________________ 262 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलो [ 1 कारिकाव्याख्यायो ग्राह्यजातीयगुणवता भवितव्यम् , बहिरिन्द्रियत्वाद् घ्राणादिवत् / सन्तु धनयोऽपि नामसाः, तथा च तद्धर्मग्रहणं श्रवसोपपत्स्यत इति चेन्न। ताररतारतरोबाऽयङ्गकार इत्यत्र ध्वनोनामस्फुरणात् / न च व्यक्त्या विना सामान्यस्फुरणम् / कारणाभावात् / व्यक्तिस्फुरणसामग्रीनिविष्टा हि जातिस्फुरणसामग्री। कुत एतत् ? अन्वयव्यतिरेकोभ्यां तथाऽवगमात् / ऐन्द्रियकेम्वेव घटादिषु सामान्यग्रहणात् , अतीन्द्रियेषु च मनःप्रभृतिष्वग्रहणात् / स्वरूपयोग्यतैव तत्र निमित्तम् , अकारणं ब्यक्तियोग्यतेति चेत् / एवं तर्हि सत्ताद्रव्यत्वपार्थिवत्वादीनां स्वरूपयोग्यत्वे परमाण्वादि. बोधनी। काशधर्मत्वे साधकमप्यस्ति वर्णानामित्याह-अवश्यम् इति / सन्तु इति / ततश्च श्रोत्रप्राह्यत्वेन तारत्वादीनां शब्दधर्मत्वसिद्धिरिति / न इति / तारोऽयं ककार इति प्रतीतिस्तत्र, न च तारत्वा. दिमत्तया ध्वनयः परिस्फुरन्तीति न ते ध्वनिधर्माः किन्तु वर्णधर्मा एवेति भावः / मा भूद् ध्वनीनां स्फुरणं, तथापि तद्धर्माणामेव तीव्रत्वादीनां स्फुरणं भविष्यतीत्यत्राह-न च इति / व्यकथा विना गृह्यमाणतयेति शेषः / विशेषरूपाणां ध्वनीनां सामान्यात्मानस्तीव्रत्वादयः कथमिव तेष्वगृह्यमाणेषु स्फुरेयुरिति / __ यद्वा, विशेषरूपेण ध्वनीनामस्फुरणेऽपि सामान्यात्मना स्कुरणात्तद्धर्मस्य तीव्रत्वादेर्ग्रहणोपपत्तिरित्याशक्याह-न च इति। कारणाभावमेवाह-व्यक्ति इति / . व्यक्तिस्फुरणसामग्न्येकत्वं जातिस्फुरणस्य कुतोऽवधृतमित्याह-कुत एतत् इति / उत्तरम्अन्वय इति। अन्वयव्यतिरेकावेव दर्शयति-ऐन्द्रियकेषु इति / सतीन्द्रिये व्यक्तिमाहिणि सामान्य प्रहादसति चाग्रहादिति / ननु तत्र सामान्यस्य स्वरूपयोग्यता सदसत्त्वनिमित्तत्वाद् ग्रहणाग्रहणयोरन्य. थासिद्धावन्वयव्यतिरेकावित्याह-स्वरूपयोग्यता इति / तद्विकल्प्य दूषयति-एवं तर्हि इति / यदि चेति / श्रोत्रस्थ नभस्त्वे मानमाह--ग्राहोति। प्राह्यजातीयविशेषगुणवतेत्यर्थः / ध्वनीनामिति / ध्वनयो नाभसा विभुसमवाधिकारणत्वाद् गुणा एव, तद्धर्माध तारत्वादयः सामान्यरूपाः स्युः। तथा च ध्वनीनां तारत्वादिसमवायिव्यक्तीनामज्ञाने गकारादिगतस्वेन ने भासेरमित्यर्थः / न चेति / जातिज्ञाने व्यक्तिविषयकत्वनियमादित्यर्थः / प्रत्यक्षेऽयं नियमोऽतो न जातिपदजन्यज्ञाने व्यभिचारः / जातिपदेनापि वा जातित्वज्ञानं व्यक्तिविषयकमेव जन्यते / नित्या. नेकवृत्तित्वस्य जातित्वात् / एवं तहीति / ननु परमाणुवृत्तिसत्तादिकं गृह्यत एवेतीष्टापत्तिः / न च परमाणुगतत्वेन तबुद्धिरापाया / विशेषणशानं विना विशिष्टज्ञानाभावात् परमाणोबायोग्य प्रकाशिका। श्रवणमात्रेति। अत्रापि पूर्ववद् बहिः पदं पूरणीयम् / श्रोत्रस्य नमसव इति / श्रोत्रमपि वायवोयमेव तथा च तद्धर्मतावत्वादिपरिग्रहः सम्भवत्येव / श्रवणेति / एवमेवेति शहा निराकरणीयेति शेषः। ग्राह्यजातीयेति / तथा च श्रोत्रस्य कादिमत्त्वेन ययपि विशेषणपदमत्र व्यर्थ सामान्य गुणस्य श्रोत्राग्राह्यतया तमादाय सिद्धसाधनाभावात् / तथापि संख्यादिनार्थान्तरं स्यादेव उक्तप्रमा. णस्य संख्यादिश्रोत्रप्राह्यताविषयत्वेनाप्युपपत्तिरिति विशेषपदम् / ननु धर्म्यग्रहेऽपि धर्मप्रहः शब्दग्रहवत्, स्यादत आह / ध्वनय इत्यादि / सामान्यरूपा इति / गुणे जाति विहाय धर्मान्त मकरन्दः। इत्यत आह श्रवणमात्रेति / श्रवणमात्रबहिरिन्द्रियप्राधेत्यर्थः। श्रोत्रस्य नभस्त्व इति, कादीनां नाभसत्वेऽपि श्रोत्रं वायवीयमिति तद्धर्मतारत्वादिप्रहस्तेन स्यादिति शङ्कानिरासाय इति शेषः / प्रायति / तथा च श्रोत्रस्यापि कादिमत्वे नभस्त्वमिति भावः / यद्यपि श्रोत्रस्य सामान्य. प्रकाशः।