________________ द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् / तासामनिरूपणात् / नाऽप्यन्यत्र गमनाभावादिना पारिशेष्यादनुमेयः। हेतोरेव निरूपयितुमशक्यत्वात् / श्राश्रयानुपलब्धेः। नापि निमित्तविनाशात् सर्वमिदमेकवारेण सेत्स्यतीति युक्तम् / तस्यानकान्तिकत्वात् / तेजसा विशेषितत्वादयमदोष इति चेन्न / व्याप्त्यसिद्धः। न हीन्धनविनाशात्तेजोद्रव्यमवश्यं विनश्यतीति क्वचित् सिद्ध, प्रत्यक्षवृत्तेरनभ्युपगमात् / तस्माद् यत्त्यागेनाऽन्यत्र गमनं न सम्भाव्यते, तेन निमित्तादिनाऽपि देशेन प्रध्वंसो निरूप्यत इत्यकामेनापि स्वीकरणीयम् / गत्यन्तराभावात् / अत एव तमसः प्रत्यक्षत्वेऽष्यभावत्वमामनन्त्याचार्याः। एतेन शब्दप्रागभावो व्याख्यातः / बोधनी। रोधाजस्यानुपलभ्यमानस्य वढेविनाशपरिशेषादमुमानती विनाशः सिध्येदित्याशझ्याह-नापि इति / गमनायभावस्य हेतोरप्यभावात्मकत्वादिति / निमित्तकारणस्य काष्टादेविनाशे न तत्कार्यस्य वहेस्तदवयवानां च विनाशोऽनुमीयत इत्यत्राह-नापि इति / न हि निमित्तस्य दण्डचक्रादेविनाशे घटादिकार्यविनाशो दृश्यत इति / नन मा भूदन्यत्र, अस्ति तेजोनिमित्ताभावस्य कार्याभावव्या. प्तिरित्याह-तेजसा इति / अथापिं व्याप्तहिकप्रमाणाभावादसिद्धिरित्याह-न इति / तामेव दर्शयति-न हि इति / अतीन्द्रियाधारे तेजोविनाशे प्रत्यक्षप्रवृत्यनभ्युपगमात् तेन सह दुर्ग्रहा व्याप्तिरित्युपसंहरति-तस्मात् इति / गत्यन्तरस्य-आश्रयनिरूप्यत्वलक्षणस्याभावादिति / अत्राचार्यसम्मतिं दर्शयति-अत एव इति / यत एवाभावप्रत्यक्षस्याधिकरणप्रत्यक्षतायां निर्बन्धी नास्ति अत एव / यदि हि तस्य निर्बन्धः स्यात्तदा भाऽभावस्य तमसस्तेजोऽवयवाश्रयत्वात् तेषां चाप्रत्यक्षत्वादप्रत्यक्षता स्यादिति / एतेन प्रध्वंसप्रत्यक्षताप्रतिपादनेन शब्दप्रागभावोऽपि प्रत्यक्ष इति सिद्धमेवेत्याह-एतेन इति / व्युत्पादयति न हीति / हेतोरेवेति / अनुपलभ्यमानत्वादित्यस्य हेतोरभावाश्रयाप्रसिद्धर— पक्षधर्मतया येन रूपेण हेतुत्वं तेनानिरूपणादित्यर्थः / नाऽपीति / वह्निनिमित्तेन्धननाशस्यप्रत्यक्षत्वात् ततोऽन्यत्र प्रतियोगिगमनाभावस्तत्प्रध्वंसवेति सर्वमित्यर्थः। तस्येति / निमित्तनाशेऽपि नैमित्तिकानामनाशादित्यर्थः। तेजसेति / निमित्तनाशे अग्मिनश्यतीति व्याप्तेरित्यर्थः / गमनं, प्रतियोगिनः / निमित्तादिनेति / अत एव यत्र कपालादिपरम्परानाशादू घटनाशस्तत्रापीह भूतले घटो नास्तीति धीः समर्थिता / अत पवेति / यत एव निमित्तादिनाऽपि देशे ध्वंसनिरूपणमित्यर्थः / अन्यथाऽऽलोकावयवानामनिरूपणात्तदवयवविनाशात्मकं तमो न प्रत्यक्षं त्यादिति भावः। प्रकाशिका। स्मरणरूपाश्रयनिरूपणेनाप्यभावनिरूपणादित्यर्थः / अनुपलभ्यमानत्वादित्यस्येति / अन्यत्र गम.. नाभावे सत्यनुपलभ्यमानत्वेन हेतुना ध्वंसोऽनुमेयः, तत्र च विशेष्यमाश्रयवृत्तित्वेन च निरूपयितु. मशक्यमित्यर्थः / इदमुपलक्षणम् / गमनाभावरूपं विशेषगमपि तथेत्यपि द्रष्टव्यम्। सुवर्णादितेजसि मकरन्दः / पीति / स्मरणरूपाश्रयनिरूपणेनाप्यभावप्रतीतेरित्यर्थः / अन्यत्र गमनाभावे सत्यनुपलभ्य. मानत्वादनुमेयस्तत्राह-अनुपलभ्यमानत्वादित्यस्येति / गमनाभावस्येत्यपि द्रष्टव्यम् / टिप्पणी। आश्रयासिद्धेरिति / अनुमेयाभावपक्षीभूतवन्हे शेनाविद्यमानत्वाज ज्ञानासम्भवादित्यर्थः / येन रूपेण हेतुत्वमिति / हेतोः पक्षधर्मतयैव हेतुत्वम् / तेन पक्षधर्मत्वेनेत्यर्थः / पक्षस्यैवाग्रहात् / 33 न्या० कुछ प्रकाशः।