________________ द्वितीयस्तवके] शब्दानित्यत्वोपपादनम् / 249 अनुपभोग्यस्य उत्पादवैयर्थ्य प्रमाणमितिचेन्न / श्राद्यादिशब्दवदुपपत्तेः / तेषां शब्दान्तरारम्भं प्रत्युपयोगोऽन्त्यस्य न तथेति चेन्न / अन्त्यत्वासिद्धे। सर्वेषां चोत्पादवतां प्रयोजनतदभावयोरस्मादृशैरनाकलनात् / सुषुप्त्यवस्थायां श्वासप्रश्वासप्रयोजनयच्च तदुपपत्तेः। प्रारभ्भे हि सति प्रयोजनमवश्यमिति व्याप्तेः।नत्वापाततः प्रयोजनानुपलम्भमात्रेणारम्भनिवृत्तिः। तथा सति कर्णशष्कुल्यवच्छेदोत्पाद एव नभसस्तं प्रति निवत्तत। बधिरस्य तेनानुपयोगात् / विवादकाले बधिरकर्णः शब्दवान् , योग्यदेशस्यानावृतकर्णशष्कुलीसुषिरत्वात् तदितरकर्णशष्कुलीसुषिरवदिति / निःशब्दाः पणवणावेणवः तदेकज्ञानसंसर्गयोग्यत्वे सति तदनुपलम्भेऽप्युपल बोधनी। इत्याह-अनुपमाग्यस्य इति / न इति / अनुपभोग्यानामेवायादिशब्दानामुत्पाददर्शनान्नानुपभोग्यत्वस्यानुत्पादेन व्याप्तिरिति / नन्वायादिशब्दानामनुपभोग्यानामपि न वैयऱ्या शब्दान्तरारम्भोपयोगात् , अन्त्यस्य तूपयोगान्तराभावादानर्थक्यमेव स्यादित्याह तेषाम्-इति / न इति / वधिरश्रवणसमवेतस्यापि शब्दस्यान्त्यत्वासिद्धेः शब्दान्तरारम्भेणैवोपयोगः सिद्धयतीति / किं चास्मदादिभिरनुपलम्भात् प्रयोजनस्याभावो न निश्चेतुं शक्योऽयोग्यत्वेनाप्युपपत्तरित्याह-सर्वेषाम् इति / यथा हि सुषुप्तावस्थायामस्मदादिभिरनाकलितप्रयोजनयोरेव श्वासप्रश्वासयोरुत्पादस्तथा बधिरकर्णगतस्यापि शब्दस्य भविष्यतीति / उक्तमेवोपपादयति-प्रारम्भे हि इति / यदि तु प्रयोजनानुपलम्भमात्रेणाऽऽरम्भो निवर्तेत तदा बधिरस्य कर्णशष्कुल्मा नभसोऽवच्छेदोत्पाद एव न स्यात् बधिरस्य तेनावच्छेदेनानुपयोगात् इत्याह-तथा सति इति / तदेवं बधिरक र्णस्य निःशब्दत्वे प्रमाणं नास्तीत्युक्तं सशब्दत्व एव प्रमाणमस्तीत्याह-विवाद इति / यदा शब्द. संतानः प्रतीयते योग्ये च देशेऽनावृतकर्णविवरो बधिरस्तिष्ठति, तदा तत्क! न शब्दवानिति परेणोच्यते तस्मिन् विवादकाल इति / तदेवम् 'अहमिदानी निःशब्दश्रोत्रवान्' इति प्रयोगो दूषितः / श्रयैकदेशी प्रयोगान्तरमाह-निःशब्दाः इति / सशब्दानामपि वीणादीनामुपलभ्यमानस्वाद् व्यभिचारनिवृत्यर्थमुक्तं तदनुपलम्भेऽपि इति / शब्दानुपलम्मेऽपीत्यर्थः / तथापि धर्माद्यनुप प्रकाशः। - अनुपभोग्यस्येति / अायादिशब्दानामनुपभोग्यानामनुपभोग्यत्वमनैकान्तिकमित्याह प्राधादीति / उपभोग्यशब्दान्तरारम्भकत्वेन परम्परयोपभोग्यत्वं तेषाम् / प्रकृतस्य तु शब्दान्तराजनकतया न सथात्वमित्याह तेषामिति / प्रकृतस्याप्युत्पादकत्वेनान्त्यत्वासिद्धयाऽनुपभो. ग्यत्वासिद्धिरित्याह अन्त्यत्वेति / प्रत्युत बधिरश्रोत्रस्य शब्दसद्भाव एव मानमस्तीत्याह विवा. देति / यद्वा तद्देशवासिभिः श्रोत्रवद्भिरुपलभ्यते शब्दस्तदेत्यर्थः / धर्म्यन्तरं पक्षीकृत्य शब्दध्वंसानुमानमाह निःशब्दा इति / एकज्ञानसंसर्गयोग्यत्वमात्रं घटादौ ब्यभिचारीति नियमेन प्रकाशिका। मसिद्धिरित्यत आह एकज्ञानेति / घटादाविति / तादृशगन्धानुपलम्भेऽप्युपलभ्यमानस्य घटम्य मकरन्दः / ध्येयम् / बाधितेति / प्राचीनमतेनेदम् / घटादाविति / तादृशगन्धायनुपलम्भेऽप्युपलभ्यमानस्य टिप्पणी। लत्वव्याहतत्वयोरित्यादिः / अनुपभोग्यत्वमनैकान्तिकमिति / अनुत्पत्तेरिति शेषः / एकज्ञानसंसर्गयोग्यत्वेति / एकज्ञानसंसर्गयोग्यत्वम्योपनीतभानमादाय वीणायामपि सत्त्वान्नासिद्धिरित्यत पाह-एकेति / घटादौ व्यभिचारीति / गन्धं विनाप्युपलभ्यमान उपनीतभानात्मकगन्धज्ञानविषयत्वयोग्ये गन्धाभावाभाववति घटादावित्यर्थः / नियमेन तथात्वं वाच्यमिति / निय३२ न्या० कु०