________________ प्रकाशः। 246 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाञ्जलो [1 कारिकाव्याख्यायो स्याऽन्यथोपयोगः, भूतलस्याप्यन्यथैव स्यादविशेषात् / कथमन्यथेति चेत् / प्रतियोगिनिरूपणार्थमभावसन्निकर्षार्थञ्च / तत्र प्रतियोगिनिरूपणं स्मरणलक्षणमनुपलभ्यमानेनापीति, न तदर्थमध्यक्षगोचरत्वमपेक्षणीयमन्यतरस्यापि; कुत उभयस्य / सन्निकर्षस्तु, भूतलघटसंयोगाभावस्येन्द्रियेण साक्षान्नास्ति, येनास्ति तेनापि . बोधनी। घटस्योपयोगः / तच्च स्मर्यमाणेनापि तेन सिध्यतीति भावः। तदेतद् भूतलस्यापि तुल्यमित्याह / भूतलस्य इति / विवक्षितमन्यथोपयोगं प्रश्नपूर्वकमाविष्करोति / कथम् इति / न तावत्प्रतियोगिनिरूपणे तयोः प्रत्यक्षत्वोपयोग इत्याह-तत्र इति / प्रतियोगिनः संसर्गस्य ।तावनिरूपणं स्मरणलक्षणं तदानीमनुभवस्यासंभवात् , स्मरणं चाप्रत्यक्षेणापि तनिरूपकेण संसर्गिणा भवतीति न भूतलघटयोरन्यतरस्यापि प्रत्यक्षत्वेन प्रतियोगिनिरूपणोपयोगः किमुतोभयोरिति। अभावसन्नि कर्षार्थत्वेऽपि भूतलस्य न प्रत्यक्षत्वेनोपयोग इति दर्शयिप्यन् सन्निकर्ष तावदाह-सन्निकर्षस्तु यो ह्यनुपलम्भः प्रतियोगिसत्वविरोधी, स एवाभावप्राहकः। अत एव पृथिवीत्वाभावो जलपरमाणुषु न प्रत्यक्षः। प्रत्यक्षश्च वायौ रूपाभावः। रूपस्य महति वायौ सत्वेऽनुपलब्धिविरोधात् / सच शब्दाधाराप्रत्यक्षत्वेऽपि प्रकृतेऽस्तीति शब्दाभावः प्रत्यक्ष इति भावः / कथमिति / अन्यथेत्यत्र कोऽन्यः प्रकार इत्यर्थः / ननु संयोगाभावप्रतीतौ सन्निकर्षमात्रार्थं भूतलम्योपयोगे गन्धतदभावबुद्धौ द्रव्यग्रह इव नियमेन भूतलोपलम्भो न स्यात् / अतः सन्निकर्षवदम्योपलब्धिरभावप्रत्यक्षाऽङ्गमित्यु प्रकाशिका। किं विलक्षणाभावकल्पनयेत्यरुचिबीजम् / यो हीति / तथानयैव योग्यानुपलब्ध्या संयोगाभावोऽपि गृह्यत इति भावः। स च शब्देति / यद्यपीदमप्रकृतं शब्दाभावस्य पूर्वपक्षविषयत्वात् / मकरन्दः। ब्धिरित्यर्थः / चक्षरादिकरणसमवधानमात्रे तु न योग्यांनुपब्धिः, अन्धकारे घटाभावप्रत्यक्षापत्तेः। किन्तु यावत्प्रतियोग्युपलम्भकसामग्रीसमवधाने सत्यनुपलब्धिः। तथा सति नान्धकारे घटाभाव. ग्रहापत्तिः, घटोपलम्भकसामग्रीमध्यपातिनो यावदन्तर्गतस्यालोकसम्बन्धस्य तदानीमभावात् / प्रतियोग्युपलम्मे प्रतियोगिनोऽपि विषयविधया हेतुतया तस्यापि यावदन्तर्गतत्वात् प्रतियोगीतरेति / प्रतियोगिसत्त्वेऽपि तेन सममिन्द्रियसन्निकर्षश्च प्रतियोगिव्याप्यः, व्याप्तिश्च मेदगर्भा विवक्षिता अतः प्रतियोगिनः प्रतियोगिव्याप्यत्वेऽपि न क्षतिः / यत्किश्चिदुपलम्भकसत्त्वेऽप्यन्धकारादौ तदभावग्रहाभावाद् यावदिति / तथा च प्रतियोगितद्वथाप्यभिन्न प्रतियोग्युपलब्धिव्यापकं यद् यत्, समुदिततत्सत्त्व इत्यर्थः। विभिन्नदेशावच्छेदेन यावत्तदुपलम्भकसत्वेऽप्यभावाग्रहात् समवधान इति व्याख्यातम् / तत्र तद्धर्मावच्छिन्नतद्धर्मावच्छिन्नव्याप्येतरतद्धर्मावच्छिन्नलौकिकप्रत्यक्षयावत्कारणसमवधाने सति तद्धर्भावच्छिन्नानुपलब्धिः कारणमिति तु निष्कर्षः। यो हीति / तथा चेयमेव योग्यानुपलब्धिरभावग्राहिकेति संयोगाभावोऽपिं प्रत्यक्ष एवेति भावः / एवं सति प्रकृतः शब्दाभाव एव प्रत्यक्षो न म्यादिति नाशङ्कनीयं, तत्राप्युक्तानुपलब्धिसत्वा दित्याह / स चेति / एतेन शब्दाभावमधिकृत्य पूर्व पक्षाभावादिदमसङ्गतमित्यपास्तम् / टिप्पणी। रुचिवीजन्तु कालविशेषावच्छिन्नस्वरूपेणैव घटाभावादिकादाचित्कत्वप्रतीत्युपपत्तेरतिरिक्ताभावकल्पने मानाभाव इति / अनुपलब्धिविरोधादिति / एवं सति घटस्यानुपलम्मेऽपि संयोगाभावप्रत्यक्षसम्भवः, भूतले संयोगानुपलम्भस्य योगसत्त्वविरोधित्वेन तावन्मात्रस्यैवापेक्षणीयत्वादिति भावः / यद्यपीदमप्रकृतं शब्दाभावस्य पूर्वपक्षविषयत्वात् / तथापि प्रतियोग्ययोग्यत्वे शब्दाभावोऽपि प्रत्यक्षो न म्यादिति शङ्कामात्रनिरासार्थम्–स चेत्यादि /