________________ 232 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यावकुसुमाजलौ [1 कारिकाव्याख्यायो तुल्यम् / सोऽपि प्रामाण्यमाक्षिपतीत्युत्सर्गः। स च क्वचिद्वाधकेनापोयत इति चेत् / लिङ्गेऽप्येवमिति तुल्यम् / तहिं प्रामाण्यानुमानेऽपि शङ्का तदवस्थैवेति नि. फल प्रयास इति चेत् / एतदपि तागेव / अनुपपद्यमानोऽर्थ एवासौ तथाविधः कश्चिदु. यः स्वप्नेऽपि नाभासः स्यात्ततो नाशङ्कति चेत् / लिङ्गेऽप्येवमिति समः समाधिः। कः पुनरसावों यःस्वप्नेऽपि नाभासःस्यात्, यदनुपलम्भे विभ्रमावकाशोयागुपलम्मे च तद्वाधव्यवस्था। अन्यथा हि,तथाभूतस्यापि व्यभिचारे साऽ. बोधनी। सोऽपि इति / अनुपपद्यमानाभासोऽपि इति / लिङ्गाभाम्रोऽप्येवमित्याह-लिङ्गेऽपि इति / यदि लिङ्गाभासेनापि प्रामाण्यानुमानं तर्हि तदनुमितप्रामाण्य ज्ञानस्याप्यप्रामाण्यशका निवत्तेति व्यर्थः प्रामाण्यानुमानप्रयास इत्याह-तर्हि-इति / अर्थापत्तिवादिनोऽपि तुममेतदित्याह-पतद. पिइति / ननु यदन्तरेण हि यनोपपद्यते न तत् तदन्तरेणाप भवतीति भवति, तस्मादनुपप. द्यमानस्यामासत्वं न संभवतीत्याह अनुपपद्यमान इति / तर्हि तदविनाभूतस्य तेन विनापि भानासंभवात् लिङ्गाभासोऽपि न संभवतीत्याह-लिङ्गेऽपि-इति / अत्रान्तरे पावस्थः 'पृच्छ. ति-कः पुनः इति / योऽसौ युवाभ्यामुच्यते नाभासः स्यादिति कोऽसावर्थ इति। उत्तरं यद. नुपलम्भे इति / यस्य तदितरल्यावर्तधर्मविशिष्टस्य वस्तुनोऽनुपलम्भे भ्रान्तिर्भवति यारशस्योपलम्भे चासौ न भवति सोऽर्थः स्वप्नेऽपि नामासः स्यादिति / अनाभासस्योपलक्षणान्तर. माह-बाध इति / तदितरव्यावर्तकधर्मानुपलम्भोपलम्भाभ्यां हि ज्ञानयोर्बाध्यबाधकव्यवस्थेति / यद्वा, यादृशस्योपलम्मे बाधकं व्यवतिष्ठते नातः परं भवति सोऽप्यर्थः। अन्यथेत्यस्य विवरण तथभूत. स्यापि व्यभिचार इति / सापि-बाधकव्यवस्थापि न स्यात् / न युभयोरविशिष्टायो व्यभि. चारशङ्कामामेकं बाधकमितरद् बाध्यमिति व्यवस्था सिम्येदिति / पापि मा भूत् का नो हानिरि. . प्रकाशः। निश्चय इत्यर्थः / भट्टमते शाततारूपलिङ्गज्ञानस्य प्रामाण्यसंशयान्न तन्निश्चय इति तद्ग्राहकपरम्प. राप्रामाण्यानुस्मरणेऽप्यनवस्थेत्याह / तत्किमिति / सोऽपोति / मायालिङ्गिनि झटिति परिवा. जकत्व बुद्धिवदप्रमाऽपि प्रमेत्येव गृह्यत इत्यर्थः। फलमुखोमनवस्थामाह / तीति / यदनुपलम्भ इति / यस्य विशेषस्य शुक्तित्वादेरनुपलम्भे शुक्ती रजतभ्रमो यस्य तु शुक्तिस्वादे. रुपलम्भे भ्रमबाधो व्यवतिष्ठते, स लोकसिद्ध इत्यर्थः / यद्यपि यदुपलम्भ इति वक्तुमुचितं, तथापि बस्तुगत्या विशेषस्य ज्ञानं न भ्रमविरोधि, अपि तु विशेषत्वेनेति दर्शवितुं यागित्युक्तम् / एव. मनभ्युपगमे लोकव्यवहारविरोध इत्याह / अन्यथेति / साभ्रमवाधव्यवस्था। बाधकस्य व्यमि प्रकाशिका। सामान्यत भाशङ्का, इदानीन्तु विशेषतः प्रशान्तरेण दोषान्तरदानाय चेति न पौनरूक्तपम् / मकरन्दः। प्यनवस्थेति भावः / मिश्रमतेऽप्यनवस्था द्रष्टव्या। फलमुखीमिति। यद्यपि पूर्वमेवमाशङ्का परि. हृतव, तथापि सामान्यतः सा, विशिष्येदानीमाशङ्केति न दोष इत्येके। प्रसझान्तरेण दोषान्तरदानाय पुनराशङ्केत्यन्ये। टिप्पणी। व्युत्पत्तेः प्रामाण्यधर्मवादित्यर्थः, तथा च ज्ञानेन विषयप्रामाण्यमेव प्राह्यम् न तु प्रामाण्यव. मभूतं प्रामाण्यमिति भावः / अत्र खरूपप्रामाण्यान्यत्वादिति पाठः।।