________________ प्रकाशः। 254 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलो [ 1 कारिकाव्याख्यायो प्रसाधने च पटप्रध्वंसासिद्धः। तस्य नाशानाशयोः समानत्वात् / अनन्यगतिकतया विशिष्टनिषेधे कृते विशेषणानामष्यभावः प्रतीतो भवति / गुणक्रियावत्पटाधारास्तन्तवो न सन्ति स्वावयवेष्विति हि प्रत्यय इति चेत् तथापि गुणकर्मणां पटस्य च प्रध्वंसः किमधिकरणः प्रतीयते इति वक्तव्यम् / अंश्वधिकरण एवेति चेद्, भ्रान्तिस्त बोधनी। साधिते तन्तुपटविशेषणानां पटगुणादीनां अवस्थानासंभवादभावः सिध्यतीत्याह-अनन्य इति / निषेधप्रतीतिरपि हि लौकिकानां विशिष्टविषयेत्याह-गुणक्रियावत् इति / एवमपि गुणकर्मणोरभावाधिकरणस्य पटस्य तदभावाधिकरणस्य च तन्तूनां तदानीमभावादधिकरणनिरूप्याभाववादिनो नायं प्रत्यय उपपघत इत्याह-तथापि इति / अधिकरणमाशङ्कते-अंशु इति / तर्हि तस्य पटादिप्रध्वंसस्यांश्वधिकरणत्वाभावात्तदधिफरणत्वेन प्रतीति_न्तिरेव स्यादित्याह-भ्रान्तिस्तर्हि तेऽशवः पटध्वंससमानकालस्वजन्यतन्तुध्वंसवन्तस्तद्वत्तयाऽनुपलभ्यमानत्वादित्यनुमानं स्यात् / अत्र, यदा कदा चित् समानकालत्वविवक्षायामिदानी नष्टः पट इति प्रतीत्यनुपपत्तिः / अथे. दानी तथात्वं विवक्षितं, तदा हेतोरसिद्धिरित्येके / यत्र परस्परादिनोपलभ्यते तत्र कथमनुमान मित्यन्ये। ननु यत्र विशिष्टनिषेधे विशेष्यासिद्धौ मानं, तत्रैव तस्य विशेषणमात्रनिषेधपर्यवसायि. त्वम् , प्रकृते चातयात्वाद् गुणक्रियावत्पटाधारतन्तुनिषेधे गुणकर्मपटानामपि निषेधः स्यादिति प्रकाशिका। स्पटध्वंसेनान्तरवारणाय स्वजन्यपदस्य पटविशेषणत्वात् स्वपदश्च तन्तुपरम् , अंशुषरमेव वा, जन्यपदस्य प्रयोज्यपरत्वात् / असिद्धिरित्येक इति / यद्यपि स्वरूपासिद्धिरसम्भाविनी, तथापि व्याप्यत्वासिद्धिरिह विवक्षिता सा च पटध्वंससमानकालीनत्वस्य गौरवेण व्यापकतानवच्छेकत्वाद्वा आकाशादौ व्यभिचाराद् वा / न चांशुत्वमपि विशेषणं हेतौ प्रवेश्यमितिनोक्तव्यभिचार इति वाच्यम् / तथाप्यनारमाटांशुषु व्यभिचारात / केचित्तु एतत्कालीनप्रकृतपटध्वंसस्य साध्यविशेषणस्याप्रसिद्धः साध्याप्रसिद्धिरित्यज्ञानरूपव्याप्यत्वासिद्धौ तात्पर्यमित्याहुः। वस्तुतो यथा कथञ्चिल्लिङ्गज्ञानं कल्पयित्वा यद्युक्ताभावप्रतीतेरानुमानिकत्वं तदा सर्वाभावप्रतीतीनामानुमानिकत्वं स्यादिति दूषणं द्रष्टव्यम् / तचाव्यवधानेनैव पूर्व प्रकाशकृतोक्तम्, 'एवं सतीत्यादिना / ननु यत्र विशिष्टेति / नन्विदं प्रकृ. तानुपयुक्तंपटरूपविशेषणनिषेघसिद्धेरिहोद्देश्यत्वात् , मूलविरुद्धश्च विशेषणानामप्यभावः प्रतीयत इति मूलदर्शनादिति चेत् / न / गुणक्रिययोः पट एव अत्र विशेष्य इति गुणक्रियाविरहमात्रपर्यवसायितैव निरुक्तप्रतीतेः स्यादित्याशङ्कानिराकरणपरतया प्रकाशोपपत्तेः 'विशेषणाना'मिति मूलस्य तन्तु मकरन्दः। यद्यपि स्वजन्यत्वपदं व्यर्थं यत्किश्चित्पटसमानकालतन्तुध्वंसवत्तयाऽर्थान्तरश्च, तथापि स्वजन्यत्वपदं स्वप्रयोज्यत्वपरं पटविशेषणमेव बोध्यमिति नोक्तदोषः / हेतोरसिद्धिरिति / व्यापकेऽपि व्यर्थविशेषणत्वमिति मते व्याप्यत्वासिद्धिरित्येके / आकाशादौ ब्यभिचारेण सेत्यन्ये / साध्याप्रसिद्धया अज्ञानरूपाऽसिद्धिरित्यपरे। विशेयसिद्धाविति / विशेषणसिद्धाविति युक्तः पाठः। एवं विशेषणमात्रनिषेधेत्यत्र विशेष्यमात्रनिषेधेति। गुणक्रियावदिति / यद्यपि गुणक्रिया पटा टिप्पणी। पटध्वंससमानकालीनस्वजन्येति / स्वजन्यपटध्वंससमानकालीनतन्तुध्वंसवन्त इति साध्यम् / लेखकपरम्पराप्रमादादेवं पाठः / यथाश्रुते स्वजन्येत्यस्य वैयर्थ्यात् विवक्षितैसा धनीयाऽऽश्रयनाशजन्यपटध्वंसकालीनतन्तुध्वंसातिरिक्तस्य तन्त्वन्तरजन्यपटध्वंसकालीनतन्तुध्वंसेनायोन्तरवारणाय सार्थकम् / असिद्धिरित्येक इति / व्याप्यत्वासिद्धिः, गौरवेण पटध्वंसकाली नत्वघटितस्य व्यापकतानच्छेदकत्वादित्यर्थः। श्राकाशादौ व्यभिचारेण हेतोरसिद्धिरसम्भव इत्ये