________________ द्वितीयस्तषके ] . शब्दानित्यत्वोपपादनम् / 261 पारात् / न च श्रवणेनैव तद्ग्रहणम् / अवायवीयत्वेन तस्य वायुधर्माग्राहकत्वात् चतुर्वत् तारतारतरत्वादयो वो न वायुधर्माः श्रावणत्वात् कादिवत् / वायु न श्रवणग्राह्यधर्मा मूर्त्तत्वात् पृथिवीवत् / ___ यदि च नैवं, कादीनामपि वायवीयत्वप्रसङ्गः। ततः किम् ? अवयविगुणत्वेsनित्यत्वम् , परमाणुगुणत्वेऽग्रहणम् , यमप्येतदनिष्टं भवतः। अवश्यञ्च श्रवसा बोधनी। व इति / तर्हि श्रोत्रेण गृह्यतामित्यत्राह-न च इति / न ह्यवायवीयस्य श्रोत्रस्य वायुधर्मतारत्वादिग्राहकत्वं संभवति चतुर्वदिति / दृश्यत एव श्रोत्रेण ग्रहणमिति चेत् , तत एव तर्हि न वायुधर्मा इस्याह-तारतारतरत्वादयः इति / तेषामवायवीयत्व एवानुमानान्तरमाह-वायुर्वा इति / ___ तेषां वायुधर्माजीकारेऽनिष्ठप्रसङ्गमाह-यदि च नैवम् इति / श्रोत्रग्राह्याणामेव वायवीयत्वदर्शनादिति भावः / सन्तु कादयो वायवीयाः। उक्तं च-'वायुः शब्दतामापद्यत' इत्याशयेन पृच्छति-ततः किम् इति / उत्तरम्-अवयविगुणत्वे इति / वायुधर्मा भवन्तः कादयः किमव यविनस्तस्य भवेयुः वायुपरमाणो; पूर्वत्र कादीनामनित्यत्वप्रसङ्गः, उत्तरत्रेन्द्रियग्राह्यता न स्यात् तद्गतस्पर्शवदिति / न चैवमस्त्विति वाच्यमित्याह-द्रयम् इति / न परं वायुधर्मत्वे बाधकमा प्रकाशः। गृह्यन्ते इति न गृह्यमाणारोप इत्यर्थः / अग्रहे हेतुमाह स्पर्शादीति / अवायवीयत्वेनेति / श्रोत्रं न वायुमात्रधर्ममात्रग्राहकम् , अवायवीयबहिरिन्द्रियत्वात् चतुर्वदित्यर्थः। अतो न सत्तादव्यत्वप्राहकेण चक्षुषा मनसा वा व्यभिचारः। ' ननु चाप्रयोजकमिदम् / न हि यदिन्द्रियं यद्दव्यजातीयं तत् तजातीयस्यैव धर्म गृह्णाति / तैलसेन चतुषा नीलायप्रहप्रसङ्गात् / न, यदहिरिन्द्रियं यद्विशेषगुणग्राहक तत्तजातीयगुणवदेवेति नियमेन श्रोत्रस्य वायुगुणतारत्वादिग्राहकत्वेतद्गुणवत्त्वप्रसङ्गे वायवीयत्वप्रसङ्गात् / श्रावणत्वात श्रवणमात्रबहिरिन्द्रियप्राद्यत्वादित्यर्थः / तेन न सत्तायां व्यभिचारः / श्रवणग्राह्यति / श्रवण'मात्रप्राह्यधर्मेत्यर्थः / अत्र विपक्षे बाधकमाह-- प्रकाशिका। चंसोत्पत्तावव्याप्तिदोषः। स्वतः प्रामाण्यग्रहस्य पूर्व निरस्तत्वादन्यथा व्याचष्टे / स्वत इतीति / ननु चेति। यद्यपि विशेषव्याप्त्यैवात्रानुमित्तिरिति सामान्यव्याप्तिदूषणमकिंचित्करम् / तथापि विशेषव्याप्तावपि विपक्षबाधकत्वेन सामान्यव्याप्तिरेव वक्तव्येति सैवाशय निरस्तेति भावः। यदहिरि न्द्रियमिति / स्नेहप्राहकचतुषि व्यभिचार इति विशेषपदं तद्वहिरिन्द्रयव्यावस्थापकपरं तजातीयस्वश्च गुणत्वव्याप्यजात्येतिनसंख्यादीनां गुणत्वमादायार्थान्तरत्वम् ।श्रवणमात्रेति / सत्तायां व्यभिचार इति मात्रेति। मनसस्सर्वत्र प्राहकतयाऽप्रसिद्धिरिति बहिरिति। सत्तामादाय बाध इति व्याचष्टे / मकरन्दः / व्यभिचारः। अधिकं शब्दप्रकाशे विपश्चितम् / उत्पत्तेस्तादृशसम्बन्धरूपतया तद्वत्त्वस्य हेतुत्वे व्यर्थविशेष्यत्वमित्यत. आह स्वसमानेति / ननु चेति / यद्यपि सामान्यव्याप्तौ दुष्टायामपि विशेषव्याप्तेरवैकल्यमेव, तथा च किं तन्निरासेन. तथापि विशेषव्याप्तेरेवाप्रयोजकत्वशकायां सामान्यव्याप्तिस्तत्प्रयोजकत्वमाशङ्कय निरस्तेति नोक्तदोषः / यद्बहिरिन्द्रियमिति / ननु स्नेहग्राहकचतुरादौ व्यभिचारो विशेषपदवैयर्थ्यश्चेति चेत् , न, विशेषपदस्यैव बहिरिन्द्रियव्यवस्थापकपरतयोभयदोषनिरासात् / तजातीयत्वश्व गुणत्वव्याप्यजात्या, अतो न सङ्खयादिमत्तयाऽर्थान्तरम् / श्रवणमात्रेति / सत्तायां व्यभिचारवारकं मात्रपदं, बहिःपदश्चाप्रसिद्धिवारकम् / सत्तावत्वाबाध