________________ द्वितीयस्तवके] प्रामाण्यपरतस्त्वोपपादनम् / 225 प्रकाशः। वस्तुतः करादिमद्विषयकत्वात् / न च करचरणशुन्यै यच्छरीरत्वेन ज्ञानं न भवतीति विवक्षितम् / तृतीयार्थस्य विषयत्वे स्वरूपासिद्धः / शरीरज्ञानस्य तच्छून्यशरीरत्वादिविषयकत्वनियमात् / अत्राहुः / समर्थप्रवृत्तिजनकत्वं प्रवृत्युत्तरकालं संस्कारोपनीतज्ञाने प्रमेयत्वाभिधेयत्वव्याप्तिवद् गृह्यते / यद्वा पूर्व पृथिवीशाने पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितौ कदाचित् तत्रैव गन्धस्य तद्विरोधिविरहस्य साक्षात्कारे पुनः स्मृतिरूपे पृथिवीज्ञाने सति तत्सन्निकृष्टेन प्रत्य. मिज्ञान इव विशेषणज्ञानजनितसंस्कारापेक्षेण मनसा गन्धवस्येवाऽयं निश्चय इत्याकारेण सुरभि चन्दनमिति चाक्षुषवज्ज्ञानजननान ग्राहकाभावात्वसिद्धिः / तज्जातीयत्वमपि करचरणवद्विशेष्यकशरीरत्वप्रकारकज्ञानकत्वादि / शरीरश्रमे करचरणवतो विशेषणत्वात् / प्रथमं च प्रामाण्यानमितिः केवलव्यतिरेकिणा / . प्रकाशिका। विशेषण कहेतुप्रहसम्भवाच्च। पुनः स्मृतिरूप इति / अत्र केचित् / पृथिवीशनि-पृथिवीज्ञानज्ञाने / अन्यथा पृथिवीस्मरण एव गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयानुव्यवसितावित्यस्य वैय •प / एवं च ततः सन्निकृष्टेनेस्यस्य तस्मृतिरूपसन्निकर्षवतेत्यर्थ इति व्याचक्षते / वस्तुतो गन्धवद्विशेष्यकत्वोपनयाथमेव पृथिवीत्वप्रकारकनिश्चयस्वानुव्यवसायोपयोगः / एवं च पृथिवीत्वपदं गन्धवत्त्वपरम् , एवं च पृथिवीज्ञाने जाते तद्विषये गन्धवत्त्वपरिच्छेदे गन्धव. त्वप्रकारकनिश्चयत्वानुव्यवसितौ स्मृतिरूपे पृथिवीज्ञाने तत्सन्निकृष्टेन मनसा स्मृत्युपनीतगन्धव मकरन्दः। त्तिसामान्यजनकत्वमेक हेतुप्रविष्टम् , तथा चोपनीते ज्ञाने प्रवृत्तिजनकरवे प्रात्तौ च समर्थस्वमुप. नीतं गृह्यत इत्याद्विशिष्टवैशिष्टयरूपहेतुमह उपपद्यत इति / स्मृतिरूपे पृथिवीज्ञाने इति / पृथिवीज्ञानज्ञाने इत्यर्थः / अन्यथा पृथिवीस्मरण एव गन्धवद्विशेष्यकत्वनिश्चयलाभे पृथिवीत्वप्रकारकनिश्चयत्वानुव्यवसितावित्यनर्थकमापद्येत / एवञ्च तत्सन्निकृष्टेनेत्यस्य स्मृतिरूपसविषयकसहकारिणेत्यर्थः / तथा च स्मृत्युपनीते पूर्वानुभव एव गन्धवद्विशेष्यकत्वनिश्चय इति तद्विशेष्यकपृथिवीत्वप्रकारकज्ञानत्वादिहेतुग्रह इति भावः / टिप्पणी / प्रकारकभ्रमस्यापीत्यर्थः / तृतीयार्थस्य विषयत्व इति / विषयत्वरूपत्वे, सप्तम्या भपि तत्त्व इत्यपि वाच्यम् / अभिधेयत्वव्याप्तिवद् गृह्यते इति। प्रमादिघटिते तत्र नियमेनोपनया. पेक्षासम्भवात् / तद्विरोधिविरहस्येति / गन्धविरोधिशीतोष्णस्पर्शादिग्रहे गन्धसाक्षात्. कारे शङ्खपीतत्वसाक्षत्कार इव दोषजत्वशङ्कया प्रामाण्यसंशये गन्धवविशेष्यकत्वांशपरिच्छेदो न स्यात्तस्य तत्र विरोवित्वात् अतः सर्वथैव तदभावदाढर्याय गन्धविरुद्धत्वेन ये ये गृहीतास्त. स्कालमुपस्थिताश्च तेषामभावसाक्षात्कारपयंन्तानुसरणमिति भावः / पृथिवीशाने स. तीति / पृथिवीज्ञानज्ञाने सतीत्यर्थः / गन्धवत्त्वे वाधनिश्चय इति / गन्धवद्विशेष्यकपृ. थिवीत्वप्रकारकोऽयं निश्चय इत्यर्थः / इत्याकारेण सुरभिचन्दनमितीति / अमेदे तृतीया ततश्च तज्ज्ञानेत्यत्रान्वेति / करचरणवदविशेष्यकेति / करचरणवनिष्ठविशेष्यतानिरूपित. शरीरत्वप्रकारतानिरूपकज्ञानत्वादिरूपं निर्वक्तुं शक्यत इत्यर्थः / शरीरभ्रमे चेति / स्थाणुत्वादिना शरीरभ्रमे न तु शरीरत्वेन शरीरप्रकारकभ्रम इत्यर्थः / तत्र व्यभिचारस्याप्रसक्तत्वाद्धेतोः सत्वाच करचरणवतोऽविशेषणत्वादिति न विद्यते ज्ञाने विवक्षितशरीरत्वरूपविशेषणं यत्र तत्त्वादित्यर्थः / अन्यथा विशेषणत्वोक्त्या विशेष्यत्वमेव व्याव] स्यात्तस्य शरीरादेः सखण्डत्वे. 26 म्या०कु०