________________ 228 व्याख्यात्रयोपेतप्रकाशबोधनीयुते न्यायकुसुमाजली [ 1 कारिकाव्याख्यायो वत् / यदि तु स्वतो शायेत, कदाचिदपि प्रामाण्यसंशयो न स्यात् , ज्ञानत्वसं शयवत् / निश्चिते तदनवकाशात् / न हि साधकबाधकप्रमाणाभावमवधूय समा. नधर्मादिदर्शनादेवासौ, तथा सति तदनुच्छेदप्रसङ्गात्। अथ प्रमाणवदप्रमाणेऽपि तत्प्रत्ययदर्शनाद्विशेषादर्शनाद्भवति शङ्केत्यभिप्रायः, तत् किं प्रमाणज्ञानोपलम्भेऽपिन तत्प्रामाण्यमुपलब्धं,प्रमाणज्ञानमेव वा नोपलब्धम् ? माद्य, कथं स्वतः प्रामाण्यग्रहः, प्रत्ययप्रतोतावपि तदप्रतीतेः, द्वितीये, कथं तत्र शङ्का, धर्मिण एवा बोधनी। विसंवादादेरिति / सांशयिकत्वात्संशयत्वादित्यर्थः / माध्यविपर्ययाङ्गीकारेऽनिष्टप्रसङ्गमाह-यदि इति / यथा हि निश्चिते ज्ञानस्वरूपे संशयो नास्ति ज्ञानमिदं न वेति, तद्वत्प्रामाण्येऽपि संशयः कदाचिन्न स्यात् तस्यापि निश्चयात्, निश्चितेऽपि विषये संशयस्यानुत्थानादिति / ननु निश्चितेऽपि प्रामाण्ये ज्ञानत्वादेः प्रमाणाप्रमाणसाधारणधर्मस्म दर्शनात संशयः स्यादित्यात्राव-न हि-इति / असत्येव च साधकबाधकप्रमाणाभावे समानधर्मदर्शनादेः संशयहेतुत्वे को दोषस्तत्राह-तथा स. ति-इति / विशेषदर्शनोत्तरकालेऽपि समानधर्मादिदर्शनस्य संशय हेतोः सत्त्वादिति / मथ-इति / ज्ञानेन सह गृह्यमाणेऽपि प्रामाण्ये प्रमाणज्ञानेष्विवाप्रमाणज्ञानेष्वपि प्रामाण्यदर्शनादिदं प्रमाणज्ञान मिदं त्वप्रमाणमिति नियामकविशेषादर्शनाच्च संचयोपपत्तिरिति भेदतद्विशेषोपलम्भे संशयस्यानुत्पत्तेः, प्रामाण्यसंशयवादिनापि तदनुपलब्धिरवश्यं वक्तव्येति मन्बानो विकरुप्य दूषयति-तकि. म्-इति / धर्मिण एव-इति / उपलब्धे हि धर्मिणि धर्मविषयकः संशयो न स्वनुपलब्ध इति / अत्रायं संक्षेपः- गृह्यमाणं ज्ञ.नं यद्यप्रमाणविलक्षणं न गृह्येत ततः प्रामाण्यमेव न गृहीतं स्यात् , अथ तथा गृह्येत ततो न कदाचिदपि प्रामाण्यसंशयः स्यादिति / एवं स्वपक्षसाधनमभिधायेदानी प्रकाशः। . मणावाहुः / कदाचिदपीति / प्रामाण्यग्रहोत्तरकालमिव तत्पूर्वमपीत्यर्थः / न च ज्ञानत्वस्य साधा. रणधर्मस्य ज्ञानमात्राद् इत्याह / न हीति / प्रामाण्यज्ञानमात्रं न विरोधि, अपि तु प्रमाणमेवेत्यवधारणाऽऽस्मकमित्याशयेन शङ्कते / अथेति / निश्चय मात्रमेव संशयविरोधि, न तु तद्विशेषोऽवधारणमित्याशयेन परिहरति / तत्किमति / प्रमाणेति / प्रमाणरूपं ज्ञानमित्ययः / तदप्रतीतेः प्रामाण्याप्रतीतेः // ___ धमिण एवेति / ननु धर्मिज्ञानं न संशयहेतुः / कोटिस्मरणविशेषादर्शनधर्मीन्द्रियसन्निकर्षात् प्रामाण्यसंशयरूप एव ज्ञानग्रह उत्पद्यते / अन्यत्र विशिष्टज्ञाने विशेष्यज्ञानस्याहेतुत्वात् / अत्राहुः / तुरगादी वेगेन गच्छतस्तद्विषयेन्द्रिय सन्निकऽपि यावद्विषयाज्ञाने यदेव धाम ज्ञ यते तत्रैव विशेषादर्शनादितः संशयो जायते, न त्वज्ञाते धर्मिणीति धर्मिज्ञानं तद्धेतुः। किश्च, यद्ध. मकरन्दः। कदा चिदपोतीति / तत्र दोषात् कदाचित् प्रामाएपसंशवेऽपि क्वचिन्मनसा तद्ग्रहे बाध काभावान्मनोयोग्यत्वलक्षणं स्वतस्त्वं न खरिडतं भवति, अन्यथा रजतत्त्वादेश्चक्षुरादियोग्यत्वं न स्यात् / दोषतदभावाभ्यामुभयोपपत्तिरिति तु तुल्यम् / न च तत्र सामप्रोबलात् तथा, प्रकृते मनसो बहिरस्वातन्त्र्यात् स्वातन्त्र्येण तद्वत्वप्राहकस्यैव तत्सत्तानिश्चयरूपतया प्रामाण्याप्राहक. स्वान्न तथेति वाच्यम् / तर्हि सामग्रोविर हान्न स्वतस्त्वमित्यायातं, संशयानुपपत्तेः कोपयोगः 1 / न च सोऽपि उपनाते मनसः स्वातन्त्र्याभ्युपगमात् / अन्यथा तवाप्युपनयसहकारेग ततस्तद. प्रहणं सर्वसिद्ध विरुद्धयेतेति चिन्श्यम् / टिप्पणी। चनेन्द्रियादिना धमिणमगृहीत्वा सम्भवतीत्युक्तदोषो न स्यादत आह / किञ्चेति। यद्धम्मि