________________ 234 व्याख्यात्रयोपेतप्रकाशबोधनायुते न्यायकुसुमाञ्जली [1 कारिकाव्याख्यायो प्रामाण्यमिति को विरोधः?।न / उभयस्याप्यसिद्धः। न हि वर्णा एव तावनित्याः। तथा हि / इदानीं श्रुतपूर्वो गकारो नास्ति, निवृत्तः कोलाहल इति प्रत्यक्षेणैव शब्दध्वंसः प्रतीयते / न हि शब्द एवान्यत्र गतः। अमूर्त्तत्वात् / नाप्यावृतः। तत एव संबन्धविच्छेदानुपपत्तः। नाप्यनवहितः श्रोता। अवधानेऽप्यनु. पलब्धेः। नाऽपोन्द्रियं दुष्टं, शब्दान्तरोपलब्धेः। नाऽपि सहकार्यन्तराभावः / मन्वयव्यतिरेकवतस्तस्यासिद्धः। नाप्यतीन्द्रियम्।तत्कल्पनायां प्रमाणाभावात् / - बोधनी। वक्तृगुणज्ञानादिनिरपेक्षमेव प्रामाण्यं सिद्ध्यति, नित्यत्वेन तदनपेक्षत्वात् महाजनपरिप्रहाच्च प्रा. माण्यसिद्धः, ततः प्रमायाः पारतन्येऽपि नेश्वरसिद्धिरिति भावः / न-इति / नित्यत्वस्य तद. धौनानपेक्षत्वस्य चासिद्धिः। यद्वा, नित्यत्वस्य परिप्रहस्य च, यद्यपि सिद्धः परिवहस्तथापि नित्यत्वे वेदस्य निर्मूलतया अपत्करुप एवेति भावः / नित्यस्त्रासिद्धिमाह-न हि-इति / वर्गानामेवानित्यत्वे कुतस्तत्समूहात्मकस्य पदस्य नित्यत्वं, कुतस्तरी तत्समूहात्मनो. वाक्यस्य, कुत. स्तमा तत्समूहात्मनो वेदानामिति तावच्छन्दस्यार्थः / कथं वर्णानामनित्यत्वमित्यत आह-तथा हि इति / विशेषतः सामान्यतश्च शब्दानां सरूपमनित्यत्वं श्रोत्रप्रत्यक्षेणानुभूयत इति / नन्वयं शब्दानुपलम्भ एव, स च ध्वंसं विनाप्युपपत्स्यत इत्यत्राह-न हि इति / अमूर्तत्वस्य नि क्रियरवन्याप्तेरिति / अमूर्त्तत्वादेव शब्दस्यन्द्रियसंबन्धविच्छेदलक्षणमावरणमपि घटादेरिव न घटत इत्याह-नापि इति / नापि सस्यैवेन्द्रियसंबन्धे श्रीतुरनवधानादनुपलब्धिरिन्द्रियदोषाद्वा संभवतीत्याह-नाप्यनवहितः-इतिः। नन्वदुष्टेऽवि श्रोत्रेन्द्रिय प्रतिशब्द तत्सहकारिणां भेदा: च्छब्दान्तरोपलम्भेऽप्यनुपलम्भः शब्दान्तरस्योपपद्यते, तेन न तदनुपळम्भः सहकार्यत्तराभावादित्यत आह-नापि सहकारि-इति / शब्दोपलम्भ प्रत्यन्वयव्यतिरेकवतः सहकारिणः प्रत्यक्षणासिद्धिरिति / तस्चातीन्द्रियत्वादनुपलब्धिरित्यत्राह-नापि-इति / अतस्य शब्दस्याभावेन, बोत्तरकालमनुपलम्भोपपत्त्यर्थं सहकारिकल्पनाया प्रमाणाभावादिति / तथापि तावस्कल्पने ध्व. प्रकाशः। उभयस्येति / यद्यपि वर्णानां नित्यत्वेऽप्यर्थप्रत्ययानुकूलानित्यानुपूर्वी विशेषघटितत्वेन वेदोs. नित्य एवेति तत्र वक्तृगुणापेक्षाऽस्त्येव, तथापि वर्णस्यानित्यत्वव्युत्पादने तत्समूहविशेषवाक्यवि. शेषरूपस्य तस्य सुतरामनित्यत्वं सिद्ध्यतीत्याशयेन वर्णमात्रस्यानित्यत्वं साधयति / तथा होति / भनभिव्यक्तवर्णत्वव्याप्यजातिविशेषो वर्णसमूह एव कोलाहलः / प्रत्यक्षमेव वर्णस्यानित्यत्वम् / बोग्यानुपलब्धेः प्रत्यक्षप्रतियोगिकाभावत्वेनैव घटामावस्यैव तदभावस्य प्रत्यक्षत्वादित्यर्थः / प्रत्यक्षस्यान्यथासिद्धिं निराकरोति। न हीति / येन सन्नपि नोपलभ्यत इत्यर्थः / तत एव = अमूर्तत्वादेव / इन्द्रियसम्बन्धविच्छेदो यावरणम् / स च शब्दस्य विभुत्वादाकाश विशेषगुणत्वे च श्रोत्रसमवायस्य नित्य स्वादयुक्त इत्यर्थः। तत्कल्पनेति / अतीन्द्रियशब्दोपळम्भककल्पनेत्यर्थः / ननु प्रतियोगियोग्यता मात्र नाभावप्रत्यक्षत्वे तन्त्रं, किन्त्वधिकरणयोग्यताऽपि। सा च शब्द: प्रकाशिका। तद्विनष्टत्वप्रतीतिनं वर्णनित्यत्वे प्रमाणमत आह / शब्दस्य विभुत्वादिति भट्टमते / श्रोत्रसमवायस्येति / नित्यप्रतियोगिकसमवायस्य गुरुणापि नित्यत्वाभ्युपगमादिति भावः / विवादविषयत्वं मकरन्दः / ननु कोलाहलस्य ध्वन्यात्मकत्वात् तदनित्यत्वेऽपि वर्णानिस्यत्वं न सेत्स्यतीत्यत बाह। अनभिव्यक्तति / शब्दस्य विभुत्वादिति भएमते / अन्त्यशब्दध्वंसेऽमि कदा चिद्विवादसम्भ