत्वसाध्यकेन बाध एवेति / उपजीव्येति / हेतुसिद्धयर्थं गुणत्वसिद्धरुफ्जीव्यत्वादिति भावः। ननु बहिरिन्द्रियव्यवस्थाहेतुस्वं थयेकमात्रबहिरिन्द्रियग्राह्यत्वं तदा प्रभादौ व्यभिचारि, अन्त्ये शब्दे भागासिद्धञ्चेत्यतो व्याचष्टे चक्षुरग्राह्येति / इदश्च जातिविशेषणं प्रभादौ व्यभिचारवारणाय, आत्मनि व्यभिचार इति तत् प्रत्येतुं शक्यमेव, तथापीयं शङ्का मूल एवानुपदं निरस्येति भावः / वस्तुतो बाधादेव न द्रव्यत्व सिद्धिा, बाधकञ्च मूल एवोक्तमिति प्रबट्टकतात्पर्य्यम् / न चानेनैव तस्यापि सत्प्रतिपक्षितत्वात् कथं तेनास्य बाध इति इति वाच्यम् , संयोगसमवायान्यतरसम्बन्धेन गृह्यमाणत्वादित्यत्र, समवाय. गर्भत्वेन ब्यर्थविशेषणतया व्याप्यत्वासिद्धत्वेन, अन्यथा स्वरूपासिद्धत्वेन, वक्ष्यमाणेन चोपाधिनाऽस्य होनबलत्वात् / उपजीव्येति / हेतुसिद्धयर्थं गुणत्वसिद्धरुपजीव्यत्वात्तद्विरोध इत्यर्थः / ननु बहिरिन्द्रियव्यवस्थापकत्वं, तत्तद्वहिरिन्द्रियमात्रग्राह्यत्वं, तथा च प्रभादौ व्यभिचारः, अती. न्द्रियशब्दांशे चाश्रयासिद्धिरित्यत आह चक्षुरग्राह्येति / एतच्च प्रभादावेव व्यमिचारवारणाय जातिविशेषणम् / आत्मनि तद्वारणाय बहिरिन्द्रियेति / उक्तभागासिद्धिनिरासाय जातिगर्भत्वम् टिप्पणी। चक्षुरग्राह्यबहिरिन्द्रियग्राह्येति / तत्तद्वहिरिन्द्रियमात्रग्राह्यत्वस्य बहिरिन्द्रियव्यवस्थाहेतुत्व मकरन्दः।