________________ 256 ज्वाल्यानयोपेतप्रकाशबोधनीयुते न्यावकुसुमाजलौ [ 1 कारिकाव्याख्वाबो एतेन "सद्भयामभावो निरूप्यते"-इत्यादिशास्त्रविरोधः परिहतो वेदितव्यः / उभयनिरूपणीयप्रतियोगिविषयत्वादनुमानविषयत्वाच्च / अन्यथा, आश्रयासिद्धिप्रसङ्गात् / तत्रापि न ग्रहणे नियमो, ज्ञानमात्रन्तु विवक्षितम् , तावन्मात्रस्येव तदुपयोगात् ,क्वचिद् ग्रहणस्य सामग्रीसम्पातायातत्वाद् / यदिचाधिकरणग्रहे शास्त्रस्य निर्भरः स्याद्, “वह्न ह्यविनाश्यानुविनाशवत्तद्विनाश" (न्या० 4 अ०१ श्रा० 27 सू०) इति नोदाहरेत् , असिद्धत्वात् / न हि वह्निविनाशस्तदवयवपरम्परास्वेव निरूप्यः / बोधनी। पादयता शास्त्रेण विरोधः स्यादित्यत्राह-एतेन इति / प्रतियोगिनिरूप्यत्वाभ्युपगमेन इति / कथमेतेनास्य परिहार इत्यत्राह-उभय इति / यस्याभावस्य प्रतियोगी भावद्वयनिरूप्यः यथा संयोगः, तदभावः सद्भ्यां संयोगिभ्यां निरूप्यते तद्विषयं शास्त्रमिति अनुमेयाभावविषयं वा शास्त्रमित्याह-अनुमाने इति / किं तत्राधारोऽपि निरूपणीय एवेत्याह-अन्यथा इति / यत्राप्यधिकरणनिरूप्यत्वं तत्रापि न तस्य प्रत्यक्षत्वेनोपयोग इत्याह-तत्रापि इति / नन्विह भूतले घटो नास्तीत्यत्राश्रयः प्रत्यक्षेणैव गृह्यत इत्यत्राह-क्वचित् इति / तत्राश्रयप्रत्यक्षग्रहणसामग्रथा अभावग्रहणसामप्रया सह संनिधानात् तत्प्रत्यक्षत्वं, न त्वभावज्ञानाङ्गतयेति / कथमविशेषप्रवृत्तस्य शास्त्र. स्यैतद्विषयत्वमवगम्यत इत्यत्राह-यदि च इति / सूत्रकारो हि सर्वमनित्यमित्युक्ते तदनित्थस्वं नित्यमनित्यं वा नित्यं चेत्सर्वानित्यता न स्यात् अनित्यस्वैव नित्यत्वात् / अथानित्यं तथापि सर्वानित्यता न स्यात् / जनित्यस्यैव विनाशे सर्व नित्यताप्रसङ्गादिति चोयं परिहरनाह 'तदनित्यत्वं वहेर्दाह्य विनाश्यानुविनाशवत् तद्विनाशः' (न्या. सू. 4.1.27 ) इति / अत्र हि यथाऽग्निर्दाछ काष्ठादि नाशयित्वा पश्चात्स्वयमपि विनश्यति, न च तदा काष्टादिकमुपजीवति, एवं सर्वानित्यत्वमपि सर्व विनाश्य स्वयमपि विनश्यति न च सर्वनित्यता स्यादिति / वह्निविनाश उदाहियते तन्नोपषयते यद्यभावस्याश्रयनिरूप्यत्वं भवेदिति / कुंत इत्यत आह-असित्यादि इति / वह्निविनाशस्याश्रयानिरूपणेनासिद्धत्वादिति / तदेवाह-न हि इति / नन्वसंभवद्देशान्तरगमनति. प्रकाशः। प्रामाणिकत्वाच्छास्त्रस्य विशेषविषयत्वात् तद्विरोधोऽपि नास्तीत्याह एतेनेति / सद्भयां = प्रतियोग्यधिकरणाभ्याम् / विशेषविषयत्वमाह उभयेति / उभाभ्यां संयोगिभ्यां संयोगो निरूप्यते इति तदभावोऽपि तथेत्ययः। अनुमानेति / यत्र व्यापकाभावेन ब्याप्याभावोऽनुमीयते, तत्रा. श्रयग्रह उपयुज्यते इत्यर्थः। अन्यथेति / तत्राश्रयाग्रहादित्यर्थः / तत्रापीति / उभयनिरू या. तियोगिविषयेऽपि नानुभवनियमः। स्मरणेनाप्याश्रयनिरूपणाल्लाघवाचेत्यर्थः। यत्तु क्वचिदघटं भूतलमित्यत्र ग्रहणनियमः, सोऽन्यथासिद्ध इत्याह क्वचिदिति / आश्रयग्रहणनियमच न सूत्रकारस्यापि सम्मत इत्याह यदि चेति / दृष्टान्तत्य वह्निनाशस्याज्ञानादित्यर्थः / असिद्धस्वमेव प्रकाशिका। मित्यर्थः। तथा चांशूनामपि परम्परासम्बन्धेन गुणायाश्रयतया तद्ध्वंसदेशत्वमपीति भावः। शास्त्र स्येति। यद्यपि निरधिकरणा नाऽभावप्रतीतिरित्यनुपदमेवोक्तमिति न शास्त्रविरोधशङ्का,तथापि अधिकरणपदस्य प्रतियोगिसमवायिपरत्वेऽपि न विरोधः,विशेषविषयत्वाच्छास्त्रस्येत्यर्थः स्मरणेनापीति। मकरन्दः / भावः / शास्त्रस्येति / यद्यपि निरधिकरणाऽभावातीत्यनभ्युपगमे विरोधशङ्खव नास्ति, तथाप्यधिकरणपदस्य प्रतियोगिसमवायिपरत्वेऽपि न विरोधो विशेषविषयत्वादित्याशयः। स्मरणेना टिप्पणी। के / स्वजन्यपटध्वंसासिद्धथा साध्यप्रसिद्धयभावाद् व्याप्त्यग्रहाद्धेतोरसिद्धिरित्यन्ये /