________________ .द्वितीयस्तव ] शब्दानित्यत्वोपपादनम् / 255 होयम् / तस्यातद्देशत्वात् / श्राश्रयावच्छेदकतया तेषामपि अदूरविप्रकर्षेण तद्देशस्वम् ; एवम्भूतेनापि देशेन तन्निरूपणं, योग्यताया अव्यभिचारादिति चेत् / न तहि प्रतियोगिसमवायिदेशेनैव प्रध्वंसनिरूपणमिति नियमः, प्रकारान्तरेणापि निरूपणात् / तस्माद् यस्य यावती ग्रहणसामग्री तं विहाय तस्यां सत्यां तदभावो यत्र क्वचिनिरूप्यो देशे काले वा। इयांस्तु विशेषः / सा सती चेत् , प्रत्यक्षेण, असत्येव ज्ञाता चेत् , अनुमानादिनेति स्थितिः। बोधनी। इति / शङ्कते- श्राश्रय इति / अयमर्थः / गुणकर्मणोः पटस्य चाश्रयं पटं तन्तूध प्रति परम्परया साक्षाश्चांशवः कारणं, तैरेवारब्धैस्तन्तुभिरारब्धः पट इति / एवं पटायवच्छेदका अंशव इति तेषामप्यदूरविप्रकर्षण गुणानामप्यभावदेशत्वमस्ति, तस्मादेवभूतेन व्यवहितेनापि देशेनाभावो निरूपणीयः व्यवहितस्यापीहशस्याभावनिरूपणे योग्यताव्याप्तः। न हि संभवति तन्तुप्रध्वंसवन्तोऽशव इवि पटाभावस्तदाश्रयगुणायभावो वा नास्तीति / न तर्हि इति / तेन शब्ददेशस्याप्रत्यक्षत्वेऽपि शब्दप्रध्वंसप्रत्यक्षोपपत्तिरिति / किंनिरूप्यस्तीत्याशङ्कामपनुदन्नुपसंहरांत-तस्मात् इति / यस्य भावस्य या प्रहणसामग्री तं भावं तदविनाभूतमपि संनिकर्ष विहाय तस्यां सत्यां तस्व भावस्याभावो यत्कचिन्निरूप्युः न त्वधिकरण एवेति नियमः भावस्यात्मापि प्रत्यक्षसामप्रथे. कदेश इति तं बिहाय-इत्युक्तम्-इति / ___ ययतीन्द्रियाधारेऽप्यभावः प्रत्यक्षः, कस्तर्हि प्रत्यक्षाप्रत्यक्षव्यवस्थाहेतुरित्यत्राह-इयांस्तु इति / येयमभावग्रहणसामग्री सा विद्यमाना चेत् प्रत्यक्षेण निरूप्यः इह धटो नास्तीति / अत्र हि प्रतियोगिस्मरणं तदनुपलब्धिरालोकादिसहकृतेन्द्रियव्यापारादयो विद्यन्ते सा तु सामग्रघसती ज्ञाय. माना चेदनुमानेन / प्राक्तनाभावप्रतीतौ नेदानीमिन्द्रियव्यापारादयो विद्यन्ते किं तु प्राक्तना एवानुसंधीयन्त इति / यदि ह्याधारनिरूप्यो न स्यात् ताधारप्रतियोगिभ्यां निरूप्योऽभाव इति प्रति प्रकाशः। शकते अनन्येति / अत्रापि बाध इत्यभिप्रेत्य परिहरति तथापीति / तस्येति / पटध्वंस स्यांश्वनाधारत्वादित्यर्थः। श्राश्रयेति / गुणक्रियावत्पटाश्रयतन्त्ववच्छेदकानामशूनामपि गुणा. दिदेशत्वमित्यर्थः / तं विहायेति / तं प्रतियोगिनम् , तद्वाप्यञ्चेति द्रष्टव्यम् / शब्दस्य तु नाश्रयग्रहान्तर्भावेण ग्रहणसामग्री, येन तदप्रहे न गृह्मतेति भावः / यत्रेति / एतेन निरधिकरणाऽ भावधीरिति सत्यं, किन्तु प्रतियोगिसमवायिदेशनिरूप्यतानियमो नास्तीत्युक्तम् / / नन्वेवं प्रान्नास्तितायामप्यनुपलम्भानुमानं न स्यादित्यत पाह. इयांस्त्विति / प्रत्यक्षसामग्रथाः सतीत्वं = योग्यानुपलम्भसहकृतत्वम् / यत्र तु प्राङ्नास्तितादावाधारेन्द्रियसन्निकर्षाभावात् तदभावस्तत्रासती,ज्ञाता चेदनुमानेन, स्मरणार्हस्याऽस्मरणादिना / आदिग्रहणादाप्तोपदेशेनापीत्यर्थः / स्थितिः = व्यवस्थितिः।। प्रकाशिका। विशेषणानां पटादीनामित्यर्थकत्वेन प्रकृते तदविरोधात् / प्रकाशे तु विशेष्यविशेषणपदयोर्व्यत्यासेना. न्वय इति साम्प्रदायिकाः। मूलेऽनन्यगतिकत्वकीर्तनं तन्त्वाधारांशुपक्षीकरणाभिप्रायेण द्रष्टव्यम् / पटध्वंसस्येत्युपलक्षणम् / गुणादिध्वंसस्येत्यपि द्रष्टव्यम्। तन्त्ववच्छेदकानामिति / तन्त्वाश्रथाणा मकरन्द: धारेति वक्तुमर्हति, तथापि पटनिष्ठयोरपि गुणक्रिययोः परम्परया तन्तुविशेषणत्वमित्यभिप्रायेण तथोक्तम् / पटध्वंसस्येत्युपलक्षणं, गुगादिध्वंसस्येत्यपि द्रष्टव्यम् / तन्त्ववच्छेदकानामिति / तन्त्वाश्रयाणामित्यर्थः / तथा च परम्परासम्बन्धेन तेषां गुणादिदेशत्वात्तद्ध्वंशदेशत्वमपीति