________________ द्वितीयस्तवके ] शब्दानित्यत्वोपपादनम् / 241 तस्मात् , संबन्धान्तरमन्तरेण तदुपश्लिष्टस्वभावत्वमेव हि तयोः। सैव च विशिष्टप्रत्ययजननयोग्यता, विशेषणतेत्युच्यते। सा चात्र दुर्निवारा, प्रतियोग्यधिकरणेन स्वभावत एबाभावस्य मिलितत्वात् / तथापि तया तथैव प्रतीतिः कर्त्तव्येति चेन्न / गृह्यमाणविशेष्यत्वाऽवच्छिन्नत्वाद् व्याप्तेः / अन्यथा, संयुक्तसमवायेन रूपादौ विशिष्टविकल्पधीजननदर्शताद् गन्धादावपि तथात्वप्रसङ्गात् / तथापि नेन्द्रियविशेषणतया कस्यचिद् ग्रहणं दृष्टम् , अपि विन्द्रियसंबद्धविशेषणतया, सा चातो निवर्तत इति चेन्न / अस्य प्रतिबन्धस्य इन्द्रियसनिकृष्टार्थप्रतिसंबन्धिविषयत्वात् / बोधनी। तस्मात् इति। अस्त्वेवं सम्बन्धः, विशेषणतातु कथं तयोः सिध्येत् , सम्बन्धान्तरपूर्वकस्वात् तस्या इत्यत्राह / सैव इति / तदुपश्लिष्टस्वभावतैव नीलोत्पलादिष्वपि विशेषणता, तस्या एव विशिष्टप्रत्ययजननयोग्यतारूपत्वाद् योग्यतैव विशेषणमिति भावः / सा च योग्यताऽत्र शब्दप्रध्वंसे दुर्वारा प्रतियोगिनः शब्दस्याधिकरणेनाकाशेन सम्बन्धान्तरमन्तरेणैव शब्दाभावस्योपश्लिष्टत्वादित्याह / सा चात्र इति / नन्वस्तु योग्यतैव विशेषणत्वं, विशेष्यव्यवस्थापनं च तत्फलम् , तथापि यद्यस्ति शब्दाभावस्य स्वभावत उपश्लेषादाकाशं प्रति विशेषगता, तर्हि तथा विशेष्यव्यस्थापनेन प्रतीतिरुत्पा' दयितव्या, भूतलादिविशेषणे घटाभावादौ तथा दर्शनात् / न च तत्सम्भवति विशेष्यस्थाकाशस्यातीन्द्रियत्वादित्याशयेनाह / तथापि इति / न इति / विशेष्यग्रहणयोग्यताप्रयुक्तं तन्न तु विशेषणत्वमात्रप्रयुक्तम् , तन्मात्रप्रयुक्तायां व्याप्तौ बाधकमाह--अन्यथा इति / यथा रूपादौ विशेषणे गृह्यमाणे द्रव्यमपि तद्विशिष्टं गृह्यते, तथा गन्धादावपि स्यात् , तत्रापि सन्निकर्षस्य विशेषणत्वस्य चाविशेषात् / न हि तदस्ति विशेष्यस्यायोग्यत्वात् तत्र इति / नन्वस्तु विशेणतया ग्रहणं, तथापि अघटं भूतलमित्यादाविन्द्रियसम्बद्धविशेषगतयैवाभावस्य ग्रहणं दृष्टं, न तु कचिदिन्द्रियविशेषणतया, सा चेन्द्रियसम्बद्धविशेषगता ततः शब्दाभावानिवर्तमाना स्वव्याप्यमिन्द्रियग्राह्यत्वमप्युपादायैव निवतत इति व्यापकानुपलब्धिरेव तस्यानेन्द्रियकत्वे प्रमाणमित्याह / तथापि इति / न इति / यो प्रकाशः। तथापि सम्बन्धं विना कथं विशेषगत्वमित्युपसंहरनेव निराकरोति तस्मादिति / सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यत्वमेव स्वरूपसम्बन्धोऽस्तीत्यर्थः / तथापि कथं विशेषगतेत्यत आह / सैव चेति / प्रतियोगीति / प्रतियोगिनः शब्दस्याधिकरणेन श्रोत्रेण शब्दाभावस्य स्वभावसन्निकृष्टत्वादित्यर्थः / तथापोति / तया विशेषणतया। तथैव सग्निकषण विशिष्टविशेष्यविषयव बुद्धिः कर्तव्या। विशेष्यस्य श्रोत्रायोग्यतया च साऽत्र न सम्भवतीत्यर्थः / गृह्यमाणेति / तद्विशेष्यकप्रत्यक्षे तयोग्यता प्रयोजिका, अत्र तु विशेष्यं श्रोत्रमयोग्यम्, अतो विशेष्यमविषयीकृत्य विशेषणतया प्रत्यासत्या शब्दध्वंसप्रत्यक्षं जन्यत इत्यर्थः। अन्यथेति। यदि नैवं, तदा स्वाश्रये गृह्यमाणे रूपादिप्रत्यक्षदर्शनादगृह्यमाणे वायावाश्रये तत्स्पर्शप्रत्यक्षं न स्यादित्यर्थः। तथाऽपीति / सम्बन्धान्तरं विना विशिष्टप्रत्ययजननयोग्यतयेन्द्रियप्रत्यासत्त्या सम्बद्ध विशेषणस्यैव प्रत्यक्षजननदर्शनानेन्द्रियविशेषणता प्रत्यासत्तिरित्यर्थः। अस्येति / इन्द्रियसनिकृष्टोऽर्थों घटादिस्तस्य प्रतिसम्बन्धी द्वितीयः स तथेति, न विशेषणतामात्रमेवम्, अपि तु मकरन्दः। तथापीति / उपसंहरनेव इति निराकरोतीत्यन्वयः / विशेष्यमिति / विशेष्यत्वेनेति शेषः / यद्वा, एतन्मते निरधिकरणाऽप्यभावप्रतीतिः, कालायधिकरणा वेति तथोक्तम् / / टिप्पणी। विशेषणताभिनेनासम्बद्धत्वाद् विशेषणस्य तत्त्वेनान्योन्याश्रयादित्यर्थः / न विशेषणतामात्र३१ न्या० कु.