________________ 250 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जली [ 1 कारिकाव्याख्यावा प्रकाशः। एतेनेति / प्रतियोगियोग्यतामात्रनिरूप्यत्वेन / व्याख्याता, प्रत्यक्षतथा। एतच संसर्गा भावविषयम् / अन्योन्याभावस्यायोग्यप्रतियोगिकस्य प्रत्यक्षत्वात् / कथमन्यथा स्तम्भः पिशाचो नेति धीः प्रत्यक्षा।प्रतियोगिसत्त्वविरोधिन एवानुपलम्भस्याभावप्रत्यक्षतायां तन्त्रस्वात् / यदि हि स्तम्भः पिशाचः स्यात् स्तम्भात्मकतयोपलभ्येतेति न पिशाचानुपलम्भः स्यात् / ननु शब्दाभावो न योग्यानुपलम्भग्राह्यः / तत्तद्वथाप्येतरतदुपलम्भकस्य वायोस्तत्राभावात् / तथा च सत एव शब्दस्य व्यजकवायुविरहादनुपलब्धिमात्रं, न तु ध्वंसग्रहः / विनष्टधीरपि व्यजकवायुध्वंसोपाधिकैव / अत एव यत्र यस्य सत्वमनुपलब्धिविरोधि,तस्याभावस्तत्र गृह्यत इति योग्यानुपलब्ध्यर्थ इति पक्षेऽपि न शब्दाभावोऽध्यक्षः / व्यजकाभावेन सतोऽपि शब्दस्योपलधेरभावात् / नैवम् / वर्णा न प्रतिनियतव्यचकव्यायाः, एकावच्छेदेन समानदेशत्वे सति समानेन्द्रिय. प्रकाशिका। व्यभिचारात्तेजःपदमग्निपरमित्याह-अग्निरिति / एतश्चेति / निरुक्तानपलब्धेः सहकारिण्या अविशेषेऽपि संसर्गाभावग्रहे प्रतियोगियोग्यत्वं स्वरूपयोग्यता, अन्योन्याभावप्रहे स्वधिकरणयोग्यता तथेति मनसिकृत्वेदमुक्तम् / वस्तुतो निरुक्तानुपलब्धिः सहकारिणी उपलम्भापादकसत्वप्रतियोगि प्रतियोगिकत्वमेव स्वरूपयोग्यतेति पिशाचान्योन्याभाववत् पिशाचत्वात्यन्ताभावो रूपात्यन्ताभाववद्रुपान्योन्याभावः प्रत्यक्ष इति रहस्यम् / ननूक्तधीः प्रत्यक्षेत्यत्रैव किं मानमत आह-प्रतियाँगिसस्वेति / स्तम्भात्मकतयेति हेतौ तृतीया न तु प्रकारे, इष्टापत्तेः प्रकृतानुपयोगाच, तथा च स्तम्भो यदि पिशाचत्वजातिमान् स्यात् तद्वत्तयोपलभ्येत अत्र हेतुः स्तम्भात्मकतयेति / पिशाचस्येति शेषः। तेन योग्यव्यक्तिवृत्तित्व तथा सति पिशाचस्य स्यादिति मूलसूचितं सूचितम् / न च पिशाचत्वप्रकारकप्रत्यक्षविषयत्वमापायम् तच्चाप्रसिद्भमिति वाच्यम्। पिशाचत्वं यदि स्तम्भ. त्तिजातिः स्यात् स्तम्भविशेष्यकप्रत्यक्षप्रकारः स्यादित्यस्य प्रकृते आपादनशरीरत्वात् व्यजकत्वं वायोः सामान्यत एव वर्णान् प्रति तत्तदवायोस्तत्तद्वर्ण प्रति वा, आधे ककाराभिव्यक्तिकाले गकाराभिव्यक्तिप्रसक्तिः, अन्त्ये वाह वर्णा इति / परस्परप्रमाप्रतिवन्धकासहकृतपरस्परव्य मकरन्दः। तेजोऽन्तरे व्यभिचारात्तेजःपदमग्निपरमित्याह अग्निरिति / यदि हीति / यद्यपि यथाश्रुते इष्टापत्तिा, न च पिशाचो यदि स्तम्भात्मा स्यादिति विवक्षितमिति वाच्यम् , अधिकरणे प्रतियोगिसत्वस्य तर्कविषयत्वाभ्युपगमात् , तथाऽपि स्तम्भो यदि पिशाचात्मा स्यात् पिशाचा. स्मतया प्रमाविषयः स्यादित्यत्र तात्पर्य्यम् / ननु वायोयंजकत्वे सर्वशब्दोपलब्धिः स्यात् , यदि च कार्ये प्रतिनियतजनकजन्यस्ववत् शब्देऽपि प्रतिनियतव्यजकव्या यत्वमिति ब्रूयात् , तत्राह-वर्णा नेति / अत्र प्रतिनियतव्यजकव्यङ्गयत्वं दोषाभावे सति परस्परविलक्षणपरस्परसा. क्षात्कारहेतुकज्ञानविषयत्वं तदभावः साध्यः। तेनैकत्वद्वित्वभ्रमजनकेन परिमाणप्राहिणा, परिमाण. भ्रमजनकेनैकत्वमाहिणा च न व्यभिचारः / न चैवमप्येकाधिकरणकक्रमिकगन्धादिभिर्व्यभिचारः, एककालावस्थायित्वे सतीत्यपि साध्ये प्रतियोगिविशेषणत्वात् / के चित्तु अबच्छेदकं देशकालसा. धारणं, तथा चान्यूनानतिरिक्तदेशकालत्वे सतीति सत्यन्ततात्पर्यम् , अतो हेतोरेव तत्रागमनान व्यभिचारः / न चैवं स्वमतेऽसिद्धिः, वर्णानां क्रमिकोत्पादत्वेनाव्याप्यवृत्तितया च तुल्यदेशकालत्वाभावादिति वाच्यम् / परमतेन कृतत्वादित्येके। कर्णावच्छेदेनैकदाऽपि नानावोत्पादसम्भवेन तत्तवर्णविशेषाणामेव पक्षत्वमित्यपरे / ननु तत्तवर्णप्रागभावत्वादिकश्च प्रतिनियतव्यजकमादाय बाध इति चेत् , न, तदन्यत्वेनापि साक्षात्कारहेतुविशेषणात् / इतरनिरूपणानधौननिरूपणत्वे सतीत्यपि हेतुविशेषणं, तेन घटान्योन्याभावपटत्वात्यन्ताभावयोः पृथक्त्वदीर्घत्वयोर्षा न