________________ द्वितीयस्तवके ] : प्रामाण्यपरतस्त्वौपपादनम् / 226 नुपलब्धेरिति / यदा झटिति प्रचुरतरसमर्थप्रवृत्त्यन्यथानुपपत्त्या स्वतः प्रामाण्यमुच्यते, तदपि नास्ति / अन्यथैवोपत्तेः। झटिति प्रवृत्ति है झटिति तत्कारणोपनिपातमन्तरेणानुपपद्यमाना तमाक्षिपेत् , प्रचुरप्रवृत्तिरपि स्वकारण. प्राचुर्यम् , इच्छा च प्रवृत्तः कारणम् , तत्कारणमपीष्टाभ्युपायताज्ञानम् , तदपि तजातीयत्वलिङ्गानुभवप्रभवम् , सोऽपीन्द्रियसनिकर्षादिजन्मा, न तु प्रामाण्य. ग्रहस्य क्वविदप्युपयोगः। उपयोगे वा स्वत एवेति कुत एतत् ? / ततः समर्थः प्रवृत्तिप्राचुर्यपि प्रामाण्यप्राचुर्यात्, तद्ग्रहणप्राचुर्याद्वा / स्वतस्त्वं तु तस्य कोपयुज्यते / न हि पिपासूनां झटिति प्रचुरा समर्था च प्रवृत्तिरम्भसीति पिपासोपश. बोधनी। स्वतः प्रामाण्यं ज्ञायत इत्यत्र परोकं प्रमाण दूषयितुमनुभाषते-यदपि-इति / समा संगतार्था प्रयोजनाविसंवादिनीति यावत् / यदाह भाष्यकारः - "सामर्थ्य पुनरस्याः फलेनाभिसंबन्धः" इति / तदेतत्प्रवृत्तिसामर्थ्य प्रवर्तकविज्ञानस्य प्रामाण्यमन्तरेणानुपपद्यमानं तदाक्षिपति / तस्यापि प्रवृत्तेः प्रामाण्यसंशयादप्युपपत्तिमाशङ्कचोक्तं-प्रचुर इति / संशयेन हि कदाचित् क्वचित् प्रा. तिः स्थात् , न तु प्रचुरेति / ननु ततः प्रामाण्यनिश्चयोऽस्तु स्वत एवेति कुत इत्यत्रोक्तं-झटि. ति-इति / प्रमाणान्तरानपेक्षमेव ज्ञानोत्पत्त्यन्तरं भवन्ती ताशी प्रवृत्तिः स्वतः प्रामाण्यनिश्चयं गमयति / ततश्च परतस्त्वानुमान बाधप्रतिरोषयोरन्यतरदोषकलुषितमिति भावः / दूषयतितदपि-इति / तामेवान्यथैवोपपत्तिमाह-झटिति इति। न तु तत्रैवोपयोगः प्रामाण्यग्रहस्येति दर्शयंस्तकारणपरम्परां दर्शयति-इच्छा च इति / दृष्टार्थेषूपयोगाभावेऽप्पदृष्टार्थेषु ज्योतिष्टोमा. दिषु प्रागेव प्रवृत्तेः प्रामाण्यनिश्चयोपयोगमाशङ्कयाह / ततः समर्थ इति / यतः प्रामाण्यप्रहस्य न प्रवृत्ति प्रत्युपयोग इति कथं प्रामाणादप्य गृहीतप्रामाण्यात् समर्था प्रवृत्तिरित्यत्राह-तद्ग्रहण इति / प्रवर्तकविज्ञानप्रमाण्यमहणावश्यंभावेऽपि विशिष्ट प्रवृत्तेन तनाहकादेव तद्धर्मप्रामाण्यप्रह इत्येतद् दृष्टान्तेनोपपादयति-न हि इति / न हि पिपासाशमनशक्तमिति विशिष्ट प्रवृत्तिः पाथः. प्रकाशः। मिगतसाधारणधर्मस्य येन सह भूयःसहचारावसायस्तत्रोत्कटकोटिकता संशयस्य धर्मिज्ञानस्या हेतुत्वे न स्यात् / __यदपीति / प्रामाण्यस्यानुमेयत्वे लिङ्गपरामर्शापेक्षया विलम्मः स्यादित्यर्थः / तथा चार्या. पत्त्या परतस्त्वसाधनं प्रतिबदमिति भावः / अन्यथैवेति / प्रवृत्तिमात्रे प्रामाण्यग्रहो न हेतुः, अर्पसन्देहादपि प्रवृत्तरित्यन्यथोपपत्तरित्यर्थः / उपयोगे वेति / झटित्यभ्यासाप. भलिङ्गानुसन्धानादप्युपपत्तेरित्यर्थः / परमतेऽपि व्यभिचारमाह। न हीति / न ह्यविलम्ब टिप्पणी। णीति वक्तुमुचितम् / धम्मिशानस्याहेतुत्वे न स्यादिति / धर्मस्योभमकोटिमह. चरितत्पविशेषाभावात् क्वचिद्धमिमि भावेन क्वचिच्चाभावेन भूयस्तदप्रहात् सहचारप्रहांशस्य विशेष्यकत्वस्य वक्तुमशक्यत्वात् धम्मितावच्छेदकप्रहस्यापि विशेषकत्वासम्भवाद् विशेषो न स्याद् , धम्मिग्रहस्य हेतुत्वे च यद्धर्मिणि येन भूयस्सहचारप्रहस्तदम्मिगोचरसहचारज्ञानजन्यस्वस्य संशये तस्कोव्योत्कट्यनियामकत्वस्य वक्तुं शक्यत्वादिति भावः / न संशयस्यैव तद्धर्मिविषयकत्वं तत्कोट्य कट्यप्रयोजकमस्त्विति वाच्यम् , तद्धम्मिविषयकपरोक्षसाधारण. धर्मपम्मिज्ञानजनितसंशये तम्मिमात्रविषयकत्वस्य नियामकाभावेनोपपादयितुमशक्यत्वात्तत्को. व्योत्कटथव्यवस्थायास्तत्रोपपादयितुमशक्यत्वात् / धमिज्ञानस्य हेतुत्वे च संशयस्य तत्र धर्मिमात्रविषयकत्वं सूपपादम् कारणगतविशेषाप्रयोज्यत्वे कार्यगतविशेषस्याकस्मिकत्वमपि दोषो