________________ 248 व्याख्यानयोपेतप्रकाशबोधनीयुते न्यायकुसुमाअलौ [ 1 कारिकाव्याख्यायो साधने अभावस्य नियतकालवासिद्धेः। आकाशस्य पक्षत्वे तद्वत्तयाऽनुपलभ्यमानत्वस्य हेतोरनैकान्तिकत्वात् / शब्दसद्भावकालेऽपि तस्य सत्त्वात् / एवं कालपक्षेऽपि दोषात् / अहमिदानीं निःशब्दश्रोत्रवान् , शब्दोपलब्धिरहितत्वात् , बधिरवदिति चेन्न / दृष्टान्तस्य साध्यविकलवाद्, व्याहतत्वाच्च / बधिरश्च श्रोत्रवांश्चेति व्याहतम् / तस्यापि च श्रवसो निःशब्दत्वे प्रमाणं नास्ति। बोधनी। दित्यनुमाने तावदाश्रयासिद्धो हेतुः, शब्दस्याश्रयत्वानुपपत्तेरिति / तर्हि सन्तमेव शब्दं पक्षयित्वा तस्य कृतकत्वेनानित्यत्वं साधयाम इत्यत्राह-अनित्यत्व इति / तत्र हि शब्दः कदाचित् प्रध्वंसिष्यत इत्येतावदेव सिध्येत् न त्विदानों नास्तीति / तीदानीं निःशब्दमाकाशं तद्वत्तयाऽनुपलभ्यमानत्वाद्यथा घटवत्तयाऽनुपलभ्यमानं भूतलं विघटमित्यनुमानं भविष्यतीत्यत्राह-आकाशस्य इति / शब्दसम्भवकालेऽप्याकाशस्यातीन्द्रियत्वेन तद्वत्तयाऽनुपलम्भात् / यता, आयादिशब्दानां सतामेवानुपलम्भादिति भावः। कालेऽपि पक्षे पूर्वस्य हेतोरनैकान्तिकत्वमित्याह / एवम् इति / अनुमानान्तरमाशय निराकरोति। अहमिदानीम् इति / व्याहति तावद्विभजतेबधिरः इति / साध्यवैकल्यं विभजते-तस्यापि इति / / ननु यदि बधिरेणानुपलभ्यमानः शब्दस्तच्छ्रोत्रप्रदेशे भवेत् ततोऽयं व्यर्थ स्यात् / न च व्यर्थस्योत्पत्तिः संभवति, भोक्तृणामुपभोगायैव तत्तददृष्टवशात्सर्वस्योत्पत्तेः / तस्मान्नास्ति तत्र शब्द . प्रकाशः। सत्त्वकाले उपलभ्यमानत्वं हैतुः स्वरूपासिद्धः, तदसत्त्वकाले तु हेतोः पक्षे वृत्तावपि साध्यस्य ध्वंसवत्वस्य तत्रावृत्तेर्वाधितविषयत्वेनापक्षधर्मवादित्यर्थः। ___ ननु ध्वंसप्रतियोगित्वे साध्ये न वाध इत्यत आह / अनित्यत्वेति / यदा कदाचिद् ध्वंससिद्धयाऽर्थान्तरत्वादित्यर्थः। कालपक्षेऽपीति / तद्देशेऽन्यत्र वा शब्दसत्त्वकालेऽपि तद्वत्तया कालस्यानुपलभ्यमानत्वादित्यर्थः / शब्दोपलब्धीति / पूर्वोपलब्धत्वेन शब्दो विशेषणीयः, तेन ध्वंसः सिद्धयति / पञ्चादुक्तमपि सन्निधानात् पूर्व स्फुटयति / बधिरश्चेति / शब्दोपलम्भकादृष्टविशिष्टकर्णशष्कुल्यवच्छिन्नं नभः श्रोत्रं बधिरस्य नास्तीत्यर्थः। ननु चादृष्टविशेषः शब्दोपलब्धौ सहकारी न तद्धटितं श्रोत्रमित्यतो दृष्टान्तस्य साध्यवैकल्यं विवृणोति / तस्यापीति / श्रोत्रस्यादृष्टघटितत्वसंशयेऽपि न साध्यसिद्धिरिति भावः / नन बधिरश्रोत्रे शब्दोत्पत्तौ स उपभुज्येत, उपभोगाभावाच्छन्दो नास्तीत्याह प्रकाशिका। पकतया भूतलस्य न निरूपकत्वमित्येवं परमधिकरणनिरूप्यत्वस्याग्रेऽभ्युपगमादित्यवधेयम् / अपक्षधर्मत्वादिति / व्यतिरेकनिश्चयेन संशयघटितपक्षताविरहादिति भावः / सन्निधानादिति / यद्यप्येतादृशसन्निधानं प्रथमाभिधानप्रयोजकंन क्वापि दृष्टं तथापि मूलकृतो दूषणानुपक्रमो हृदिस्थः। अत एव ननु चादृष्टविशेषः शब्दोपलब्ध्यावित्यादिना द्वितीयपक्षारुच्या प्रथमकल्प इत्युक्तम् / प्रथमकल्पारुचिर्हि द्वितीयकल्पोत्थानवीजम् तत्र तत्र दृष्टमित्यभिप्रायेणेदम् / ननु मानाभावेऽपि सन्देहोऽस्त्वित्यत आह / संशयेऽपीति / उपनीतभानमादाय सत्यन्तं वीणादौ वर्तत एवेति कथ टिप्पणी। कुत्रचित्पूर्वत्वसम्भवेऽपि नाङ्गत्वमन्यथासिद्धेरिति विभावयितुमन्यथासिद्धोपन्यासः / अपतधर्मवादित्यर्थ इति / साध्यव्यतिरेकनिश्चयसत्त्वेन संशयरूपपक्षताविरहेणेति शेषः / कालम्येन्द्रियवेद्यत्वे त्वाह अन्यत्रेति / पश्चादुक्तमपि सन्निधानादिति / साध्यविक