________________ द्वितीबस्तबके ] शब्दानित्यत्वोपपादनम् / 253 अपि च नष्टाश्रयाणां द्रव्यगुणकर्मणां नाशापलम्भः कथम् ? न कश्चिदिति चेदाश्रयताशात् कार्यनाश इति कुत एतत् ? अनुमानतस्तथोपलम्भादिति चेन्न / तुल्यन्यायेनोक्तोत्तरत्वात् / तन्तुषु नष्टेष्वपि यदि पटो न नश्येत्तद्देवोपलभ्येतेति चेत् / एतस्य तर्कस्यानुग्राह्यमभिधीयताम् / यदेवोपलभ्यते न तत् कार्यपरम्परावत् , योग्यस्य तथानुपलभ्यमानत्वे सति उपलभ्यमानत्वादिति चेन्न / तन्ववयवानां पटानाधारत्वे साध्ये सिद्धसाधनात् / पटप्रध्वंसवत्त्वे साध्ये बाधितत्वात् / तस्य स्वप्रतियोगिकारणमात्रदेशत्वात् / ये पटध्वंसवन्तस्तन्तवस्तदभाववन्त एते अंशव इति साध्यमिति चेन्न / तन्तुनाशोत्तरकालं पटनाशात् तद्वत्तानुपपत्तः। योग्यतामा बोधनी। अधिकरणनिरूप्यत्वं प्रध्वंसस्य वदतां दूषणान्तरमाह-अपि च इति / प्रतियोग्याश्रया एव हि नाशस्याधिकरणं, ते च पूर्व मेव नष्टत्वात्तदानीं नोपलभ्यन्त इति / ननु मा भूत्तन्नाशोपलम्भ इत्याह-न कथं चित् इति / तर्हि किंनिबन्धनोऽयं व्यवहारः स्यादित्याह-आश्रय इति / नन्वनुमानतः सिद्धैराश्रयैरानुमानिको नाशोपलम्भो भविष्यतीत्याह-अनमानतः इति / न इति / व्यवहितवीणायनुमानेनानुमानिकस्तत्र शब्दाभावव्यवहार इत्यनेन तुल्यन्यायतयाश्रयासिद्धत्वादुपलभ्यमानत्वेन विशेषणे विशेषणासिद्धेश्चेति / यद्वा नष्टाश्रयाणां नाशस्य प्रत्यक्षेणानुपलम्मेऽप्याश्रयनाशादनुमानेनोपलम्भो भविष्यतीति शङ्कार्थः। उत्तरार्थस्त्वाश्रितविनाशवदाश्रयनाशोऽपि न स्वाश्रयानाशे निरूपयितुं शक्यत इति / श्राश्रयविनाशात्कार्यविनाश इति व्यवहारस्य (नबन्धनमाशहते-तन्तुष इति / तदेव = विनाशात् पूर्वकालवदिति / एतस्य इति / प्रमाणानुग्राहकत्वेन तर्कस्य न केवलस्यास्य व्यवहारमूलत्वमिति प्रमाणमाशङ्कते-यदेव इति / नष्टाश्रये पटादौ यद श्वादिकमुपलभ्यते तत्स्वकार्य तन्तवस्तत्कार्यं पटस्तत्कार्य गुणकर्माणीत्येवं या कार्यपरम्परा तया तद्वन्न भवति तद्वत्तयोपलब्धुं योग्यस्य तथानुपलभ्यमानत्वे सति स्वयमुपलभ्यमानत्वादित्यनुमानमनुग्राह्यमत्रेति / न इति / किमत्रांशवः पटानाधारा इति साध्यं, किं वा पटप्रध्वंसाधारा इति / पूर्वत्र सिद्धसाधनं तत्वाधारत्कारपटस्य, उत्तरत्र बाधितविषयत्वं पटप्रध्वंसस्य स्वप्रतियोगिसमानदेशत्वेन तन्त्वाश्रयत्वादिति / दूषणद्वयपरिहारमाशङ्कते- ये इति / पटप्रध्वंसवत्तन्त्वभाववन्तोऽशव इति साध्यमिति / न इति / नष्टेषु तन्तुषु पटविनाशादसतां च तन्तूनां पटप्रध्वंसवत्वानुपपत्तेस्तदभावाश्रयत्वमंशूनां बाधितमिति / तर्हि पटप्रध्वंसाश्रययोग्यानां तन्तूनामभाववन्तोऽशव इति साध्यमित्यत्राह-योग्यता इति / तस्य योग्यतामात्रस्य पटसद्भावकालेऽप्यविशेषात् न ततः प्रध्वंस एकान्ततः सिध्यतीति / ननु गुणक्रियाविशिष्टस्य पटस्याधारास्तन्तवोंऽशुषु न सन्तीति प्रकाशः। सति घटाभावस्याप्यनुमेयतायामभावमात्रस्याप्रत्यक्षतापत्तेः / यदि च योग्यानुपलब्धेस्तत्र सत्तयैव हेतुत्वानानुमानं, तर्हि प्रकृतेऽपि तुल्यमिति भावः। अपि चेति / यदि प्रतियोग्याश्रयेणैवाभावो निरूप्यते इति शेषः / तुल्यग्यायेनेति / स्वरूपकालाकाशपक्षे आश्रयासिद्धयनै कान्तिकत्वात, पटतदवयवादिपक्षत्वे बाधादित्यादिनेत्यर्थः / तन्तुग्विति / पटारम्भकतन्तुष्वित्यर्थः / प्रागुक्तदोषभिया पटध्वंसविशिष्टतन्तुध्वंसवत्त्वमंशुषु साध्यमाशङ्कय प्रकारान्तरेण बाधसिद्धसाधने आह य इति। तद्वत्ता-तन्तूनां पटध्वंसवत्ता। नन्वे. प्रकाशिका। उपलम्भपदमुभयं प्रत्यक्षपरम् / नम्वेत इति / न च स्वजन्यपदं व्यर्थमिति वाच्यम् / यत्किञ्चि मकरन्दः। वन्याप्येतरेत्यर्थः। तथा च दृधान्तसौलभ्यम् / उपलम्भपदं प्रत्यक्षपरम्। नन्वेत इति /