________________ द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् / 245 प्रकाशः। यावद्विशेषध्वंसव्याप्यत्वादेकविशेषवति सामान्यध्वंसस्याभावेन तदुपपत्तेरित्याहुः।।। यथा प्रतियोगिभेदेनाभावभेदः, तथा तदवच्छेदकभेदेनाऽपीति संयुक्तघटस्याभावस्तत्र, स चान्यविशिष्टाभाववदुत्पादविनाशशीलोऽन्य एवेत्यन्ये।। ___ यथाऽनादिसंसर्गाभाववैषम्येऽप्यभावबुद्धेरनन्यथासिद्धत्वादुत्पादशीलो ध्वंसः स्वीकृतः, तथा तत एवोत्पादविनाशशीलस्तुरीयः संसर्गाभावो घटस्येत्यपरे / ___ननु घटसंयोगाभावो योग्यानुपलब्ध्या ग्राह्यः, सा च प्रतियोगितद्वथा येतरयावत्तदुपलम्भकसत्त्वेऽनुपलब्धिः, अत्र च संयोगस्योपलम्भको घट एव नास्तीति न संयोगाभावः प्रत्यक्षः / मैवम् / प्रकाशिका। सस्यापि प्रतियोगितावच्छेदकमेदेन बाधकाभावे सति भेदादित्याशयः / प्रतियोगितावच्छेदकाश्रय .. चरमप्रतियोगिजन्यश्चायमभाव इत्यवधेयम् / सामान्यध्वंसानङ्गीकारे च संयोगासमानकालीनसंयोग ध्वंसस्य सम्वन्धत्वमिति मन्तव्यम् / ननु संयोगध्वंसस्य सम्बन्धत्वे गुणादौ घटाभावप्रतीत्यनुदयापत्तिरिति तत्र स्वरूपस्यैव सम्बन्धत्वेऽत्रापि तथैवास्तु कालविशेषावच्छिन्नस्वरूपश्च संबन्ध इति तत्कादाचित्कत्वेनैव कादाचित्कत्वप्रतीतिरित्यरुचेराह / यथेति / यद्यप्यत्र कल्पे “संयोगो ही"त्यादिमूलासङ्गतिरेव, तथापि घटो नास्तीति प्रतीतिमुपेक्ष्य संयोगो नास्तीत्येव प्रतीतिरुदाहरणं.येति मूलतात्पर्यमिति भावः / एवमुत्तरत्रापि / नन्वेवं घटत्वावच्छिन्नघटज्ञानाद् घटो नास्तीति प्रतीतिः कदापि न स्यात् , संयुक्तत्वस्य प्रतियोगितावच्छेदकस्याज्ञानादित्यनुभव विरोध इत्यरुचेराह / यथेति / अत्रापि कालविशेषावच्छिन्नस्वरूपसम्बन्धेनैव कादाचित्कत्वप्रतीत्युपपत्तौ - मकरन्दः / भावान्तरवद् ध्वंसस्यापि सामान्याभावत्वमिति मतेनेदम् / न च ध्वंसम्य प्रतियोगिजन्यत्व नियमात कथं तथेति वाच्यम्, चरमप्रतियोगिजन्यतया तथात्वात् , यावत्प्रतियोगिजन्यत्वे गौरवात् / ननु संयोगध्वंसस्य घटात्यन्ताभावसम्बन्धरूपत्वे गुणादौ तदत्यन्ताभावसम्बन्धो न स्यात् , यदि च तत्र स्वरूपमेव सम्बन्धः, तदा प्रकृतेऽपि तथाऽस्तु. तत्कादाचित्कत्वाभ्युपगमाच्च प्रतीतेरपि तथात्वोपपत्तेः / किञ्च, सामान्यध्वंसस्य तद्धटसंयोगसामान्य वा, तद्भूतलघटसंयोगसामान्यं वा प्रतियोगि? नायः, व्यधिकरणस्यानागतस्य च संयोगस्य तदा तत्र भूतले ध्वंसासम्भवेनात्यन्ताभावसम्भवानुपपत्तेः / नान्त्यः, यत्र भूतले कदापि न तटसंयोगस्तत्र प्रतियोग्यप्रसिद्धया तादृशध्वसाभावेनात्यन्ताभावसम्बन्धानुपपत्तेः, अनागतसंयोगमादाय पूर्वदोषापत्तेश्चेति पूर्यास्वरसादाह / यथेति / यथा दण्डोपनयापनयाभ्यां दण्डावच्छिन्नपुरुषविरहः कादाचित्कः, संयोगावच्छिन्नघटविरहोऽपि तथेत्यर्थः / नन्वेवं संयुक्तत्वेनैव घटोपस्थितिरभावप्रतीत्यङ्गं स्यात् , न तु घटत्वमात्रेण, तस्य प्रतियोगितावच्छेदकत्वात्, न चेष्टापत्तिः, तत्प्रकारकतदुपस्थित्यनन्तरमपि भूतले तद्घटाभावप्रतीतेरनुभवसिद्धत्वादित्यनुशयादाह / यथाऽनादीति / समयविशेषसंसर्गिणा नित्याभावेनैवोपपत्तो न तुरीयकल्पनमित्यनभिमतिबीजमत्रापि द्रष्टव्यम् / तदुपलम्भकं = प्रतियोग्युपलम्भकं, तस्य सत्त्वे समवधाने मेलने इति यावत् / उपलम्भो = लौकिकप्रत्यक्षम् / तथा च प्रतियोगितद्वयाप्याभ्यामितरद् यावत् तदुपलम्भकं, तत् सत्त्वे अनुपल टिप्पणी। सत्त्वासत्त्व इति व्याख्याजदर्शनात् नाशस्य ध्वंसेऽसम्भवाच्च, तथा च भाविघटसंयोगे भूतलेऽत्र घटो नास्तीति प्रतीतेर्घटाभावविषयकत्वस्य सम्बन्धविरहेण वक्तुमशक्यत्वेन घटसंयोगध्वंसविषयत्वमेव, घटाभावविषयकत्वं तु यत्र संयोगासमानकालीनः संयोगध्वंसस्तत्रैव जायमानायाः प्रतीतेः, एवञ्च "संयोगो ह्यो"त्यादिमूलस्यापि नासङ्गतिरिति बोध्यम् / अन्य इति / अत्रा