________________ 260 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलो [1 कारिकाव्याख्यायो स्वरत्वे इत्यत्रान्यत् प्रमाणमस्ति प्रत्यक्षाद्विना! तत्तथैव युज्यते, अन्यस्योपाधेरनुपलम्मान्नियमेन तद्गतत्वेन चोपलम्भादिति चेत्तल्यमेतत् / तथाष्यतीन्द्रियान्यधर्मस्वशङ्का स्यादिति चेदेतदपि ताडगेव / तत् कि यद्गतत्वेन यदुपलभ्यते, तस्यैव स धर्मः / नन्वेवं पीतः शङ्खो, रक्तः स्फटिको, नीलः पट इत्यपि तथा स्यादविशेषात् / न / पीतत्वादीनामन्यधर्मत्वस्थितौ शङ्खादीनां च तद्विरुद्धधर्मवे स्थिते जवाकसमाद्यन्वयव्यतिरेकानविधानाच्च बाधेन भ्रान्तत्वावधारणात . न चेह तारतारतरत्वादेरन्यधर्मवस्थितिः। नाऽपि शकसारिकादिगकाराणां तद्विरुद्धधर्मत्वं, नाष्यन्यस्य तद्धर्मिणोऽन्वयव्यतिरेकावनुविधत्ते / तथापि शङ्का स्थादिति चेत् ? एवमियं सर्वत्र ? तथा च न क्वचित् किञ्चित् कुतश्चित् सिद्धयेत् / न चैतच्छङ्कितुमपि शक्यते / अप्रतोते संस्काराभावात। संस्कारानुपनीतस्य चारोपयित्मशक्यस्वात् / न च ध्वनिधर्मा एव गृह्यन्ते। स्पर्शाद्यनन्तर्भावेण भावेषु त्वगादीनामव्या बोधनी। ह्यवादिषु शैत्यादीमा स्वाभाविकत्वे प्रमाणं नान्यत् , तदिहापि समानं तीब्रोऽयं गकार इति. प्रत्यक्षेण प्रतीतेरिति भावः / शकते-तत्तथा इति / तद् द्रवत्वादि तथैवाबादीनां स्वाभाविकमिति युक्तं, तद्धर्मकस्यान्यस्योपाधेरनुपलम्भादवादिगतत्वेन च शैत्यादीनामुपलम्भादिति / अन्यस्येति शङ्कोपक्रमः प्रत्यक्षेण प्रतीतेरिति केचित् / तदपि तुल्यं तीव्रत्वादीनामित्याह-तुल्यम् इति / ननु मा भूदन्यधर्मत्वेनोपलम्भः तीव्रत्वादीनां, तथाऽप्यतीन्द्रियाणां व्यजकध्वनीनां धर्माः स्युरिति शकावकाशः स्यादित्याह-तथापि इति / तर्हि शैत्यादीनामप्यतीन्द्रियधर्मत्वशका स्यादित्याहएतदपि इति / गूढाभिसंधिः पृच्छति-तकिम् इति / स एवाभिसंधिमुद्घाटयति-ननु इति / तहिं पीतत्वादीनां शलादिगतत्वेनोपलम्भात्तेऽपि तेषां स्वाभाविकाः स्युरिति / न इति / पीतस्वादीनां शङ्खादिधर्मत्वे बाधकमस्ति, न तीब्रत्वादीनां शब्दधर्मत्व इति / यथाहुराचार्या : 'यो ह्यन्यरूपसंवेयः संवेद्येतान्यथा पुनः। स मिथ्या न तु तेनैव यो नित्यमवगम्यते' इति // (श्लो० वा.) ननु बाधकादर्शनेन ते स्वाभाविकाः स्युरिति पीतः शङ्ख इत्यादिषु तद्गतत्वेनोपलम्भस्य भ्रान्तत्वोपलम्भादत्रापि शङ्का स्यादित्यत्राह-तथापि इति / एवम् इति / साधर्म्यमात्रेण शहायामुष्णोऽग्निरित्यादावपि सा स्यादिति / ततः किमित्यत्राह-तथा च इति / क्वचिदपि विशेषाय कुतश्चित्प्रमाणात्कस्यचिद्धर्मिणः कश्विद्धर्म इति न स्यात् / यद्वा, कस्यचित्प्रमातुः किञ्चित्प्रवृत्तिनिवृत्त्यादिकं न सिध्येदिति। तारत्वतारतरत्वादेरन्यत्राननुभूतत्वान्न तद्विषयः संस्कारः, तदभावे च न तेनोपस्थापनं, न च तदनुपनीतस्यास्मृतस्येति यावदन्यत्रारोपः संभवति, तेन भ्रान्तिज्ञानकारणाभावात् तीव्रत्वादिप्रत्ययानां भ्रान्तत्वशङ्काऽपि न युक्तत्याह-न च इति / न च ध्वनिधर्मत्वेन तेषामस्त्यनुभव इति युक्तं वक्तम् , तद्धर्मत्वे तेषामग्रहणस्यैव प्रसङ्गादित्याह-न च ध्वनिधर्माः इति / स्पर्शादिनियतविषयाणि त्वगादीन्द्रियाणि, न च तीव्रत्वादेः स्पर्शादिष्वन्तर्भा प्रकाशः। त्यर्थः / अन्यधर्मत्वस्थितिः, शब्दं विहायेति शेषः / तद्विरुद्धर्मत्वं तीव्रत्वादिविरुद्धधर्मत्वम् / तदुर्मिणः =तीव्रत्वादिधर्मिणः / चार्वाकमतमालम्ब्याह-तथापोति / मीमांसकस्य तन्मतावलम्बनेऽनुमानप्रामाण्यस्वीकारे व्याघात इत्याह एवमिति / न च शकाऽपि तत्र सम्भवतीत्याहन चैतदिति / ननु ध्वनिधर्मास्तारत्वादयो गृह्यमाणा एव शब्द भारोप्यन्ते. न मर्यः माणा इत्यत आहन चेति / ध्वनयो वायवीया एवेति तेषान्त्वगादिभिरग्रहे तद्धर्मास्तारत्वादयो न