________________ 244 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजलो [1 कारिकाव्याख्यायो प्रकाकाः। भावः। घटनिषेधे हि भूतले घटाभावो न प्रागभावध्वंसाऽऽत्मकः प्रतियोगिसमानकालत्वात् / नाप्यत्यन्ताभावः, कदाचित् तस्य तत्र भावात् . तस्माद् घटसंयोगो निषिद्धयते, स च संयोगो य एतद्धटस्य तत्र भावी तस्य प्रागभावः, अतीतस्य ध्वंसः, सर्वदैवाऽभवतश्चात्यन्ताभावः / ननु भूतले घटो नास्तीति घटप्रतियोगिकाभावोऽनुभूयते, संयोगस्य तु प्रतियोगित्वे संयोगो नास्तीत्यनुभवापत्तिः / मैवम् / घटो नास्तीति बुद्धेरेव संयोगाभावविषयत्वात् / यथा हि भूतले घटास्तित्वबुद्धिस्तत्संयोगेन, तथा तदभावेन घटाभावबुद्धिः / यत्सम्बन्धपुरस्कारेण यत्र यद्भावबुद्धिस्तदभावपुरस्कारेण तत्र तन्नास्तिताप्रतीतिः / केचित्त, घटात्यन्ताभाव एव तद्विषयः / उत्पादविनाशधीस्तु तत्सम्बन्धतथात्वप्रयुक्ता, सच तत्मयोगध्वंसरूपः / न चैवं घटात्यन्ताभावसम्बन्धस्य संयोगध्वंसरूपतया नित्यत्वाद् घटधीस्तत्र कदापि न म्यादिति वाच्यम् / न हि यत्र यत्संयोगोऽस्ति तत्र तत्संयोगध्वंसः, सामान्यध्वंसस्य . प्रकाशिका। घटादावभावादिति तदभावस्तदभावाप्रयोजकत्वान्नोपाधिरिति भावः / अभावत्वावच्छिन्नप्रत्यक्षत्व प्रयोजक दृश्यप्रतियोगिकत्वमित्यभिप्रायेणाग्रे उभयेत्यादिसिद्धान्तः। केचित तदेतन्निराकरोति उभयेतीत्यनन्तरं नापीत्यादिफक्किका / तदर्थश्च, उभयानिरूपणीयत्वेऽपि उभयदृश्यतैवाभावयोग्यता, तथाचाप्रयोजकत्वं स्थापनाहेतोरित्यर्थः / अभावत्वावच्छिन्नसाध्यव्यापकत्वेऽपि नष्टाश्रयद्रव्यगुणायभावे साध्याव्यापकतया मिलितस्याप्रयोजकत्वे दृश्यप्रतियोगित्वमात्रस्यैव प्रयोजकत्वमिति भावः / नन्वेवं घटे भूतलं नास्ति रूपे घटो नास्तीति प्रतीत्योर्धमत्वापत्तिः, भूतलसंयोगस्य घटे, घटसमवायस्य रूपे सत्त्वात् / न च भूतलविशिष्टसंयोगाभावस्तत्रास्त्येव भूतलाभावादेवमितरत्रापीति वाच्यम् / एवं सति विशेषणभूतलघटायभावविषयत्वमेव प्रतीत्योस्तस्यावश्याभ्युपेयत्वादित्यनुशयादाह / केचिदिति। तत्सम्बन्धेति। सम्बन्धसत्त्वासत्त्वपयुक्तत्यर्थः / न वं प्रतीतेः संयोगाभावाविषयत्वे "संयोगो हो"त्यादि मूलविरोध इति वाच्यम् / एवमप्युत्पादादिप्रतीत्यर्थं संयोगाभावप्रतीतेरुपेयत्वात् / सामान्यध्वंसस्येति / इतराभावध्वं मकरन्दः। ध्यव्यापकत्वं, नष्टाश्रयकरूपायभावे साध्याव्यापकत्वादिति भावः। एतेन पूर्वपक्षिवचनत्वेनास्य ग्रन्थस्यासङ्गतिरित्यपास्तम् / सिद्धान्तिनैव स्वातन्त्र्येण स्वहेतोरप्रयोजकत्वमाशङ्कय परीहारकरणात् / केचितु नापीत्यस्य पूर्व तदेतन्निराकरोति नोभयस्येति प्रक्षिप्य सिद्धान्तिवचनं कृत्वा योजयन्ति / नन्वेवं घटे भूतलं नास्तीति बुद्धेरपि तत्संयोगाभावविषयत्वे भ्रमत्वापत्तिः। न चेष्टापत्तिः, तम्याः प्रमात्वेन सर्वसिद्धत्वात् / एवं रूपे घटो नास्तीति बुद्धेरपि तत्संबन्धाभावविषयकत्वे भ्रमत्वापत्तिः। न च तत्संबन्धाभावविषयकत्वं तद्विशिष्टसंबन्धाभावविषयकत्वं, विशिष्टाभावश्च विशेषणाभावाधीनस्तत्रास्त्येवेति न भ्रमत्वमिति वाच्यम् / हन्तवमावश्यकविशेषणाभावविषयत्वेनैवोपपत्तौ विशिष्टाभावविषयत्वकल्पने गौरवान्मानाभावाचेत्यनुशयादाह / केचित्विति / तत्सम्बन्धतथात्वेति / तत्सम्बन्धसत्वासत्त्वप्रयुक्तेत्यर्थः / सामान्यध्वंसस्येति / प्रतियोगितावच्छेदकमेदेनाभावभेदाद टिप्पणी। स्यत्र निषेधे आधारो निषेधाधिकरणत्वेन विवक्षितः, तथा च यदा हि यो यत्र निषिध्यते, तदानीं तादृशाधारनिषेधदृश्यत्वं प्रयोजकमन्यथा दृश्यमात्राधारम्य अत्यन्ताभावमात्र एवाभावाद् दृश्यानामपि बहूनामेकदा ज्ञानासम्भवादभावमात्रस्याप्रत्यक्षत्वापत्तेः / एवं च निषेधो हि प्रसक्तस्यैवेति घटे घटस्य प्रसक्तयभावेन तत्र निषेधाभावात् तस्याप्रत्यक्षत्वं न क्षतिकरमिति भावः। संयोगाभावनिषेधे हि संयोगस्य भूतल इव घटेऽपि प्रसक्तेस्तदानीं निषेधाधारत्वस्योभयत्र तुल्यत्वादुभयदृश्यत्वं विनिगमकाभावादपेक्षणीयमिति बोध्यम् / उत्पादविनाशधीरिति / उत्पादविनाशौ सत्त्वासत्वे, तथात्वेत्यस्य