________________ वितीयस्तवके ] शब्दानित्यत्वोपपादनम् / नापि सत्प्रतिपक्षत्वम् / मिथो विरुद्धयोर्वास्तवतुल्यबलत्वाभावात् / एकस्थान्य तमाङ्ग वैकल्यचिन्तायामस्य वैकल्ये तस्यैवोद्भाव्यत्वात्, अवैकल्ये त्वदीयेनैव विकलेन भवितव्यमिति हीनस्य न सत्प्रतिपक्षत्वम् / __ तथापि नित्यः शब्दोऽद्रव्यद्रव्यत्वादित्यत्रापि साधनदशायां किञ्चिद्वाच्यमिति चेदसिद्धिः। द्रव्यं शब्दः साक्षात्सम्बन्धेन गृह्यमाणत्वाद् घटवदिति सिद्ध्यतीति चेन्न। एतस्याप्यसिद्धः। न हि श्रोत्रगुणत्वे, द्रव्यत्वे वाऽसिद्ध साक्षारसंघन्धे बोधनी। न च केनापि प्रमाणेन सत्प्रतिपक्षत्वं संभवतीत्याह-नापि इति / न तावत्तुल्यबलेन, परस्परविरुद्धयोः सिद्धवस्तुविषययोः प्रमाणयोर्वास्तवतुल्यबलत्वाभावान वस्तुनो द्वैरूप्यप्रसङ्गात् , अतोऽन्यतरस्य वैकल्ये तदेव दूषणं वाच्यम् उपजीव्यत्वादस्यवैकल्ये तदा त्वदीयनित्यत्वानुमानं विकलं स्यादिति न तस्य प्रतिपक्षत्वमिति। मा भूद्वस्तुतः समाधिकहीनबलवतः सत्प्रतिपक्षत्वं, तथाप्याभिमानिकतुल्यबलत्वेनानेन सत्प्रतिपक्षत्वोद्भावने सति किश्चिद् दूषणं तर्कस्य वक्तव्यमित्याह-तथापि इति / यद्वा,प्रतिपक्षत्वा सम्भवेऽपि स्वपक्षसाधनाय प्रयुक्तेऽस्मिन्नित्यत्वानुमाने किमपि दृषणं वक्तव्यमित्याहतथापि इति / उत्तरमाह-असिद्धिरिति / शब्दस्य द्रव्यत्वमसिद्धमिति / द्रव्यत्वसिद्धावनुमान. माह-द्रव्यम् इति। गुणादिभिरनैकान्तिकता मा भूदित्युक्त-साक्षात् इति / परिहरति-न इति / प्रकाशः। सत्प्रतिपक्ष त्वञ्च वस्तुतस्तुल्यबलेन, तत्तया प्रतिसंहितेन वा ? / नाय इत्याह / मिथ इति / तथात्वे वा वस्तुनो विरुद्धरूप्यापत्तेरिति भावः। अङ्ग-पक्षसत्त्वादि / अस्य-शब्दानित्यत्वसाधनस्य / द्वितीयं शहते / तथापीति / न केवलं प्रतिपक्षतादशायां, साधनदशायामपीत्यपेरथः / न द्रव्यं समवायिकारणं यस्य तदद्रव्यम् , अद्रव्यत्वादित्युच्यमाने प्रागभावेन व्यभिचारः स्यादिति द्रव्यं विशेषणम् / असिद्धिरिति / विशेषणविशेष्ययोरित्यर्थः / प्रसिद्धस्य न सत्प्रतिपक्षत्वसाधनत्व इति भावः / विशेष्यसिद्धौ मानमाह-द्रव्यमिति / संयोगसमवायान्यतरत्वं सम्बन्धे साक्षात्वम् / यद्यपि भट्टानां श्रोत्रेण शब्दस्याजः संयोगोऽन्येषां समवाय इति साक्षात् सम्बन्धेन गृह्यमाणत्वं न कस्याप्यसिद्धं, तथापि शब्दस्य गुणत्वाऽनभ्युपगमे तत् प्रत्येतुमशक्यमि प्रकाशिका। एकस्या एव जातेरुभयप्रयोज्यत्वाङ्गीकारात, तद्देशीयतत्पुरुषीयशब्दस्यैतद्देशीयैतत्पुरुषीयाच वैजास्यात् / अनुगतमतिश्च देशभेदपुरुषभेदरूपोपाधिभेदाद् विरोधमाशक्य व्याचष्टे / नद्रध्यमिति। यद्यपि समवायिकारणशून्यद्रव्यत्वादिति हेतुरेवं पर्यवसितः, तत्र च समवायिपदव्यर्थता,तथाम्यखण्डन भावेन वैयर्थ्यमित्यभिप्रायेणाव्यर्थता। विशेषणविशेष्ययोरिति / न चैवमप्रे द्रव्यत्वमात्रसाधना. दुदारे न्यूनता, द्रव्यत्वे सिद्धे अकारणत्वस्याप्याक्षेपादित्याशयात् / तथापीति / यद्यपि द्रव्यवोत्रगुणान्यतरत्वनिश्चयेऽपि साक्षादित्यादिहेतुनिश्चयः, तथापि बांधकादेव द्रव्यत्वानिश्चय इत्यत्र मकरन्दः। च तदाश्रयानुविधानमात्रं न सम्बन्धस्तत्रौपपत्तिकत्वमिति भेदः / यद्वा, कुङ्कुमेनारुणा न तु स्वभावत इति कुङ्कुमस्योपाधित्वमनुभूयमानं, कृपाणे तु तथात्वमन्वयव्य तिरेकगम्यं, न तु तद्वत् कृपाणदीर्घ मुखमिति प्रत्ययभेदः / अपरं शब्दप्रकाशे द्रष्टव्यम् / विरोधमाशङ्कय व्याचष्टे-न द्रव्यमिति / यद्यप्येवं समवायिकारणशून्यद्रव्यत्वादिति फलिते हेतौ समवायिपदमधिकं, तथाप्यखण्डाभावे वैयर्थ्य नेति ध्येयम् / तथापीति / यद्यपि गुणत्वानभ्युपगमेऽपि द्रव्यगुणान्यतरत्वनिश्चयदशायां टिप्पणी। विना नोपपद्यते एकावधिनिरूपितत्वविशिष्टतारत्वमन्दत्वयोरेकत्रासात्वादिति भावः / 34 न्या० कु०