________________ 240 व्याख्यात्रयोपेतप्रकाशबोधनोयुते न्यायकुसुमाजलौ [ 1 कारिकाव्याख्खायाँ धिको विशेषणविशेष्यभावः / विशेष्यस्यातीन्द्रियत्वात् कथमन्द्रियकविशिष्टज्ञानविषयत्वम , तथा विशेष्यमव्यवस्थापयतश्च कथं विशेषणत्वमिति चेन्न / तथा विशेज्यव्यवस्थापनायाः फलत्वात् / न तु तदेव विशेषणत्वम् , अात्माश्रयप्रसङ्गात् / विशेषणभावेन समवायाभावयोग्रहण, तथाग्रहणमेव च विशेषणत्वमिति / / बोधनी ततः शब्दाभावविशिष्टत्वेन श्रोत्रं ग्रहीतव्यं, न चैतस्संभवति श्रोत्रस्यातीन्द्रियवादित्याह-वि. शेप्यस्य इति / विशिष्टज्ञानविषयत्वाभावे को दोषस्तत्राह-तथा-इति। न हि स्वजन्यवि. शिष्टज्ञानविषयस्वेन विशेष्यमनवच्छिन्दतो विशेषणत्वं नाम / विशेष्यव्यवस्थापकस्यैव विशेषणत्वादिति भावः / न इति / तथा विशेष्यव्यवच्छेदो विशेषणस्य फलं. न तु विशेषण त्वमिति / कुत इत्यत आह / आत्माश्रय / इति / कथमित्यत्राह / विशेषणभावेन इति / विशेषणभावो हि सन्निकर्षः समवायाभावयोहणतः। तत्र यदि विशेष्यस्थापनमेव यिशेषणत्वं तदा पिशेषण भावेन तयोर्ग्रहणं, विशेषणाभावश्च तथाग्रहण मेवेत्यात्माश्रयत्वं दृष्टान्तार्श समवायोपसंग्रहण मिति / ततश्चैवमङ्गीकार्य मित्याह प्रकाशः। मभावस्य तदा स्याद्यदा श्रोत्रं शब्दध्वंसज्ञाने भासेत, न चैवम, श्रीप्रस्यापीन्द्रियत्वात् / ततो न शब्दध्वंसस्य तद्विशेषणत्वम् / स्वसम्बन्धेन विशेष्ये व्यावृत्तिबुदयजनकत्वात् / नाऽपि श्रोत्रं विशेष्यं. व्यावृत्तबुद्धयविषयत्वादित्याह विशेष्यम्येति / श्रोत्रस्यातीन्द्रियत्वेऽपि शब्द लिङ्गजश्रीत्रज्ञानसहकारि-मनः-प्रसूतानुमितिविषयत्वं स्यादित्यभिप्रेत्याह तथेति / विशेषणतासम्बन्धस्य हि विशिष्टज्ञानं फलं, न तु तदन्तर्भावणेव स इत्यर्थः / छात्माश्रयमेवाह विशेषणभावेनेति / प्रकाशिका। व्यभिचाराप्रयोजिका / तद्विरहस्यासा ध्यत्वादिन्यर्थः / स्थापनानुमानेऽपि फलोपधानमेव साध्यमिति सत्प्रतिपक्षसत्त्वासङ्गतिरिति भाव इत्याहुः / पाहुरित्यस्वरसे, तबीजन्तु अनन्तस्य सर्व. दासनिकृष्टस्य तदिन्द्रियासन्नि कृष्टस्य तदिन्द्रियायोग्यत्वं यथात्मनः श्रोत्रायोग्यत्वमिति तथैव हेतुः करणीयो योग्यतातद्विरहावेव च स्थापनाप्रतिस्थापनयोः साध्यत्वेनाभिमताविति यथाश्रुतमेव सम्यगिति / शब्दध्वंसज्ञान इति / विशेष्यतयेति शेषः / शब्दलिजेति / विशेषणतयेति शेषः। शब्दरूपलिङ्गजेत्यर्थः। अनुमितीत्युपलक्षणम् / उपनौतभानेत्यपि द्रष्टव्यम् / इदं च शब्दध्वंसविशेषणकश्रोत्रविशेष्यकप्रत्ययमभिप्रेत्योक्तम् / शब्दध्वंसविशेष्यकातु प्रत्ययः श्रोत्रेणापि सम्भवत्येवेत्यवधेयम् / अविषयीकृत्यापोति निरधिकरणैवाभावप्रतीतिः, काला यधिकरणा वेत्यभिप्रायेणेदम / वस्तुतोऽविषयीकृत्य = अविशेष्यीकृत्येत्यर्थः / एवं च श्रोत्रे शब्द. ध्वंस इत्याकारकमेव प्रत्यक्षमित्यर्थः। सत्यपि व्यर्थी व्यभिचाराप्रयोजिकेति स्वरूपासिद्धिरेवोक्तेत्यर्थः / वस्तुतः, स्थापनांयां योग्यस्वमेव साभ्यम् . अन्यथा व्यभिचारप्रसङ्गादिति तदभाव एवात्र साभ्यः। तत्र चाप्रसिद्धिरूपलक्षणत. योक्तेति व्यभिचारसत्त्वेऽप्यदोष इति तत्त्वम् / अत एवास्वरसादुक्तमित्याहुरिति / शब्द. लिङ्गजेति / शब्दरूपलिङ्गजेत्यर्थः। अनुमितिविषवत्वमित्युपलक्षणम् / मानसप्रत्यक्षविषय. त्वमित्यपि द्रष्टव्यम् / यद्यपि श्रौत्र प्रत्यक्षविषयत्वमपि सम्भवति, तथापि तत्र श्रोत्रस्य विशेष्यत्वमिति तन्नोकम् / टिप्पणी। मिति / साक्षात्कारविषयत्वमिति कचित् पाठः, तत्र साध्य स्थापनानुमाने साध्यमित्यर्थः / असम्बन्धेन विशेष्ये इति / स्वसम्बन्धेनेत्यपि पाठः / स्वं विशेषणता तदात्मकेन सम्बन्धेने. त्यर्थः / तस्य विशेष्येऽसत्वात्तत्र व्यावृत्तिबुद्धिजनकत्वासम्भवादित्यर्थः / असम्बन्धेनेति पाठे तु मकरन्दः /