________________ 231 - द्वितीयस्तबके ] प्रामाण्यपरतस्त्वोपपादनम् / स्वतः पक्षेऽपि सा स्यात् / लिङ्गं निश्चितमेव निश्चायकम् , ततस्तन्निश्चयार्थमवश्यं लिशान्तरापेक्षायामनवस्थेति चेत् / तत् किमनुपपद्यमानोऽर्थोऽनिश्चित एव स्वोपपादकमाक्षिपति, येनानवस्था न स्यात् / प्रत्यक्षेण तस्य निश्चयात्तस्य च सत्तयैव निश्वायकत्वानवमिति चेत् / ममापि प्रत्यक्षेण लिङ्गनिश्चयात्तस्य च स. त्तयैव निश्चायकत्वान्नैमिति तुल्यम् / लिङ्गशानस्य प्रामाण्यानिश्चये कर्थ तन्नि. श्चयः स्यादिति चेत् / अनुपपद्यमानार्थज्ञानस्य प्रामाण्यानिश्चये कथं तनिश्चय इति तुल्यम् / न हि निश्चयेन स्वप्रामाण्यनिश्चयेन वा विषयं निश्चाययति प्रत्यक्षम् , अपि तु स्वसत्तयेत्युक्तमिति चेत् / तुल्यम् / तथापि यदि तल्लिङ्गाभासः स्यात्तदा का वार्तति चेत् / अनुपपद्यमानोऽप्यों यद्याभासः स्यात् तदा का वात॑ति बोधनी। लिङ्गम् इति / प्रवृत्तिसामर्थ्य तज्जातीयत्वं वा प्रामाण्यलिङ्गं निश्चितमेव सत्प्रवर्तकज्ञानस्य प्रामाण्यं निश्चाययति, लिङ्गनिश्चयश्च तज्ज्ञानप्रामाण्य निश्चयादेवेति अवश्यं तदपि लिङ्गान्त. रेण निश्चितेन निश्चेयं, तनिश्चयश्च तज्ज्ञानप्रामाण्य निश्चयादिति / लिङ्गज्ञानप्रामाण्यं निश्चेत. मेव परम्परा व्यवतिष्ठते इत्यत्रापि प्रामाएषस्यावश्यज्ञेयत्वानभ्युपगमेन सुगमः परिहार इति मन्वानः परस्यापि समानमेतदित्याह-तत्किम्-इति / निश्चित एवानुपपद्यमानोऽपि स्वोपपादकमाक्षिपति / तनिश्चयश्च तज्ज्ञानप्रामाण्यनिश्चयात् सोऽप्यनुपपद्यमानार्थान्तरनिश्चयादिति दस्तराऽनवस्थेति / प्रत्यक्षेणेत्यादिशङ्का, तदुत्तरं च सुगमम् / लिङ्गज्ञानस्य इति / सत्तामा. त्रावस्थितेन चक्षुरादिना जातेऽपि लिजज्ञाने तत्प्रामाण्यानिश्चये कथं लिङ्गनिश्चयः, प्रामाण्यनिश्च. यच लैहिक एवेत्यनवस्था सुस्थेति / तदन्यत्रापि तुल्यमित्याह-अनुपपद्यमान-इति / न हि-इति / अनुपपद्यमानप्राहकं च प्रत्यक्षमिति शेषः / तदन्यत्रापि तुल्यं लिाप्राहकस्यापि तुल्यं प्रत्यक्षत्वादित्याह-तुल्यम्-इति / तथापि इति / सत्तामात्रेण प्रत्यक्षस्य निश्चायकत्वे. ऽपि तस्य तदाभासादविवेचितस्वात्तदवगतं प्रामाण्यलिङ्गं कदाचिदाभासः स्यात् / अतस्तत्प्रा. माण्यं शेयमिति / तदप्यनुपपद्यमानग्राहिणोऽपि प्रत्यक्षस्य तुल्यमित्याह-अनुपपद्यमान इति / प्रकाशः। तस्या अपि प्रामाण्यानुस्मरणेऽनवस्था। प्राभाकराणामपि प्रामाण्यस्य स्वप्राह्यत्वं न स्वप्रायं, स्वप्राह्यत्वस्य स्वरूपप्रामाण्यान्यत्वादिति परप्राह्यत्वेऽप्यनवस्थानात् परिशेषानुमानेन मानान्त. रेण वा ग्राह्यम्, तथा च तत्प्रामाण्यस्यापि स्वग्राह त्वमन्येनेत्यनवस्थया विषयान्तरसञ्चारो न स्यादिस्यर्थः / कारणमुखीमनवस्थामाह / लिङ्गमिति / प्रामाण्यसंशयेन लिङ्गस्य सन्दिग्धत्वान प्रकाशिका। लक्षणम् / मिश्राणामप्यनुव्यवसायप्रामाण्यप्रहद्वारिका अनवस्था द्रव्या।प्राभाकराणामिति। प्रा. माण्यग्रहेऽनावश्यकेऽप्यावश्यकरवमारोप्य मन्मतेऽनवस्थाप्रसञ्जने स्वप्रात्यत्वानुमितिद्वारिका गुरु णामपि सा स्यादित्यर्थः। कारणमुखीमिति / यद्यपि पूर्वमियमाश का परिहृतव, तथापि तत्र बोष्यः। प्राभाकराणामपि प्रामाण्यस्येति / प्रामाण्यस्य यदर्थतथात्वं प्रामाण्यं तस्य तत्स्वतो प्राह्यत्वं तदप्रो प्रामाण्यज्ञानप्रामाण्याप्रहादर्थज्ञानप्रामाण्यमप्यप्रतिष्ठितम्भवेदित्यनवस्थेति भावः / यदा यत्रैव प्रामाण्यस्य स्वतोप्राह्यत्वमगृहीतं भवेत् तत्रैव तस्य स्वतोप्रायमप्रामाणिक भवेत्तत्तद्ग्रहणानुसरणेऽनवस्था इति / इदमत्र चिन्त्यम् , कालान्तरे पुरुषान्तरेण वा प्रहे क्षत्यभावाद् भवत्यनवस्थापरिहार इति / स्वरूपप्रामाण्यत्वात् / स्वस्य रूपं स्वरूपमिति टिप्पणी।