________________ 252 व्याख्यात्रयोपेतप्रकाशबोधनीयुत न्यायकुसुमाअलौ . [1 कारिकाव्याख्यायो न चैवं सति पारमार्थिकाधिकरणनिरूपणीयत्वमभावस्य / न च तेऽपि प्रत्यक्षसिद्धाः। सर्वत्र शब्दकारणव्यवधानेऽप्युपलब्धस्य शब्दस्य नास्तिताप्रतीतेः। आनुमानिकैस्तैस्तथाव्यवहार इति चेन्न। हेतोस्तद्वत्तयाऽनुपलभ्यमानत्वस्यानैकान्तिकत्वात् / अभावप्रतीतिकाले सन्दिग्धाश्रयत्वाच्च / उपलभ्यमानविशेष्यत्वपक्षे चाऽसिद्धः। इन्द्रियव्यवधानाच्छब्दलिङ्गस्य चानुपलम्भात् / बोधनी। निरूपकाणां प्रत्यक्षत्वात्तनिरूप्यस्याभावस्यापि प्रत्यक्षत्वप्रसङ्ग इति / किं च तैरेव निरूपणेऽभ्युपगतहानिरपि स्यादित्याह-न चैवम् इति / तेषामभावानधिकरणत्वादिति / किं चाप्रत्यक्षेष्वप्युपाधिषु शब्दाभावस्योपलम्भात्तन्निरूप्यत्वमित्याह-न च तेऽपि इति / शब्दस्य हि निमित्तकारणानां भेर्याापाधीनां कुड्यादिव्यवघानेऽपि पूर्वोपलब्धस्य तस्याभावः प्रतीयत इति / ननु शब्दलिङ्गानुमितैर्वीणादिभिः पक्षीकृतैः शब्दाभावमनुमाय निःशब्दास्त इति व्यवहारः स्यात् इत्याहश्रानमानिकैः इति / न इति / सशब्दा अपि हि ते तद्वत्तया नोपलभ्यन्ते तेषामौत्रत्वादिति / संदिग्धाश्रयत्वात् इति / तदानीं शब्दलिङ्गाभावात् नाशसंभवाच्चेति / तमुपलभ्यमाना भेर्यादय इति पक्षं विशेषयिष्याम इत्यत्राह-उपलभ्यमान इति / तदा हि विशेषणासिद्धः पक्षः स्यादिति / कुत इत्यत आह-इन्द्रिय इति।। प्रकाशः। दृषणान्तरमाह न चैवमिति / मुख्यप्रतियोग्याधारविषय एवाभावनिरूपकत्वादित्यर्थः / यदि च मुख्यामुख्यसाधारणमाधारमात्रं तनिरूपकं तत्राह / न चेति / अप्रत्यक्षे वीणादौ शब्दाभावप्रती. त्यनुदयापत्तेरित्यर्थः। व्यवहिते वीणादौ शब्दविशेषानुमिते शब्दध्वंसव्यवहार आनुमानिकः स्यादित्याह आनुमानिकरिति / वीणाया अश्रौत्रत्वेन सशब्दवीणा न श्रोत्रेणोपलभ्यते इति व्यभिचार इत्याह हेतोरिति / सन्दिग्धेति / यत्र शब्दविशेषेणानुमिता वीणा न प्रत्यक्षा, तत्र वीणायाः सत्त्वासत्त्वसन्देहादित्यर्थः। यद्यपि पक्षस्य लिङ्गविशिष्टज्ञानादेवानुमितिसम्भवे सन्देहो नानुमितिविरोधी, तथापि प्रथमं वीणाध्वंससन्देहाच्छब्दध्वंसस्तत्र वर्तते इति धीन स्यात् / यद्वा, वीणायननुमानेऽपि पक्षनिश्चयादनुमानाभावेऽपि शब्दस्यानुपलम्भादभाव निश्चयादित्येवम्परोऽयं प्रन्थः / शब्दवत्तयाऽनुपलभ्यमानत्वे सत्युपलम्यमानत्वादिति हेतुकरणानोक्तदोष इत्याह उपलभ्यमानेति / असिद्धः। उपलभ्यमानत्वस्येति शेषः। तत्र हेतुमाह इन्द्रियेति / शब्दरूपस्य लिमस्येत्यर्थः; आप्तोपदेशस्य चाभावादिति भावः। ननु शब्द एतत्कालप्रध्वंसप्रतियोगी, एतत्पूर्वकालत्वे सति शब्देतरयावत्तदुपलम्भकसत्त्वेऽप्यनुपलभ्यमानत्वादित्यस्तु / मैवम् / एवं प्रकाशिका। प्रतियोगिसमवायिकारणत्वरूपस्य च मानस्य तत्राभावादिति भावः। अभावनिरूपकत्वादिति / तत्त्वेन त्वयाभ्युपगमादित्यर्थः / प्राप्तोपदेशस्य चेति / यद्यपि शब्दो लिङ्गश्चेत्येवं पूर्वग्रन्थव्याख्याने सति तदाशयपूरणापेक्षा / तथापि लिङ्ग शब्द एव तत्र तत्र वाच्य इति तथैव विप्रहप्रदर्शनं कृतं तदनुसारेण च पूरणमिदम् / एतत्काल इति / एतच्चैतत्कालीनध्वंसे विशेषणीयम् / प्रागभावकालमादाय व्यभिचार इति हेतौसत्यन्तम् | अप्रसिद्धिवारणाय शब्देतरेति। स्वस्वव्याप्येतरेत्यर्थः, तेन दृष्टान्तसङ्गतिः / किञ्चिदुपलम्भकासत्त्वकालमादाय व्यभिचार इति यावदिति / . मकरन्दः / तथा च त्वन्मते नोपाधिमति विधिनिषेधौ सम्भवत इति भावः / शब्दरूपस्येति / यद्यपि शब्दश्च लिङ्गश्च शब्दलिङ्ग, तस्येत्यर्थे उभयोरपि लाभ प्राप्तोपदेशस्येत्यप्रिमफक्किका विफला, तथापि लिकं शब्द एव वाच्यमिति तथैव व्याख्यात इत्याहुः / एतत्काल इति / एतस्कालीनध्वंसप्रतियोगीत्यर्थः / प्रागभावदशायां व्यभिचारवारणाय सत्यन्तम् / अप्रसिद्धिवारणाय शब्देतरेति, स्व