________________ द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् / 247 यदीन्द्रियंन सन्निकृष्येत, कथमिव तं गमयेत् / न चोपलब्धोपलभ्यमानाभ्यामेवेन्द्रियं सनिकृष्यते / इतरेतराश्रयप्रसङ्गात् / तस्मात् सन्निकर्षे सति योग्यत्वाद् भूतलमध्युपलभ्यते, न तु तस्योपलभ्यमानखमभावोपलब्धेरङ्गमिति युक्तमुत्पश्यामः। प्रकृते तु न प्रतियोगिनिरूपणार्थं तदुपयोगः। तस्य संयोगवदाधारानिरूप्यत्वात् / नाऽपि सन्निकर्षार्थ, तदभावस्य साक्षादिन्द्रियसन्निकर्षादिति। न चेदेवं, कुत एषा प्रतीतिरिदानीं श्रुतपूर्वः शब्दो नास्तीति / अनुमानादिति चेन्न / शब्दस्यैव पक्षीकरणे हेतोरनाश्रयत्वात् / अनित्यत्वमात्र . बोधनी। इति / न तावदिन्द्रियेण साक्षात्सन्निकर्षः संयोगः समवायो वाऽभावस्यास्ति / येन भूतलेन बिशेषणविशेष्यभावेन सन्निकर्षोऽस्ति तेनापि यदीन्द्रियं न सन्निकृष्येत तदाऽव्यवहितस्यापि सम्बन्धाभावात्कथमिव तमभावं गमयेदिति / ननु सन्निकर्षार्थत्वेऽपि भूतलस्य प्रत्यक्षत्वेनोपयोगः अनुपलधस्यानुपलभ्यमानस्य चेन्द्रियसन्निकर्षाभावादित्यत आह / न च इति / इन्द्रियसन्निकर्षादुपलम्भ उपलम्भादिन्द्रियसन्निकर्ष इतीतरेतराश्रयप्रसङ्गादिति / / ___ यदि भूतलसन्निकर्ष एवोपयुज्यते न तु तदुपलम्भः, कथं तीह भूतले घटो नास्तीति भूतलोपलम्भे वाभावोपलम्भ इतीमामाशङ्कां निराकुर्वन्नुपसंहरति-तस्मात् इति / तर्हि शब्दाभावेऽप्युभयार्थमेवाधिकरणमपेक्षणीयम् , न च तत्सम्भवतीत्यप्रत्यक्षत्वमेव तस्येत्यत्राह-प्रकृते तुइति / तस्य प्रतियोगिनः शब्दस्येति / अथेदानीमैन्द्रियकानुमानस्यानुग्राहक तर्कमाह / न चेदेवम् इति / न चेच्छब्दाभावः श्रोत्रेण गृह्यते ततः कारणाभावादेषा प्रतीतिर्न स्यादिति / मन्वस्त्वनुमानादियं प्रतीतिरित्याह / अनुमानात् इति / नास्तीदानीं शब्दः अनुपलभ्यमानत्वा प्रकाशः। पलग्धौ सत्यामेव सन्निकर्ष इत्यत्राह / न चेति / अत्रोपलब्धेनेत्यत्रेन्द्रियसन्निकर्षे भूतलोपलम्भस्तम्मिन् सतीन्द्रियसन्निकर्ष इति इतरेतराश्रयत्वम् / उपलभ्यमानेनेत्यत्र यद्यपलब्धिसम्बन्धिनेत्यर्थः, तदा पूर्ववदितरेतराश्रयत्वम् / यदि तु सन्निहितोपलम्भकारणेनेत्यभिमतं, तदैकसामग्रीप्रसूतत्वेनाव्यभिचारेऽपि भावप्रतीत्य• त्वमवर्जनीयसभिधेरप्यन्यथासिद्धित्वादित्याह तस्मादिति / न च शब्दध्वंसग्रहेऽपि शब्दनिरूपणार्थमाधारग्रहम्योपयोग इत्याह / प्रकृते विति / तस्य =शब्दस्य / संयोगवदिति व्यतिरेकदृष्टान्तः। तदभावस्येति / शब्दध्वंसस्य प्रतियोगिदेशाकाशे विशेषणत्वादित्यर्थः / न चेदेवमिति / यदि योग्यप्रतियोगिकत्वमात्रं नाभावयोग्यतावच्छेदकमित्यर्थः / शब्दस्यैवेति / शब्दं पक्षीकृत्य यदि ध्वंसवत्त्वं साध्यं, तदा शब्द प्रकाशिका। तथापि निरुक्तानुपलब्धौ शब्दाभाव एव प्रत्यक्षोऽपि न स्यादित्याशङ्कामात्रनिराकारणयेदम् / तदैकेति / यद्यप्येवं समसमयत्वेन पूर्ववर्तित्वाभावादनङ्गत्वमित्यन्यथासिद्धथुपवर्णनं व्यर्थम् / तथापि दैवाद् पूर्ववर्तित्वेऽप्यनङ्गत्वमिति विभावयितुं तत्कृतम् / तदपि संयोगरूपप्रतियोगिसमवायिनिरू मकरन्दः। तदैकेति / ययप्येवं समसमयत्वात् पूर्ववर्तित्वाभावेनानङ्गत्वमित्यन्यथासिद्धथुपदर्शनमयुक्तं, तथापि यत्रापि पूर्ववर्तित्वं तत्रापि तदनङ्गत्वमिति दर्शयितुमन्यथासिद्धत्वादित्युक्तम् / एतदपि संयोगरूपप्रतियोगिसमवायितया भूतलम्य न निरूपकत्वमित्येवं परं, अधिकरणनिरूपकत्वम्याग्रेऽभ्युपगमादिति टिप्पणी . . . अन्यथासिद्धत्वादिति / यद्यप्युपलब्धेः समानकालत्वेन पूर्वत्वाभावादेवानजत्वम् , तथापि