________________ 264 व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाअलौ [ 1 कारिकाव्यास्वायो माध्यासेन मेदस्य पारमार्थिकत्वात् प्रत्यभिज्ञानमप्रमाणमिति न तेन बाधः // बोधनी। तीव्रमन्दयोगकारयोर्भेदस्य वास्तवत्वेन शब्दप्रत्यभिज्ञानस्याप्रमाणत्वान्न तेनानित्यत्वानुमान बाध इति / प्रकाशः। उच्यते / शुकशारिकामनुष्यप्रभवेषु स्त्रीपुंसतद्विशेषप्रभवेषु चेतुक्षीरादिमाधुर्यवत् स्फुटतरं वैजात्यमनुभूयते। न चेदमौपाधिकम / तत्त्वं हि श्रानभविकम. औपपत्तिकं वा / नायः / इन्द्रियासनिकर्षण स्त्रीपुंसतद्विशेषाननुभवेऽपि शब्दभेदप्रत्ययात् / यतः स्त्रीपुंसप्रभवत्वमनुमीयते। अन्यथाऽन्योन्याश्रयात् / स्त्रीप्रभवत्वे ज्ञाते भेदधीस्ततश्च तदनुमानात् / नान्त्यः। उपाघेरन्वयव्यतिरेकानुविधानाभावात् / न च व्यजकवायुबैजात्यं गकारगतत्वेन भासते, वायोश्च ज्ञानं तेनैव रूपेणेति वाच्यम् / गकारगतत्वे बाधकाभावात् / न चाभेदप्रत्यभिज्ञानं बाधकम् / य एव शुकशब्दः स एव स्त्रीशब्द इत्यननुभवात् ! तथात्वे वा मेदज्ञानाभावेन वक्तृविशेषाननुमानापत्तेः। अस्ति च कोऽपि गकारस्य विशेषो यतो दिग्विशेषप्रभवत्वमनुमीयते / अव्यपदेश्यत्वेऽप्यानुभविकत्वात् / तस्माद् गकारादौ भेद भासमानेऽनुगतबुद्धेर्गत्वादिकजातिः / तारत्वमपि गत्वादिव्याप्यं भिन्नम् / अनुगतव्यवहारष सजातीयसाक्षा:कारप्रतिबन्धकतावच्छेदकरूपादनुगतादुपाधेः / तदझाने च तयवहारासिद्धः। परैरपि शुका दिगकारादिव्यजकवायूनां वैजात्यं वाच्यम् / तत्र यदि शुकवर्णाभिव्यञकवायुत्वं गकारव्यञ्जकवायुत्वव्याप्यं, तदा शुकककारव्यञ्जकवायो न स्यात् / अथ व्यापकं, तदा सर्व एव गकारव्यञ्जकवायवः शुकवर्णाभिव्यञ्जकवायवः स्युरिति वायुवृत्तिस्वेऽपि वैजास्यन्नानैव / ... तथापि यावद्वक्तृ भेदं नित्या एव वर्णाः सन्तु, तत्प्रस्यभिज्ञाने बाधकाभावाद् / मैवम् / अस्ति हि स एवायं गकार इति प्रत्यभिज्ञानम् , अस्ति च तत्रोत्पादविनाशधीः / न चानयोरन्योन्य विहायाऽन्यद् बाधकमस्ति / न चानयोरेकं भ्रमः / एकानन्तरं विशेषदर्शनेन अपरोत्पत्त्यभावा. पत्तेः / अतस्तयोरवश्वं विषयमेदो वाच्यः / एकविषयत्वे विरोधेन कोत्तरमपरानुत्पादापतेः। एवञ्च भेदे भासमाने प्रत्यभिज्ञानस्य तजातीयत्वं विषयः / न चैव तज्जातीयोऽयमिति तदाकारापत्तिः / तज्जातीयत्वविषयाया अपि बुद्धेः सोऽयमित्याकारदर्शनात् / यथा तानेव शालीनुपभुञ्जते, तानेव तित्तिरीनिति / यत्र च प्रथमं न भेदधीस्तत्र प्रत्यभिज्ञानं व्यक्त्यभेदविषयम् / तस्माद् यत्र भेदधी. स्तदितरबाधकाबाध्या तत्र प्रत्यभिज्ञानमेव न भवति, भवद्वा तज्जातीयत्वमालम्बते इत्यस्मपितृचरणाः। प्रकाशिका। भानुभविकमिति। कचिदुपाधित्वमनुभवसाक्षिकं यथा कुङ्कुमारुणा तरुणीत्यत्र ।कुकुमशब्दस्य कचिदोपपत्तिकं तदन्वयव्यतिरेकानुविधानकल्पनीयम् यथा रक्तः स्फटिक इत्यत्रेत्यर्थः / स्त्रीपुंसेति / स्त्रीपुंसप्रभवेषु हिं तावेवोपाधी वाच्यौ तौ च तदा नानुभूतयेते इति दूरे तयोरुपाधित्वानुभव इत्य. र्थः / अस्ति चेति / न च देशविशेषवक्तृविशेषप्रयोज्यजात्योरेकत्वं नानात्वे विगमकाभावः, मकरन्दः। गिकत्वाचेत्यर्थः / श्रानुभविकमिति / यत्रोपाध्याश्रयसम्बन्धात्तथाधीस्तत्रोपाघेरानुभविकत्वं, यत्र टिप्पणी। तारत्वमपि गत्वादिव्याप्यं भिन्नमिति / परमतारेषु गकारेषु एकं तारत्वम् परममन्दे ध्वेकं भन्दत्वम् परे च तारत्वमन्दत्वे समानाधिकरणे एवेति-न साङ्कर्म्यम् / समानाधिकरणे एव च तारत्वन्दत्वे उत्कर्षरूपत्वात्तदवधिनिरूपिते तत्तदवधिनिरूपितत्वविशिष्टत्वेन प्रतिनियताधिकरणवृत्तिताऽभ्युपेयते तथा चायमस्मात्तारो गकारोऽयश्चास्मान्मन्दो गकार इति प्रतीतिर्ग कारभेदं