________________ द्वितीयस्तवके] शब्दानित्यत्वोपपादनम् / 259 एवं स्थिते अनुमानमप्युच्यते / शब्दोऽनित्यः उत्पत्तिधर्मकत्याद् घटवत् / न चेदं, प्रत्यभिज्ञानबाधितम् / तस्य ज्वालादिप्रत्यभिज्ञानेनाऽविशेषात् / नैवमबाधितस्य तस्य स्वतः प्रमाणत्वादिति चेत्तल्यम् / ज्वालायां तन्नास्ति, विरुद्धधर्माध्यासेन बाधितत्वात् , अन्यथा वेदव्यवहारविलोपप्रसङ्गो निमित्ताभावात् , अाकस्मिकत्वे वो अतिप्रसङ्ग इति चेत् तुल्यम् ? / शब्देऽपि तीव्रतीव्रतरत्वमन्दमन्दतरत्वादेर्भा वात् तदिह न स्वाभाविकमिति चेन्न / स्वाभाविकत्वावधारणन्यायस्य तत्र तत्र सिद्धस्यात्रापि तुल्यत्वात् / न हपां शैत्यद्रवत्वे स्वाभाविके तेजसो वा औष्ण्यभा. बोधनी। एवं प्रध्वंसस्य प्रत्यक्षत्वात्प्रध्वंसाभावोपलक्षितवस्तुलक्षणमनित्यत्वं प्रत्यक्षसिद्धमेवेति व्यवस्थिते तत्रानुमानमस्तीत्याह-एवम इति / ननु स एवायं गकार इति प्रत्यभिज्ञानेन पूर्वापरकालयोः स्थिरत्वं "तावत्कालं स्थितं चैनं कः पञ्चानाशयिष्यती"ति न्यायानित्यत्वमपि सेत्स्यति / तेनानित्यत्वानुमानं बाधितविषयं स्यादित्याह-न चेदम् इति / ननु शब्दप्रत्यभिज्ञानस्याबाधितत्वात्स्व. तः प्रामाण्याच्च न भ्रान्तत्वमित्याह-नवम् इति। तदेतदुभयं ज्वालाप्रत्यभिज्ञानेऽपि तुल्यमित्या ह-तुल्यम् इति। ननुज्वालाप्रत्यमिज्ञानेऽपि तदबाधितत्वं नास्ति, अपचयोपचयलक्षणविरुद्धधर्माध्य. स्तविषयत्वादित्याह-ज्वालायाम इति / अन्यथा इति। यदि विरुद्धधर्माध्यस्तं स्यादिति। ततश्च भेदप्राहि विरुद्धधर्म संसर्गप्राहिणा प्रत्यक्षेणानन्यथासिद्धेन प्रत्यभिज्ञानमन्यथासिद्ध बाध्यत इति चोद्याभिप्रायः / तदेतद्विरुद्धधर्माध्यस्तविषयत्वं शब्दप्रत्यभिज्ञानेऽपि तुल्यमित्याह-तुल्यम् इति / कुत इत्याह-शब्देऽपि इति / ननु तीव्रादिकमिह शब्दे न स्वाभाविकं व्यञ्जकध्वनिधर्मस्यैव तस्य शब्द आरोप्यमाणत्वादित्याह-तदिह इति / न इति / यदि हि यतः कुतचिन्न्यायाधस्य कस्य चिधर्मस्य यं कंचिद्धर्मिणं प्रति स्वाभाविकत्वमवधार्येत तर्हि तेनैव न्यायेन तीव्रत्वादीनामपिशब्द प्रति स्वाभाविकत्वमवधार्यतामिति तमेव न्यायमाह-न हि इति / तद्धर्मसामानाधिकरण्येन प्रत्यक्षमेव प्रकाशः। प्राह्यत्वात् पटकस्वपरिमाणवदिति प्रतिनियतव्याकव्यङ्गयत्वानुपपत्या वायोजककत्वनिरासात् / एवमिति / प्रत्यक्षेणानित्यत्वे साधित इत्यर्थः / उत्पत्तिमत्त्वात् , स्वसमानकालीनप्रतियोगिवसानाधारक्षणाधारत्वादित्यर्थः / भावत्वेन विशेषणान्न ध्वंसेन व्यभिचारः / न चेदमिति / यद्यपि स एवायं गकार इयि प्रत्यभिज्ञानं नित्यत्वं न गोचरयति किन्त्वभेदमात्रं, तथापि नाशकत्वामिभतशब्दानन्तरमपि शब्दं गोचरयद् नित्यतायामेव पर्यवस्यति, श्राश्रयनाशस्याभावादिति भावः / स्वत इति / स्वयमप्रामाण्यशकाविरहादित्यर्थः / विरुद्धेति / परिमाणभेदाभ्यासेने प्रकाशिका। भिचारिप्रमापकप्रामाण्येनेति साध्यार्थः / तेन एकत्वद्वित्वभ्रमजनकेन परिमाणग्राहिणा परिमाणभ्रमजनकेन कत्वप्राहिणा च न व्यभिचारः, न चे क्रमोत्पन्नगन्धाभ्यां ग्यभिचारः, एककालीनत्वस्य साध्ये प्रतियोगिविशेषणत्वात् , हेतावेव एकावच्छेदस्य देशकालोभयपरत्वाद्वा / न च प्रागभावमादाय बाधा तदन्यत्वेन व्यञ्जकविशेषणात् / समानदेशत्वञ्च समवायिनमादाय, तेन पटैकत्वपरिमाणाभावयोर्न व्यभिचारः / तेन पटान्योन्याभावपटत्वात्यन्ताभावयोर्न व्यभिचार इति केचित् / वस्तुतः पटत्वात्यन्ताभावग्रहकाले पटान्योन्याभावोऽपि गृह्यत एवेति साध्यमेव तति पूर्वमेवोक्तं पृथकूत्वप्रहकाले च दीर्घत्वं गृह्यत एवावधेस्तवृत्तिजातिग्रहे प्रयोजकत्वादिति न तत्र व्यभिचारः। न च स्वमते सर्वशब्दानां समानदेशत्वेन सिद्धमेवेति वाच्यम् / वर्णा यदि प्रतिनियतव्यजकव्यज्ञाः स्युरेकावच्छेदेन समानदेशत्वे सति समानेन्द्रियग्राह्या न स्युरिति परं प्रत्यनिष्ठापादने तात्पर्यादित्यन्यत्र विस्तरः। उत्पत्तिपदेनात्र विशिष्टक्षण एवोक्त इति न मतुवर्थसम्बन्धरूपविशेष्यवयर्यमित्याशयेन व्याचष्टे / स्वसमानेति / हेतुप्रविष्टोत्पत्तेश्च निर्वचनमिदमिति न चरम