________________ 251 प्रकाशः। द्वितीयस्तवके] शब्दानित्यत्वोपपादनम् / आकाश एव विहितो भवति / प्रतिषिद्धयमानश्च तत्रैव प्रतिषिद्धो भवति / शरीरे सुखादिवदिति चेन्न / तत्र सोपाधावात्मनि प्रत्यक्षसिद्धे सुखादिनिषेधस्यापि प्रत्यक्षसिद्धत्वात् / न चैवमिहापि, तदुपहितस्य नभसोऽप्रत्यक्षत्वात्। उपाधयस्तावत् प्रत्यक्षा इति चेन्न / तैरभावानिरूपणात् / निरूपणे वा प्रत्यक्षेणापि ग्रहणप्रसङ्गात् / बोधनी। देशानुरोधित्वात् , तेन शब्दवत् आकाशदेशस्योपाधिषु विधीयमानो निषिध्यमानोऽपि शब्दस्तदुपहित श्राकाश एव विहितो निषिद्धोऽपि भवति / यथा शरीरावयवे विधीयमाना निषिव्यमाना वा सुखादयस्तदुपहित अात्मनि तथात्वं लभन्ते, तस्माद् भेर्यादिषु निरूप्यमाणः शब्दध्वंस आकाश एव निरूपितो भवतीति / न इति / न हि तत्र शरीरे निषिध्यमानानां सुखादीनामर्थादात्मनि निषेधः सिध्यति उपहितस्याऽऽत्मनः प्रत्यक्षसिद्धत्त्वेन तदाश्रयस्य सुखायभावस्य प्रत्यक्षत्वोपपत्तेः. न चेयं विधा शब्दप्रध्वंसे संभवतीति / उपहितस्य नभसोऽप्रत्यक्षत्वेन तदाश्रयस्य शब्दप्रध्वंसस्याप्यप्रत्यक्षत्वादिति। ननूपहितस्याप्रत्यक्षत्वेऽप्युपाधयस्तावद् मेर्यादयः प्रत्यक्षाः ततस्तैरेव शब्दप्रध्वं. सो निरूप्यत इत्याशयेनाह-उपाधयः इति / न इति / श्राश्रयनिरूप्यत्वादभावस्य तेवां चानाश्रयत्वादिति भावः। अनाश्रयैरपि तैर्निरूपणे वा को दोषस्तत्राह-निरूपणे वा इति / तौ न भवत इति नायं नियमः, तथापि यदवच्छेदेन यद् वर्त्तते तत्रावच्छेदके विधिनिषेधधीर. वच्छिन्नविधिनिषेधविषयेवि नियम इति भावः। उपनीतशरीरावच्छेदेनाऽऽत्मनि योग्ये सुखा. द्यभावग्रहेऽपि नाकाशे शब्दाभावग्रहः, उपाधिमतोऽपि तस्यायोग्यत्वादिति परिहरति तत्रेति / तैरिति / वीणादयः प्रत्यक्षा अपि न शन्दसमवायिन इति न तैः शब्दध्वंसो निरूप्यते इत्यर्थः / निरूपणे वेति / तथा च विवादाभावो दृश्याधारत्वदृश्यप्रतियोगित्वयोः सम्भवादिति भावः / प्रकाशिका। धिकरणत्वप्रतीत्या उपार्वीणादेरपि तदधिकरणत्वमिति न ध्वंसवत्वे साध्ये बाध इति भावः / न. चैव प्रत्यक्षमुपेक्ष्य किमित्यनुमानधारणम् ? अधिकरणयोग्यतया च शब्दध्वंसस्याप्रत्यक्षत्वं पूर्व. स्वयमेवोक्त तद्विरोधश्चेति वाच्यम् / बीणादौ शब्दध्वंसो वर्तत एव, गृह्यते चेति ध्वंसः प्रतियोगि. समवायिप्रत्यक्षेणवेति तदाशयात् / एवञ्च मूले आकाश एवेत्येवकारो भिन्नक्रमः, तेववेत्येवं योजनीयः, मूले च 'विधीयमान' इति दृष्टान्तार्थम् / उक्तक्रमण मूलव्याख्याने तश्रावच्छेदक इत्यादिमूलासङ्गतिं परिहरति / तत्रावच्छेदके इति / अवच्छेदके विधिनिषेधसत्त्व एव विशिष्टे विधिनिषेधधीरित्यर्थः / उपाधिमतोऽपीति / उपाधौ विधिनिषेधप्रत्यक्षे सत्येवोपहित उपाधिमति विधिनिषेधप्रत्यक्षमित्येतावन्मानं स्वीक्रियते, प्रतीत्यनुरोधात् , न चैतावता विशिष्टे प्रत्यक्षानुरोधेन विशेषणादौ शब्दध्वंससत्त्वं विशेष्यायोग्यतया विशिष्टप्रत्यक्षाभावाद् दृष्टान्तस्थले तत्तथास्तीति भावः / वीणादय इति / उक्तक्रमेण तेषां शब्दध्वंसाधिकरणत्वे मानाभावात् मकरन्दः। देशत्वमेव साधयितुमर्ह मित्याकाश एव विहितो भवतीति मूलमसङ्गतं, तथाप्यवच्छेदकतया तस्या तदधिकरणत्वं तच्चोवच्छेद्यसापेक्षमिति विशिष्टदेशत्वसाधनमिति भावः / उपाधिमतोऽपीति / - टिप्पणी। नियतोपलम्भविषयतायाः प्रतियोगिन्यधिकरणाभावाभाववत्वं वा। अस्ति चेदं जातिब्यक्तयोः, व्यक्ति विना जातिभानानुपपत्तेरिति / नियमो हि व्यक्त्यपेक्षया जात्यपेक्षया वा,आये यद्घटव्यक्तेनियमेन गन्ध उपलभ्यमाने उपलब्धिस्तत्र गन्धं विनापि चक्षुषोपलभ्यमाने व्यभिचारः। अन्त्येऽसिद्धिस्तदवस्थैवेत्याह अत्रापीति। शङ्कते इति। उपाधौ विधिनिषेधसत्व एवोपाधिमति तावित्युपहिते शब्द ध्वंससत्वे उपाधावपि तत्सत्वमिति न वीणादौ शब्दध्वंसस्वरूपं साध्यं बाधितमिति भावः / विधिनिषेधधीरिति / तथा च वीणायां शब्दनिषेधानुमितेर्वीणावच्छिन्नविषय इति न वाध इति भावः /