________________ - द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् / 243 * योग्यतात्वापत्तेः / न चैवमेव, धर्मादिप्रध्वंसग्रहणप्रसङ्गात् / दृश्याधारत्वं दृश्यप्रति योगिता चेति द्वयमप्यस्य योग्यतेति चेन्न / उभयनिरूपणीयत्वनियमानभ्युपगमात् / प्रतियोगिमात्रनिरूपणीयो ह्यभावः / अन्यथेह भूतले घटो नास्तीत्येषाऽपि प्रतीतिः प्रत्यक्षा न स्यात् / संयोगो ह्यत्र निषिद्धयते, तदभावश्च भूतलवद् घटेऽपि वर्तते, तत्र यदि प्रत्यक्षतया भूतलस्योपयोगो, घटस्यापि तथैव स्यादविशेषात् / अथ घट बोधनी इति / नन्वापद्यतामैंन्द्रियकाधारतैव योग्यतेत्यत्राह / न चैवम् इति / ऐन्द्रियकाऽऽत्माधारो हि धर्मादिप्रध्वंस इति / दृश्याधारत्वम् इति / ततश्च न धर्मायभावस्य प्रत्यक्षत्वापत्तिरदृश्यप्रतियोगिकत्वात् , नापि शब्दाभावस्यातीन्द्रियाधारत्वात् त्तस्येति / न इति / न ह्याधारेणापि निरूपणीय इति / कथं तयभ्युपगम इत्यत्राह / प्रतियोगि इति / आधारनिरूप्यत्वेऽनिष्टमाह / अन्यथा इति / किमिति न स्यादत आह / तत्र इति / तयोर्यदि भूतलमाधारोऽभावनिरूपणे प्रत्यक्षतयोपयुज्यते घटोऽपि तथा स्यात् श्राधारत्वाविशेषात् , तथा च परोक्षे घटे इह घटो नास्तीति प्रतीतिर्न स्यादिति भावः / अथ इति / प्रकारभेदं सूचयन्नार्थस्तुशब्दः प्रतियोगिनः संसर्गस्य निरूपणाय प्रकाशः। तम् , न चैतद् धर्मादिध्वंसस्यास्तीत्याह / दृश्येति / तद्विरहश्च नोपाधिः, साधनव्यापकत्वात् / नाऽप्युभयस्य साध्यप्रयोजकत्वेनाप्रयोजकत्वम् / ऐन्द्रियकत्वरूपसाध्यसामान्याव्यापकत्वेनानुपाधित्वादिति भावः। विपक्षे बाधकमाह। अन्यथेति / यद्युभाभ्यां प्रत्यक्षाभ्यामेवाभावः प्रत्यक्ष इत्यर्थः / ननु भूतलमात्रमत्राऽऽधारः, तच दृश्यमेवेत्यत आह / संयोगो होति / न चात्र माना प्रकाशिका। नेनेति / प्रयोजकत्वमेवेति / साधनाव्यापकत्वरूपमुपाधिरिति शेषः / नापीति / दृश्याधारत्वस्य दृश्यप्रतियोगिकत्वस्य च मिलितस्य प्रत्यक्षप्रयोजकत्वेनाप्रयोजकत्वं केवलस्य दृश्यप्रतियोगित्वस्य स्यात् तत्र च लाघवादावश्यकत्वाच केवलमेव प्रयोजकमिति भवति तदभाव उपाधिः साधंनाव्यापक इत्यर्थः। ऐन्द्रियकत्वेति / एवं च नैन्द्रियकत्वसामान्यप्रयोजकं दृश्यप्रतियोगिकत्वं मकरन्दः। नाप्युभयस्येति / दृश्याधारत्वसमानाधिकरणदृश्यप्रतियोगित्वसाध्यप्रयोजकतया. उपाधित्वेन स्थापनाहेतोरप्रयोजकत्वं नेत्यर्थः / ऐन्द्रियकत्वरूपेति / न चाभावत्वपक्षधर्मावच्छिन्नसा टिप्पणी। ग्राहकमित्यर्थः / ननूभयनिरूप्यत्वं मास्तु योग्यत्वं किन्तूभयदृश्यत्वमेव तथा च म्थापनानुमान इन्द्रियाधारत्वमुपाधिरित्याशयवानाह / उभयस्येति / ऐन्द्रियकाधारत्वैन्द्रियक प्रतियोगित्वयोरित्यर्थः / साध्यस्य = इन्द्रियप्राह्यत्वस्य / प्रयोजकत्वेनेत्यर्थः। अप्रयोजकत्वं स्थापनानुमानस्येति शेषः / इन्द्रियावारत्वरूपोपाधिसद्भावादिति भावः / ऐन्द्रियकत्वेति। तस्य शब्दे सत्त्वेन तत्रोपाध्यभावादव्यापकत्वम् / अभावत्वावच्छिन्नसाध्यव्यापकत्वमपि नष्टाश्रयद्रव्यगुणादिनाशे व्यभिचारेणासम्भवीति न स्थापनानुमानस्याप्रयोजकत्वमिति भावः / एवञ्च नोभयं प्रयोजकमुक्तनाशस्याप्रत्यक्षापत्तेरित्यवधेयम् / केचित्तु तदेतन्निराकरोतीति पूर्वमेव नापीति पठन्ति / तेषामयमाशयः, उभयस्येत्यनन्तरं प्रत्येकस्येति शेषः / तथा च लाधवादावश्यकत्वाच प्रत्येकस्यन्द्रियकप्रतियोगिकस्वस्य प्रयोजकत्वेनोभयस्याप्रयोजकत्वात् योग्यत्वाभावः साधनाव्यापकत्वाद् भवत्येवोपाधिरिति भावः / ऐन्द्रियकत्वेति / ऐन्द्रियकत्वं प्रति तस्याव्यापकत्वे तदभावं प्रति तदभावस्याप्रयोजकत्वेन साध्यप्रयोजकस्यैव पूर्वसाधनव्यतिरेकम्योपाधित्वेनास्यानुपाधित्वमिति भावः / भूतलमात्रमत्राधार इति / अत्र भूतले घटो नास्ती