________________ 250 व्याख्यात्रयोपेतप्रकाशबोधनीयुते भ्यायकुसुमाजली [1 कारिकाव्याख्यायो भ्यमानत्वात् / यद् यदेकज्ञानसंसर्गयोग्यस्य अनुपलम्भेऽप्युपलभ्यते तत् तदभाववत् यथा अघटं भूतलमितिचेन्न / एकज्ञानसंसर्गयोग्यत्वाभावात् , शब्दस्य श्रौत्रत्वाद्वीणादीनां चाक्षुषत्वात् / अभिमानमात्रादितिचेन्न, तथापि शब्दप्रध्वंसस्यातद्देशत्वाद् , अत्यन्ताभावस्य च कालाऽनियमात् / स्यादेतत् / शब्दवदाकाशोपाधयो हि भेर्यादयः। तेन तेषु विधीयमानः शब्द 3 बोधनी। लम्भेऽप्युपलभ्यमानेनात्मना व्यभिचारो मा भूदित्युक्तं-तदेकज्ञानसंसर्गयोग्यत्वे सति इति / तेन तद्विशेषणेन सह यदेकं ज्ञानं विशिष्टज्ञानमिति यावत् , संसर्गस्तद्विषयत्वं तयोग्यत्वे सतीति विशेषणासिद्धो हेतुरित्याह-न इति / अयोग्यत्वमेवाह-शब्दस्य इति / ननु सुरभि चन्दनमित्यादिषु मिन्नेन्द्रियप्राह्ययोरपि विशिष्टज्ञानविषयत्वं वक्ष्यति / सत्यं, तत्र गुणगुणिभावं वदन्नदो वक्ष्यतीति / ननु परमार्थतस्तदभावेऽपि मधुरस्वरा वीणेति लौकिकानामभिमानस्तावद् दृश्यते, तन्मात्रादेव सिद्धं तदेकज्ञानयोग्यत्वं हेतोविशेषणं भविष्यतीत्याह-अभिमान इति / अस्तु तथा नाम विशेषण, तथापि शब्दस्य वीणाद्याश्रयत्वेन तत्प्रध्वंसस्याप्येतद्देशत्वाग्निःशग्दा वीणादय इति प्रतिज्ञा बांधितविषया स्यादित्याशयेनाह-तथापि इति / ननु वीणादिषु शब्दस्यात्यन्ताभावः साध्यते, न तस्य प्रध्वंसवत् प्रतियोगिदेशत्वम् / यदि तु स देशः प्रतियोगिनोऽपि कदाचित् स्यात् ततस्तत्रात्यन्ताभाव इति व्याहन्यतेत्यत्राह-अत्यन्ताभावस्य इति / तदेदानीं शब्दो नास्तीति नियतकालतया शब्दाभावप्रतीतिर्न स्यात् , अत्यन्ताभावस्य सर्वदा सत्त्वात्सिद्धसाधनत्वं च तदा स्यादिति भावः। स्थादेतत् इति / भेर्यायवच्छिन्ने ह्याकाशे शब्दः समवैति विभुकार्याणामसमवाथिकारणतथात्वं वाच्यं, तथा चासिद्धिरित्याह एकज्ञानेति / . शब्द भासमाने उपनीतो वीणादिरपि भासते इति तत्सिद्धिरित्याह-अभिमानेति / निःशब्दा इति, शब्दध्वंसवन्त इति साध्यं शब्दसमवायित्व. रहिता इति वा ? नायो, बाधादित्याह तथापीति / अतद्देशत्वाद्वीणायदेशत्वादित्यर्थः / ध्वंसस्य प्रतियोगिसमानदेशत्वनियमादत्रापि नियमेन कज्ञानसंसर्गयोग्यत्वमसिद्धमिति भावः / अन्त्ये नियत कालप्रतीत्यनुपपत्तिरित्याह अत्यन्तेति / सिद्ध साधनञ्च द्रष्टव्यम् / एवमन्योन्याभावेऽपि साध्ये इति भावः / उपाधौ विधिनिषेधावुपाघिमति भवत इति वीणादिदेशत्वमेव शब्दध्वंसस्येति शङ्कतेस्यादेतदिति / उपाधिः = अवच्छेदकः / यद्यपि शरीरे गन्धविधौ, विभुत्वनिषेधे चात्मनि प्रकाशिका। . तदा गन्धसत्त्वेन व्यभिचार इत्यर्थः। शब्दे भासमान इति। या वीणा व्यक्तिरुपनीता तत्प्रभवशब्दे भासमाने भासत एव, सैव पक्षयितव्येति नासिद्धिरिति मूलतात्पर्थमिति भावः। अत्रापीति / व्यक्तिविशेषाभिप्रायेण नियमे घटादावेव व्यभिचार इति कारणतावच्छेदकावच्छिन्ने नियमो वाच्यः तथा चासिद्धिरितिभावः। एवमन्योन्याभावेऽपीति / शब्दसमवायिभिन्ना इत्यत्र साध्य इत्यर्थः। उपाधाविति / उपाधौ विधिनिषेधसत्त्वे एव परमुपाधिमति विधिनिषेधावित्युपाधिविशिष्टे साध्या मकरन्दः। घटस्य गन्धादिमत्त्वाद्वयभिचार इत्यर्थः / एवमिति / शब्दसमवायिभिन्ना, इत्यत्र साध्ये इत्यर्थः। उपाधिमतोति / तथा च विशिष्टस्य तदाश्रयतदा विशेषणस्यापि तथात्वमिति भावः / तदेवाह वोणादोति / वीणादिदेशत्वं भवत्येवेत्यर्थः, तथा च न बाध इति भावः / यद्यप्येवमुपाधिमात्र टिप्पणी। मेनकज्ञानसंसर्ग योग्यत्वम् तमूहानत्वव्यापकविषयतावच्छेदकधर्मवत्त्वम् , तत्सत्त्वे तदुपलम्भसामग्री प्रकाशः।